Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 132
________________ चतुःशरणे : ॥६४॥ २९ RANG भूतः ?-प्रणतं-भक्तिवशेन नम्रीभूतं यच्छिरस्तत्र रचितः करकमलाभ्यां शेखरो येन स तथा, एवंभूतः सन् सहर्ष सिद्धशरणं भणति ॥ २३ ॥ यच्चायं भणति तगाथाषदेनाह-कम्मट्ठ'त्ति, कर्माष्टकक्षयेण सिद्धाः-प्रसिद्धाः ते तीर्थसिद्धादिभेदेन गा.२३पञ्चदशधा, तानाह-तीर्थसिद्धाः प्रसन्नचन्द्रसनत्कुमारादयः१ अतीर्थसिद्धा मरुदेव्यादिकाः २ गृहलिङ्गसिद्धाः पुण्याढ्यादिकाः ३ अन्यलिङ्गसिद्धा वल्कलचीर्यादिकाः ४ स्वलिङ्गसिद्धा जम्बूस्वाम्यादिकाः ५ स्त्रीलिङ्गसिद्धा राजीमत्याहै दिकाः ६ नरसिद्धा भरतादिकाः ७ कृत्रिमनपुंसकसिद्धाः गुणसेनादिकाः ८ प्रत्येकबुद्धसिद्धा नमिराजादिकाः ९ स्वयंबुद्ध-16 सिद्धाः समुद्रपालादिकाः १० बुद्धबोधितसिद्धाः त्रिकाधिकपञ्चदशशततापसादिकाः ११ एकसिद्धाः गजसुकुमालादिकाः | १२ अनेकसिद्धा भरतपुत्रादिकाः १३ अजिनसिद्धाः पुण्डरीकगौतमादिकाः १४ जिनसिद्धा आदिनाथादिकाः १५ पुनः कथंभूताः-स्वाभाविके-निरावरणे ये अनवच्छिन्ने ज्ञानदर्शने ताभ्यां समृद्धाः-स्फीताः स्फातिमन्तः, तथाऽर्थ्यन्ते-अभिलष्यन्ते इत्यर्थाः सर्वे च तेऽर्थाश्च तेषां लब्धयः-प्राप्तयः सर्वार्थलब्धयः सिद्धा-निष्पन्नाः सर्वार्थलब्धयो येषां ते तथा, सिद्धसर्वकार्याः-प्राप्तसर्वसुखज्ञानादिभावाः कृतकृत्या इत्यर्थः, आर्षत्वात् सिद्धशब्दस्याग्रे निपातः, सर्वार्थलब्धिभिः सिद्धा| निष्ठिता इत्येवं वा समासः, ते सिद्धा मम शरणं भवन्तु ॥२४॥ 'तिअलोय'त्ति, त्रैलोक्यस्य-चतुर्दशरज्ज्वात्मकस्य यन्मस्तक-सर्वोपरिवर्तिस्थानं पञ्चचत्वारिंशल्लक्षयोजनविस्तीर्णेषत्प्राग्भाराख्यसिद्धिशिलाया उपरितनयोजनसत्कोपरितनचतुर्विशतितमभागरूप आकाशदेशस्तत्र तिष्ठन्तीति त्रैलोक्यमस्तकस्थाः, तथा परमपदं-मोक्षपदं सर्वकर्मरहितत्वरूपं तद्धेतुत्वाच्चारित्रादिक्रियाकलापस्य तत्र तिष्ठन्तीति ते तथा, अचिन्त्यमनन्तत्वात् सामर्थ्य-जीवशक्तिविशेषो बलं CASSESARSHANKS HainEducation For Private sPersonal use Only H uaw.jainelibrary.org

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160