Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
प्राग्मन्दानुभावादू बद्धाः-स्वल्पशुभपरिणामवशान्मन्दरसा बद्धा विशिष्टतरशुभाध्यवसायवशात्तीत्रोऽनुभावो-रसो यासां तास्तीत्रानुभावाः-अत्युत्कटरसाः करोति, उपलक्षणादल्पकालस्थितीः दीर्घकालस्थितीः करोति अल्पप्रदेशका बहुप्रदेशकाश्च कोतीत्यपि ज्ञेयं, तथा 'असुहाउ'त्ति याश्चाशुभा 'नाणंतरायदसग'मित्यादिगाथोक्ता घ्यशीतिसंख्याः पूर्व बद्धाः स्युस्ता निर्गतोऽनुबन्धः-उत्तरकालफलविपाकरूपो याभ्यस्ताः निरनुबन्धाः एवंविधाः करोति, तद्विपाकजनितं दुःखमुत्तरकाले तस्य न भवतीत्यर्थः, तथा ता एव यास्तीत्राः-तीव्ररसाः प्राक् तीव्राशुभपरिणामेन बद्धास्ता मन्दाः-मन्दरसाः करोति चतुःशरणगमनादिरूपशुभाध्यवसायबलाद् , अत्रापि उपलक्षणादीर्घकालस्थितीरल्पकालस्थितीर्बहुप्रदेशका अल्पप्रदेशकाश्च करोतीत्यपि ज्ञेयं, शुभपरिणामवशादशुभप्रकृतीनां स्थितिरसप्रदेशानां हाससम्भवात् , वन्दनकदानात श्रीविष्णोरिवेत्यर्थः ॥ ६० ॥ उक्तं चतुःशरणप्रतिपत्त्यादेर्महत्फलं, अत एव तदवश्यं कर्त्तव्यमिति दर्शयति
ता एयं कायच्वं बुहेहि णिचंपि संकिलेसम्मि।
होइ तिकालं सम्मं असंकिलेसंमि सुकयफलं ॥ ६१॥ 'ता'इति तस्मात्कारणात् 'एयंति एतदनन्तरोक्तं चतुःशरणादि कर्तव्यमिति-विधेयं विबुधैः-अवगततत्त्वैर्नित्यमपिसततमपि, कस्मिन् ?-संक्लेशे-रोगाद्यापद्रूपे, एतेन यथा कर्षकैः शाल्यादिबीजं शस्यनिष्पत्तये उत्तमपि पलालाद्यानुषङ्गिकं जनयति एवं चतुःशरणाद्यपि सततं कर्मनिर्जरायै क्रियमाणमिहलोकेऽपि रोगाद्युपसर्गोपशान्ति तनोतीति दर्शितं, तथा असंक्लेशो-रोगाद्यभावस्तस्मिन् चतुःशरणादि भवति त्रिकालं-सन्ध्यात्रयरूपे काले विधीयमान
Jain Education
Ellional
For Private & Personal Use Only
Alww.jainelibrary.org

Page Navigation
1 ... 153 154 155 156 157 158 159 160