________________
पुंसा सत्यमसत्यं वा, वाच्यं लोकप्रतीतिकम् । भवन्ती महती पीडा, परथा केन वार्यते ॥ १७७॥ पुंसा सत्यमपि प्रोक्तं, प्रपद्यन्ते न बालिशाः। यतखतो न वक्तव्यं, तन्मध्ये हितमिच्छता ॥ १७८॥ अनुभूतं श्रुतं दृष्ट, प्रसिद्धं च प्रपद्यते । अपर ध (न) यतो लोको, न वाच्यं पटुना ततः ॥१७९ ।। ममापि निर्विचाराणां, मध्येऽत्र वदतो यतः। ईशो जायते दोषो, न वदामि ततः स्फुटम् ॥ १८॥ विचारयति यः कश्चित्, पूर्वापरविचारकः । उच्यते पुरतस्तस्य, नापरस्य पटीयसा ॥ १८१॥ इत्युक्त्वाऽवस्थिते खेटे, जगाद द्विजपुङ्गवः । मैवं साधो! गदीर्नास्ति, कश्चिदत्र विवेचकः ॥ १८२॥ मा ज्ञासीरविचाराणां, दोषमेषु विचारिषु । पशूनां जायते धर्मों, मानुषेषु न सर्वथा ॥ १८३ ॥ आभीरसदृशानस्मान्, मा ज्ञासीर्मुग्धचेतसः। वायसैः सदृशाः सन्ति, न हंसा हि कदाचन ॥ १८४॥ अत्र न्यायपटीयांसो, युक्तायुक्तविचारिणः । सर्वेऽपि ब्राह्मणा भद्र ! मा शविष्ठा वदेप्सितम् ॥ १८५॥ बधुक्त्या घटते वाक्यं, साधुमिर्यच बुध्यते । तद् ब्रूहि भद्र ! निःशङ्को, ग्रहीष्यामोऽविचारतः ॥ १८६ ॥ इति विप्रवचः श्रुत्वा, मनोवेगोऽलपद्वचः। जिनेशचरणाम्भोजचञ्चरीकैकलम्बनः ॥ १८७ ॥ रक्तो विष्टो मतो मूढो, व्युग्राही पित्तदूषितः । चूतः क्षीराऽगुरुर्जेयाश्चन्दनो बालिशा(शों) दश ॥ १८८ ॥ पूर्वापरविचारेण, तिर्यञ्च इव वर्जिताः । सन्त्यमी यदि युष्मासु, तदा वक्तुं विभेम्यहम् ॥ १८९॥
Jain Education in
For Private & Personel Use Only
W
w.jainelibrary.org