Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
येषां ते तथा, मङ्गलरूपाः सिद्धाः-सम्पन्नाः पदार्था येषां ते तथा, यद्वा सांसारिकदुःखरहितं मङ्गलभूतं यत् सिद्धिपदं तत्र तिष्ठन्ति इति ते तथा, ते सिद्धाः शरणं भवन्तु, पुनः कथंभूताः ?-सुखेन जन्मजरामरणक्षुत्तृषाद्याबाधारहितेन मुक्तिप्रभवेन प्रशस्ताः अव्याकुला अनन्तसुखा इत्यर्थः ॥ २५ ॥ 'मूलुक्खय'त्ति, मूलादुत्खाताः| उन्मूलिताः प्रतिपक्षाः-कर्मरूपा यैस्ते तथा, समूलनिर्मूलितकर्माण इत्यर्थः, 'मूलक्खए'त्ति पाठेऽयमों-मूलस्यसंसारहेतुकर्मबन्धमूलस्य मिथ्यात्वाविरतिकषाययोगरूपस्य शत्रुसङ्घातस्य क्षये कर्तव्ये प्रतिपक्षा इव-वैरिण इव तजयं | कृतवन्त इत्यर्थः, तथा लक्ष्ये-द्रष्टव्यपदार्थे न मूढा अमूढलक्षाः सदोपयुक्तत्वात्तेषां, तथा सयोगिनां-सयोगिकेवलिनामेव प्रत्यक्षा-दृश्याः, शेषज्ञानिनां अविषयत्वात् सिद्धानां, तथा स्वाभाविकं-अकृत्रिममात्तं-गृहीतमा-प्राप्तं वा| | सुखं यैस्ते तथा, पुनः किंविशिष्टाः ?-परमः-प्रकृष्टोऽत्यन्तं विगमात्कर्मभिः सह मोक्षो-वियोगः पृथग्भावो येषां ते तथा, ते सिद्धाः शरणं भवन्तु ॥ २६ ॥ 'पडिपिल्लित्ति , प्रतिप्रेरिताः-क्षिप्ता अनादृता इत्यर्थः प्रत्यनीकाःशत्रवो यैः समशत्रुमित्रत्वात् , यद्वा प्रतिप्रेरिता-निराकृताः प्रत्यनीका-रागाद्यान्तरशत्रवो यैस्ते तथा, समग्रं-सम्पूर्ण यद्ध्यानं परमलयः शुक्लध्यानमित्यर्थः तदेवाग्निः-वह्निस्तेन दग्धं-भस्मसात्कृतं भवस्य-संसारस्य बीजं-ज्ञानावरणीयादि कर्म यैस्ते तथा, योगीश्वरा-गणधराश्छद्मस्थतीर्थकरा वा तै शरणीयाः-आश्रयणीया नमस्करणध्यानादिना, तथा स्मर-18 णीया-ध्येया मोक्षसुखाभिलाषुकाणां भव्यानामिति शेषः, एवंविधाः सिद्धाः शरणं भवन्तु ॥ २७ ॥ 'पावित्ति, प्रापितः-आत्मजीवं प्रति ढौकितःप्राकृतत्वाद्वा प्राप्तः परमानन्दो यैः सदामुदितत्वात्ते तथा, तथा गुणानां-ज्ञानदर्शना
AGRACTICAAAAAAG
Jain Education
For Private & Personel Use Only
w.jainelibrary.org

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160