SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ धर्म ॥ ११ ॥ Jain Education International तस्यास्तेनेतिवाक्येन स हितोऽपि निराकृतः । किं वा न कुरुते रक्तो, रामाणां वचसि स्थितः ? ॥ २६८ ॥ साक्यमविचाराणा, दत्तं दते महाभयम् । पयःपानं भुजङ्गानां हितकारि कथं भवेत् ? ॥ २६९ ॥ हितेऽपि भाषिते दोषो, दीयते निर्विचारकैः । परैरपीह रागान्धे - ग्रामकूटसमैः स्फुटम् ॥ २७० ॥ इत्थं रक्तो मया विप्राः ! सूचितो दुष्टचेष्टितः । इदानीं श्रूयतां द्विष्टः सूच्यमानो विधानतः ॥ २७१ ॥ ग्रामकूटावभूतां द्वौ, कोटीनगरवासिनौ । प्रथमः कथितः स्कन्दो, वक्रो वक्रमनाः परः ॥ २७२ ॥ आनयोस्तयोर्ग्राममेकं वैरमजायत । एकद्रव्याभिलाषित्वं वैराणां कारणं परम् ॥ २७३ ॥ दुर्निवारं तयोर्जातं, काककौशिकयोरिव । निसर्गजं महावैरं, प्रकाश तिमिरैषिणः (णोः) ॥ २७४ ॥ वक्रः करोति लोकानां, सर्वदोपद्रवं परम् । सुखाय जायते कस्य, वक्रो दोषनिविष्टधीः १ ॥ २७५ ॥ वक्रः कदाचन व्याधिमवाप प्राणनाशनम् । योऽन्येषां कुरुते दुःखं, स किं सौख्यमवाप्नुयात् १॥ २७६ ॥ सुतस्तदीयस्तं प्राह, कुरु धर्म्म पवित्रधीः । यः करोति परलोके, सुखानि सकलाङ्गिनाम् ॥ २७७ ॥ नापाति धनपुत्रादिः, परलोके सहात्मनः । एकमेव कृतं कर्म्म, सुखदुःखविधावलम् ॥ २७८ ॥ न परो वा निजः कोऽपि, संसारे भ्रमदङ्गिनाम् । ज्ञास्वेति कुमतिं हित्वा परलोकहितं कुरु ॥ २७९ ॥ अपास्य मोहं पुत्रादौ, धनं पात्रे निवेशय । देवं संस्मर चाभीष्टं, लभसे सद्गतिं यतः ॥ २८० ॥ For Private & Personal Use Only ** परीक्षा. ॥ ११ ॥ www.jainelibrary.org
SR No.600098
Book TitleDharm Pariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy