Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 154
________________ CROR चतुःशरणे सुकृतानुमोदना गा. ५५. ५८ यात्राश्रीसंघवात्सल्यजिनशासनप्रभावनाज्ञानाद्युपष्टंभधर्मसान्निध्यक्षमामार्दवसंवेगादिरूपं मिथ्याक्संवन्ध्यपि मार्गानुयायि | कृत्यं कालत्रयेऽपि त्रिविधं मनोवाकायैः कृतं कारितमनुमतं च यदभूत् भवति भविष्यति चेति 'तकत्' इति तत्शब्दात् 'त्यादिसर्वादेः स्वरेष्वंत्या' (श्री सि. अ. ७ पा. ३ सू. २९) दिति सूत्रेण स्वार्थेऽक्प्रत्यये रूपं, तदित्यर्थः, तत् सर्व-निरवशेषमनुमोदयामः-अनुमन्यामहे, हर्षगोचरतां प्रापयाम इत्यर्थः, बहुवचनं चात्र पूर्वोक्तचतुःशरणादिप्रतिपत्त्या उपार्जितपुण्यसंभारत्वेन स्वात्मनि बहुमानसूचनार्थ ॥५८॥ तदेवमुक्तः सुकृतानुमोदनारूपस्तृतीयोऽधिकारः, अथ चतुःशरणादिकृत्ये यत्फलं स्यात्तद्गाथाद्वयेनाह सुहपरिणामो निचं चउसरणगमाइ आयरं जीवो। कुसलपयडीउ बन्धइ बद्धाउ सुहाणुबन्धाओ॥५९॥ मन्दणुभावा बद्धा तिवणुभावाउ कुणइ ता चेव । असुहाउ निरणुबंधाउ कुणइ तिवाउ मन्दाओ॥६०॥ शुभपरिणामः-प्रशस्तमनोऽध्यवसायः सन् नित्यं-सदैव चतुःशरणगमनादि-चतुःशरणगमनदुष्कृतगर्हासुकृतानुमोदनान्याचरन् कुर्वन् साधुप्रभृतिको जीवः कुशलं-पुण्यं तत्प्रकृतीः 'साउचगोअमणुदुर्ग'त्यादिगाथोक्ताः द्विचत्वारिंशत्संख्याः बनाति, शुभाध्यवसायबध्यमानत्वात्तासां, तथा ताश्च प्रकृतीबद्धाः सतीः शुभाध्यवसायवशाच्छुभोडनुबन्धः-उत्तरकालफलविपाकरूपो यासां ताः शुभानुबन्धाः एवंविधाः करोतीत्यर्थः, तथा ता एवं शुभप्रकृती +50 JainEducatioti o nal For Private Personel Use Only rww.jainelibrary.org

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160