Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
चतुःशरणे
तथा, समभावव्यवस्थिता इत्यर्थः, तथा गतः प्रमादो येभ्यस्ते तथाऽप्रमत्ता इत्यर्थः, 'विहुअसोआ'इति तु पाठे विधू- साधुशरणं तानि श्रोतांसि-आश्रवद्वारलक्षणानि यैः यद्वा विधुतः-क्षिप्तः शोकः-चित्तखेदो यैस्ते तथा, विधूतासंयमस्थाना गतशोका | गा.३०वेत्यर्थः, ते साधवः शरणं भवन्तु ॥ ३७॥ हिंसा आदिर्येषां ते हिंसादयः ते च ते दोषाश्च, आदिशब्दादलीकभाषणपरस्वापहारस्त्रीसेवापरिग्रहादीनां ग्रहः, हिंसादिदोषैः शून्याः-तैविरहिता इत्यर्थः, तथा कृतं-विरचितं कारुण्य-जीवलोकोपरि दुःखप्रहाणेच्छा यैस्ते तथा सर्वजीवेषु कृपाईचेतस इत्यर्थः, तथा जीवाजीवादिपदार्थानां जिनोक्तानां यथास्थितत्वेन, रोचनं-मननं श्रद्धानं रुक् सम्यक्त्वमित्यर्थः प्रज्ञानं प्रज्ञा-बुद्धिः सम्यग्ज्ञानमित्यर्थः, स्वयं भवति इति स्वयम्भूः स्वयम्भुवौ रुक्प्रज्ञे-सम्यक्त्वज्ञाने येषां ते स्वयम्भूरुक्प्रज्ञा यद्वा स्वयंभुवा-स्वयम्भूतेन सम्यक्त्वेन क्षायिकादिना पूर्णाः, दूरीकृतमिथ्यात्वा इत्यर्थः, 'पुन्न'इति पाठे इयं व्याख्या, यद्वा स्वयंभूशब्देन स्वयम्भूरमणः समुद्र उच्यते 'भीमो भीमसेन' इति वत् , ततस्तत्तुल्ये विस्तीर्णे ऋक्प्रज्ञे तेषां ते तथा, अथवा 'स्वयम्भरुप्पन्ना' इति पाठे स्वयंभराः-आत्मनिर्वाहकाः कस्याप्यनाश्रितत्वेनोत्पन्ना-व्यवस्थिताः स्वयंभरोत्पन्नाः, तथा न विद्यते जरामरौ यत्र तदजरामरं-निर्वाणं &|तस्य पथो-मार्गस्तदुपदर्शकत्वात्प्रवचनशास्त्राणीत्यर्थः तेषु क्षुण्णाः-निपुणाः, सम्यक्तत्त्वस्य वेदिन इत्यर्थः, क्षुण्णः-पुनः|
पुनः परिशीलनेनासेवितोऽजरामरपथो-मोक्षमार्गो ज्ञानदर्शनचारित्रलक्षणो यैस्ते तथा, प्राकृतत्वात् क्षुण्णशब्दस्य परनि४ पातः, 'अजरामरबहुखुन्ना'इति पाठेतु अजरामरे-निर्वाणे वर्णयितव्ये बहु प्रभूतं यथा भवत्येवं क्षुण्णाः-सम्यग्मोक्षस्वरूप
प्रकाशका इत्यर्थः, ते साधवः शरणं भवन्तु, पुनः किंभूतः-सुष्टु-अतिशयेन कृतं पुण्य-चारित्रप्राप्तिलक्षणं एष्यद्भवयोग्य
९
॥
Jain Education HER
For Private Personal Use Only

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160