Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 24
________________ परीक्षा भोजनानि विचित्राणि, धनानि वसनानि च । सा विटेभ्यो ददाति स्म, कृतकाममनोरथा ॥ २१६ ॥ या ददाति निजं देहं, संस्कृत्य चिरपालितम् । रक्ताया द्रविणं तस्या, ददत्याः कोऽपि न श्रमः ॥ २१७ ॥ दिनर्नवदशै रक्ता, सा जारश्रेणये धनस् । खादति स्माखिलं दत्वा, न मुमोच गृहे मनाक ॥ २१८ ॥ कामवाणप्रपूर्णाङ्गा, सा चकार निजं गृहम् । कुप्यभाण्डधनहीन, मूषकक्रीडनास्पदम् ॥ २१९ ॥ अवेत्यागमनं पत्यु-विलुट्य धनसञ्चयम् । मुक्ता सा विटसंघेन, भिल्लौघेन यथा पुरी ॥ २२० ॥ वितागमनं पत्युः, सा सतीवेषमण्डिता। लज्जावतीव वनिता, तिष्ठति स्म गृहाङ्गणे ॥ २२१ ॥ सा तथा शुभवेषाऽस्थाद्यथा न ज्ञायतेऽसती । विमोहयति या शक्रं, तस्याः का गणना नृषु ? ॥ २२२ ।। साधितः स्वामिकार्योऽथ, बहुधान्यः पुरादहिः । समागम्य निविष्टः स, प्रजिघाय गृहेऽनुगम् ॥ २२३ ॥ तामुपेत्याऽवदद् भृत्यः, समेतस्ते पतिर्लघु । विधेहि भोजनं वार्ता-कथनाय प्रे(ये)षितो यहम् ॥ २२४ ॥ तस्य वाक्यं निशम्येति, कुरङ्गी कुटिलायंदत् । ज्यायसी वनितां ब्रूहि, क्रमलोपो न युज्यते ॥ २२५ ॥ सेन सार्धं समेत्यैषा, सुन्दरी प्रत्यदोऽवदत् । खाम्यागतो भोज्यतेऽद्य, वृद्धत्वात्तव समनि ॥ २२६ ॥ सुन्दर्यप्याह सभोज्य-सामग्री रचयाम्यहम् । परं त्वदासक्तचित्तः, स मे धानि न भोक्ष्यते ॥ ३२७ ॥ सा विहस्थाह चेन्मां स, मन्यतेऽत्यन्तवल्लभाम् । भोक्ष्यते तव धाम्येव, भुज्ये तत् कुरु भोजनम् ॥ २२८ ॥ Jain Education in For Private & Personal Use Only Ww.jainelibrary.org

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126