________________
धर्म
परीक्षा.
॥१०॥
पाखण्डं किं त्वयारब्धं !, खाद याहि प्रियागृहम् । तयेत्युक्तो गतो भीतः, स सुन्दा निकेतनम् ॥ २४२॥ विशालं कोमलं दत्तं, तया तस्य वरासनम् । कुर्वत्या परमं स्नेह, खचित्तमिव निर्मलम् ॥ २४३॥ अमत्राणि विचित्राणि, पुरस्तस्य निधाय सा। सरसं विश्राणयामास, तारुण्यमिव भोजनम् ॥ २४४ ॥ वितीर्ण तस्य सुन्दर्या, नाऽभवद्रुचयेऽशनम् । अभव्यस्येव चारित्रं, जिनवाचा विशुद्धया ॥ २४५॥ पुष्टिदं विपुलस्नेह, कलत्रमिव भोजनम् । सुवर्णराजितं भव्यं, न तस्याभूत् प्रियङ्करम् ॥ २४६ ॥ ईक्षमाणः पुरः क्षिप्रं, भाजने भोज्यमुत्तमम् । व्यचिन्तयदसावेवं, कामान्धं तमसावृतः ॥ २४७॥ चन्द्रमूर्तिरिवानन्ददायिनी सुपयोधरा। किं कुरङ्गी मम क्रुद्धा? न दृष्टिमपि यच्छति ॥ २४८॥ नूनं मां वेश्यया सार्द्ध, सुप्तं ज्ञात्वा चुकोप सा । तन्नास्ति भुवने मन्ये, ज्ञायते यन्न दक्षया ॥ २४९ ॥ ऊर्तीकृतमुखोऽवादि, परिवारजनैरयम् । किं तुभ्यं रोचते नात्र ? भुक्ष्व सर्व मनोरमम् ॥ २५०॥ स जगौ किमु जेमामि ? न किञ्चिजेमनोचितम् । कुरङ्गीगृहतो भोज्यं, किञ्चिदानीयतां मम ॥ २५१ ॥ श्रुत्वेति सुन्दरी गत्वा, कुरङ्गीभवनं जगौ । कुरङ्गि ! देहि किञ्चित् त्वं, कान्तस्य रुचयेऽशनम् ॥ २५२ ॥ साऽवादीन मयाऽद्यान्नं, किञ्चनाप्युपसाधितम् । त्वदीयभुवने तस्य, भोजनं मन्यमानया ॥ २५३॥ यदि वल्लिष्यते दत्तं, गोमयं स पतिर्मया । तदा सहिष्यते सर्व, दूषणं मम सक्तधीः ॥ २५४ ॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org