Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 51
________________ Jain Education वदनस्यावयवी येषां ते तथा, अचिरोद्गतः समग्रः- सम्पूर्णः सुस्निग्धः चन्द्रः - शशी तस्यार्द्धवत् संस्थितं - संस्थानं यस्य ललाटस्य तत्तथा तदेवंविधं 'निडाल' त्ति ललाटं - भालं येषां ते अचिरोद्गतसमग्रसुस्निग्धचन्द्रार्धसंस्थितललाटाः, उड्डुपतिरिव - चन्द्र इव प्रतिपूर्ण सौम्यं वदनं येषां ते उडुपतिप्रतिपूर्णसौम्यवदनाः, छत्राकारोत्तमाङ्गदेशा इति कण्ठ्यं, घनो-लोहमुद्गरस्तद्वन्निचितं निबिडं यद्वा घनं अतिशयेन निचितं सुबद्धं स्नायुभिः लक्षणोन्नतं महालक्षणं कूटागारनिभं - सशिखरभवनतुल्यं निरुपमपिण्डिकेव वर्तुलत्वेन पिण्डिकायमानं अग्रशिरः- शिरोऽयं येषां ते घननिचितसुबद्धलक्षणोन्नतकूटागारनिभनिरुपमपिण्डिका ग्रशिरसः, हुतवहेन अग्निना निर्ध्यातं धौतं तप्तं च यत्तपनीयं - रक्तवर्णसुवर्ण तद्वत् ' के संत 'त्ति मध्यकेशाः केशभूमिः - मस्तकत्वग् येषां ते हुतवहनिर्मातधौततप्ततपनीय केशान्त केशभूमयः, शाल्मली - वृक्षविशेषः स च प्रतीत एव तस्य बोर्ड-फलं तद्वत् छोटिता अपि घना निचिता - अतिशयेन निश्चिताः शाल्म लीबोण्डघननिचितच्छोटिताः, ते हि युगलधार्मिकाः केशपाशं न कुर्वन्ति परिज्ञानाभावात् केवलं छोटिता अपि तथा स्वभावतया शाल्मलीबोण्डाकारवत् घननिचिता अवतिष्ठन्ते तत एतद्विशेषणोपादानं, तथा मृदवः - अकर्कशाः विशदानिर्मलाः सूक्ष्माः श्लक्ष्णाः लक्षणा-लक्षणवन्तः प्रशस्ताः - प्रशंसाऽऽस्पदीभूताः सुगन्धयः- परमगन्धकलिताः अत एव सुन्दराः तथा भुजमोचको रत्नविशेषः भृङ्गः- चतुरिन्द्रियपक्षिविशेषः नीलो मरकतमणिः कज्जलं प्रतीतं प्रहृष्टः- प्रमुदितो | यो भ्रमरगणः प्रहृष्ट भ्रमरगणः प्रहृष्टो हि भ्रमरगण तारुण्यावस्थायां भवति तदानीं चातिकृष्ण इति प्रहृष्टग्रहणं तद्वत् स्निग्धाः - कालकान्तयः भुजमोचक भृङ्गनीलकज्जलप्रहृष्टभ्रमरगणस्निग्धाः तथा निकुरम्बा:- निकुरम्बीभूताः सन्तः निचिताः For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160