________________
परीक्षा.
पर
॥७
॥
किलात्र चणका देशे, मरीचानीव दुर्लभाः। म(स)मतागणना क्वापि, मरीचेवपि विद्यते( ? )॥१६४ ॥ विज्ञायतेऽयमस्माकं, दुष्टो मुग्धत्वनर्मणा । उपहासं करोतीति, क्षिप्रमेष निगृह्यताम् ॥ १६५ ॥ धनिकस्येतिवाक्येन, बबन्धुस्तं कुटुम्बिनः । अश्रद्धेववचोबादी, बन्धनं लभते न किम् ? ॥ १६६ ॥ केनापि करुणाईण, तत्रावादि कुटुम्बिना । अनुरूपोऽस्य दण्ड्यस्य, भद्रा! दण्डो विधीयताम् ॥ १६७ ॥ निकामं मुष्टयोऽमुष्य, दीयतामष्ट मूर्धनि । उपहासं पुनर्येन, न कस्यापि करोत्यसौ ॥ १६८ ॥ तस्येतिवचनं श्रुत्वा, विमुच्यास्य कुटुम्बिभिः । मुष्टयो मस्तके दत्ता, निष्ठुरा निघृणात्मभिः ॥ १६९॥ एभियन्मुष्टिभिस्त्यक्तो, लाभोऽयं परमो मम । जीवितव्येऽपि सन्देहो, दुष्टमध्ये निवासिनाम् ॥ १७॥ विचिन्त्येति पुनीतो, निजं देशमसौ गतः । बालिशा न निवर्तन्ते, कदाचिदकदर्थिताः ॥ १७१ ॥ विभागेन कृतास्तेन(?), देशं सङ्गालमीयुषा । मरीचराशयो दृष्टास्तुल्याश्चणकराशिभिः ॥ १७२॥ तत्र तेन तदेवोक्तं, लब्धो दण्डोऽपि पूर्वकः । बालिशो जायते प्रायः, खण्डितोऽपि न पण्डितः ॥ १७३॥ मुष्टिषोडशकं प्राप्त, यतः सत्येऽपि भाषिते । मुष्टिषोडशकन्यायः, प्रसिद्धिमगमत्ततः॥ १७४ ॥ न सत्यमपि वक्तव्यं, पुंसा साक्षिविवर्जितम् । परथा पीड्यते लोकैरसत्यस्येव भाषकः ॥ १७५ ॥ असत्यमपि मन्यन्ते, लोकाः सत्यं ससाक्षिकम् । वञ्चकैः सकलो लोको, वञ्चयते कथमन्यथा? ॥ १७६ ॥
in Education International
For Private & Personel Use Only
www.jainelibrary.org