SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ स प्राह भारतायेषु, पुराणेषु सहस्रशः। श्रूयन्ते न प्रपद्यन्ते, भवन्तो विधियः परम् ॥ १५१॥ यदि रामायणे दृष्टा, भारते वा त्वयेदृशाः । प्रत्येष्यामस्तदा ब्रूहि, द्विजेनेत्युदितोऽवदत् ॥ १५२ ॥ ब्रवीमि केवलं विप्र! ब्रुवाणोऽत्र बिभेम्यहम् । यतो न दृश्यते कोऽपि, युष्मन्मध्ये विचारकः॥ १५३॥ खलाः सत्यमपि प्रोक्त-मादायाऽसत्यबुद्धितः । मुष्टिषोडशकन्यायं, रचयन्त्यविचारकाः ॥ १५४॥ कीदृशोऽसौ महाबुद्धे!, बहीति गदिते द्विजैः । उवाचेति मनोवेगः, श्रूयतां कथयामि वः॥ १५५ ॥ देशो मलयदेश्योऽस्ति, सङ्गालो गलितासुखः। तत्र गृहपतेः पुत्रो, नाम्ना मधुकरोऽभवत् ॥ १५६ ॥ एकदा जनकस्यासौ, निर्गत्य गृहतो रुषा । अभ्रमीद्धरणीपृष्ठं, रोषतः क्रियते न किम् ? ॥ १५७॥ आभीरविषये तुङ्गा, गतेनानेन राशयः। दृष्टा विभज्यमानानां, चणकानामनेकशः॥ १५८॥ तानवेक्ष्य विमुखेन, तेन विस्मितचेतसा । अहो चित्रमहो चित्रं, मया दृष्टमितीरितम् ॥१५९ ॥ किमाश्चर्य त्वया दृष्टं, धनिकेनेति भाषितः । अवादीदिति मूढोऽसौ, जानात्यज्ञो हि नापदम् ॥१६॥ यादृशो विषयेऽमुत्र, तुङ्गाश्चणकराशयः । मरीचराशयः सन्ति, तादृशा विषये मम ॥ १६१॥ धनिकेन ततोऽवाचि, स भृशं कुपितात्मना । किं त्वं प्रस्तोऽसि वातेन,१ येनासत्यानि भाषसे ॥ १६२ ॥ मरीचराशयस्तुल्या, दृष्टाश्चणकराशिभिः । नास्माभिर्विषये कापि, दुष्टबुद्धे ! कदाचन ॥ १६३ ॥ Jain Education Inter For Private & Personel Use Only Cirjainelibrary.org
SR No.600098
Book TitleDharm Pariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy