Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 153
________________ Jain Education यद्भाषते तद्भाथाद्वयेनाह - अर्हत्त्वं तीर्थंकरत्वं प्रतिदिनं द्विर्धर्मदेशनाकरणभव्यनिकर प्रतिबोधन तीर्थप्रवर्त्तनादिकं अर्हत्सु तदनुमन्येऽहमिति सम्बन्धः, यच्च सिद्धत्वं-सदा केवलज्ञानोपयुक्तत्व सर्व कर्मविमुक्तत्वनिरुपमसुखभोक्तृत्वादिरूपं सिद्धेषु अनुमन्ये, तथाऽऽचारं - ज्ञानाचारादिरूपं पञ्चविधमाचार्येषु अनुमन्ये, तथा उपाध्यायत्वं - सिद्धान्ताध्या|पकत्वरूपमुपाध्यायेऽनुमन्ये इति ॥ ५६ ॥ तथा साधूनां - सामायिकादिचारित्रवतां पुलाकबकुशादिभेदभिन्नानां जिनकल्पिकप्रतिमाधर यथालन्दिकपरिहारविशुद्धिककल्पातीतप्रत्येकबुद्ध बोधितादिभेदैरनेक विधानां सर्व कालक्षेत्र विशेषितानां साधुचरितं - चरणादिक्रियाकलापं ज्ञानदर्शनचारित्रधारित्वसमभावत्वासहायसहायत्वादिरूपं वाऽनुमन्ये, 'साहुकिरिय' - मिति पाठान्तरे तु साधुक्रियां - सर्वसाधुसामाचारीरूपां इत्यर्थः तथा देशविरतिं सम्यक्त्वाणुत्रतगुणत्र तशिक्षात्रतैकादशप्रतिमादिरूपां केषां ? - 'श्रांपा के 'श्रान्ति - पचन्ति तत्त्वार्थश्रद्धानं निष्ठां नयन्तीति श्राः 'दुवपी बीजसंताने' वपन्तिजिनभवनादिसप्तक्षेत्रेषु निजधनबीजानि इति वाः 'कृत् विक्षेपे' किरन्ति - विक्षिपन्ति क्लिष्टकर्मरज इति काः, श्राश्च वाश्च काश्च श्रावकास्ते च ते जनाश्च श्रावकजनास्तेषां श्रावकत्वमनुमन्ये, तथा सर्वेषां सम्यक्त्वं सम्यक्त्वं - जिनो तत्त्वश्रद्धानरूपं 'तमेव सच्चं निस्संकं जं जिणेहिं पवेइअ'मिति निश्चयलक्षणं अनुमन्ये, केषां ? - सम्यग् - अविप यस्ता दृष्टिः- दर्शनं येषां ते सम्यग्दृष्टयः तेषां सम्यग्दृष्टीनां, अविरतानामपि सुरैरप्यचाल्यसम्यक्त्वानां श्रेणिकादीनामिवेत्यर्थः ॥ ५७ ॥ अथ सर्वानुमोदनार्हसंग्रहमाह - ' अथवे 'ति सामान्यरूपप्रकारदर्शने 'चित्र' एवकारार्थे, ततः सर्वमेव वीतरागवचनानुसारि - जिनमतानुयायि यत् सुकृतं - जिनभवनबिंबकरण तत्प्रतिष्ठासिद्धान्त पुस्तक लेखन तीर्थ For Private & Personal Use Only w.jainelibrary.org

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160