SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Jain Education I पुत्रवाक्यमिदं श्रुत्वा, निशम्याख्यत् स दुष्टधीः । कुर्वेकं पुत्र ! कार्य मे, सुपुत्रत्वात्तवोच्यते ॥ २८१ ॥ मयि जीवति रे वत्स ! स्कन्दोऽयं न सुखं स्थितः । परं भ्रातृसुतैः सार्धं न विनाशं गतोऽहितः ॥ २८२ ॥ समूलं क्षयमेत्येष, यथा कर्म्म तथा कुरु । वसामि यत् स्फुरदेहः, खर्गे धृष्टमनाः सुखम् ॥ २८३ ॥ वृक्षाद्यन्तरितस्तिष्ठ, त्वमस्यागतिमीक्षितुम् । आयातेऽस्मिन्मृतं हत्वा मां पूत्कुरु जनश्रुति ॥ २८४ ॥ हतं माममुना मत्वा, दण्डमस्य करिष्यति । भूषस्तथा यथा गोत्र-युतोऽयं द्राग्मरिष्यति ॥ २८५ ॥ एवं वदन्तमेवायुं, जघानोपेत्य पञ्चता । चकार वचनं तस्य, सुतोऽपि पितृमोहतः ॥ २८६ ॥ अन्तकालेऽप्ययं पुत्र - हितवाक्यं चकार न । दु ( द्वि) टास्तद्वद्भवन्तश्चेद्वदामि न हितं तदा ॥ २८७ ॥ द्विष्ट निवेदितो विप्रा - चित्रांशुरिव तापकः । इदानीं श्रूयतां मूढः, पाषाण इव नष्टधीः ॥ २८८ ॥ प्रधियोऽथास्ति कण्ठोष्ठं, यक्षास्पदमिवापरम् । पुरं सुरालयाकीर्ण, निधाननिलयीकृतम् ॥ २७९ ॥ अद्भूतमतिस्तत्र, विप्रो विप्रगणार्चितः । विज्ञातवेदवेदान्तो ब्रह्मेव चतुराननः ॥ २९० ॥ पञ्चाशत्तस्य वर्षाणां, कुमारब्रह्मचारिणः । जगाम धीरचित्तस्य, वेदाभ्यासनकारिणः ॥ २९९ ॥ बान्धवा विधिना यज्ञां, यज्ञवह्निशिखोज्ज्वलाम् । कन्यां तां ग्राहयामासुः, लक्ष्मीमिव मुरद्विषम् ॥ २९२ ॥ उपाध्यायपदारूढो, लोकाध्यापनसक्तधीः । पूज्यमानो द्विजैः सर्वैर्यज्ञविद्याविशारदः ॥ २९३ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600098
Book TitleDharm Pariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy