________________
तं. वै. प्र.
॥ ८ ॥
Jain Education
च्छोणितमिति ?, भगवान् प्राह- हे गौतम ! जीवः णं वाक्यालङ्कारे गर्भगतः सन् यदाहारमाहारयति तदाहारं श्रोत्रेन्द्रि यतया १ चक्षुरिन्द्रियतया २ प्राणेन्द्रियतया ३ जिह्वेन्द्रियतया ४ स्पर्शनेन्द्रियतया ५ चिनोति पुष्टिभावं नयतीत्यर्थः, इन्द्रियाणि द्वैधानि - पुद्गलरूपाणि द्रव्येन्द्रियाणि १ लब्ध्युपयोगरूपाणि तु भावेन्द्रियाणि २, पुनर्निर्वृत्युपकरणलक्षणभेदात् द्वैधानि द्रव्येन्द्रियाणि तत्र निर्वृत्तिर्द्विधा - अन्तो १ बहिश्च २, तत्र अन्तः - श्रोत्रेन्द्रियस्य अन्तः- मध्ये नेत्रगोचरातीता केवलिदृष्टा कदम्ब कुसुमाकारा देहावयवरूपा का चिन्निर्वृत्तिरस्ति या शब्दग्रहणोपकारे वर्तते १ चक्षुरिन्द्रि यस्यान्तः - मध्ये केवलिगम्या धान्यमसूराकारां देहावयवरूपा काचिन्निर्वृत्तिरस्ति या रूपग्रहणोपकारे वर्त्तते २ घ्राणेन्द्रियस्य अन्तः - मध्ये केवलिदृश्या अतिमुक्तककुसुमाकारा देहावयवरूपा काचिन्निर्वृत्तिरस्ति या गन्धग्रहणोपकारे वर्त्तते ३ रसनेन्द्रि यस्य अन्तः - मध्ये जिनगम्या क्षुरप्राकारा देहावयवरूपा काचिन्निर्वृत्तिरस्ति या रसग्रहणोपकारे वर्त्तते ४ स्पर्शनेन्द्रियस्य अन्तः- मध्ये केवलिदृष्टा देहाकार । काचिन्निर्वृत्तिरस्ति या स्पर्शग्रहणोपकारे वर्त्तते ५-१ बहिर्निर्वृत्तिस्तु या सर्वेषामपि श्रोत्रादीनां कर्णशष्कुलिकादिका दृश्यते सैव मन्तव्या २, उपकरणेन्द्रियं तु तेषामेव कदम्बगोलकाकारादीनां खड्गस्य छेदनशतिरिव ज्वलनस्य दहनशक्तिरिव वा या स्वकीय२विषयग्रहणशक्तिस्तत्स्वरूपं द्रष्टव्यम् २, तथा ज्ञानावरणकर्मक्षयोपशमाज्जीवस्य शब्दादिग्रहणशक्तिरूपं लब्धिभावेन्द्रियं १ यत्तु शब्दादीनामेव ग्रहणपरिणामलक्षणं तदुपयोगभावेन्द्रियमिति २, तत्र यानि द्रव्येन्द्रियाणि तानि जीवानामिन्द्रियपर्याप्तौ सत्यां भवन्ति, यानि च भावेन्द्रियाणि तानि संसारिणां सर्वावस्थाभावीनीति, तथा नयनस्य विषयोऽप्रकाशकवस्तु पर्वताद्याश्रित्यात्माङ्गुलेन सातिरेकं योजन
For Private & Personal Use Only
गर्भे उच्चा
राद्यभावः सू. ३
॥ ८ ॥
jainelibrary.org