Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
स प्राह भारतायेषु, पुराणेषु सहस्रशः। श्रूयन्ते न प्रपद्यन्ते, भवन्तो विधियः परम् ॥ १५१॥ यदि रामायणे दृष्टा, भारते वा त्वयेदृशाः । प्रत्येष्यामस्तदा ब्रूहि, द्विजेनेत्युदितोऽवदत् ॥ १५२ ॥ ब्रवीमि केवलं विप्र! ब्रुवाणोऽत्र बिभेम्यहम् । यतो न दृश्यते कोऽपि, युष्मन्मध्ये विचारकः॥ १५३॥ खलाः सत्यमपि प्रोक्त-मादायाऽसत्यबुद्धितः । मुष्टिषोडशकन्यायं, रचयन्त्यविचारकाः ॥ १५४॥ कीदृशोऽसौ महाबुद्धे!, बहीति गदिते द्विजैः । उवाचेति मनोवेगः, श्रूयतां कथयामि वः॥ १५५ ॥ देशो मलयदेश्योऽस्ति, सङ्गालो गलितासुखः। तत्र गृहपतेः पुत्रो, नाम्ना मधुकरोऽभवत् ॥ १५६ ॥ एकदा जनकस्यासौ, निर्गत्य गृहतो रुषा । अभ्रमीद्धरणीपृष्ठं, रोषतः क्रियते न किम् ? ॥ १५७॥ आभीरविषये तुङ्गा, गतेनानेन राशयः। दृष्टा विभज्यमानानां, चणकानामनेकशः॥ १५८॥ तानवेक्ष्य विमुखेन, तेन विस्मितचेतसा । अहो चित्रमहो चित्रं, मया दृष्टमितीरितम् ॥१५९ ॥ किमाश्चर्य त्वया दृष्टं, धनिकेनेति भाषितः । अवादीदिति मूढोऽसौ, जानात्यज्ञो हि नापदम् ॥१६॥ यादृशो विषयेऽमुत्र, तुङ्गाश्चणकराशयः । मरीचराशयः सन्ति, तादृशा विषये मम ॥ १६१॥ धनिकेन ततोऽवाचि, स भृशं कुपितात्मना । किं त्वं प्रस्तोऽसि वातेन,१ येनासत्यानि भाषसे ॥ १६२ ॥ मरीचराशयस्तुल्या, दृष्टाश्चणकराशिभिः । नास्माभिर्विषये कापि, दुष्टबुद्धे ! कदाचन ॥ १६३ ॥
Jain Education Inter
For Private & Personel Use Only
Cirjainelibrary.org

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126