Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 50
________________ तं. वै. प्र. ॥२३॥ शान्ताः, एको दन्तो यस्या श्रेण्या सा एकदन्ता सा श्रेणिः येषां ते तथा ता इव दन्तानामतिघनत्वादेकदन्तश्रेणिस्तेषामितियुगलिक भावः, अनेकदन्ताः द्वात्रिंशद्दन्ता इति भावः, यद्वा एका-एकाकारा दन्तश्रेणियेषां ते एकदन्तश्रेणयः ते इव परस्परं अनुप- स्वरूपं सू. लक्ष्यमाणदन्तविभागत्वात् अनेके दन्ताः येषां ते अनेकदन्ता,एवं नामाविरलदन्ता यथा अनेकदन्ता अपि सन्तः एकाकारदन्तपक्लय इव लक्ष्यते इति भावः, हुतवहेन-अग्निना निर्मातं-निर्दग्धं धौत-प्रक्षालितमलं तप्तं च-उष्णं यत् तपनीयं-सुव-31 विशेषः तद्वत् रक्ततलं-लोहितरूपं तालु च-काकुदं जिह्वा च-रसना येषां ते तथा, 'सर'त्ति अत्र योज्यं सारसवत्-पक्षिविशेषवत् मधुरः स्वरः-शब्दो येषां ते तथा, नवमेघवत् गम्भीरः स्वरो येषां ते तथा, क्रौंचस्य-पक्षिविशेषस्येव निर्घोषो । येषां ते तथा, दुन्दुभिवत्-भेरीवत् स्वरो येषां ते तथा, तत्र स्वर:-शब्दः षड्जः १ ऋषभः२ गान्धार ३ मध्यम४ पञ्चम ५ धैवत ६ निषाद ७ रूपो वा एषां विस्तरस्वरूपं स्थानाङ्गानुयोगद्वारतोऽवगन्तव्यमिति, घण्टानुप्रवृत्तरणितमिव | यः शब्दः स घोष उच्यते, नितरां घोषः निर्घोष इति, गरुडस्येव-सुपर्णस्येव आयता-दीर्घा ऋज्वी-सरला तुङ्गा-उन्नता नासा-घोणा येषां ते तथा, अवदालितं-रविकिरणैः विकाशितं यत् पुण्डरीक-सितपद्मं तद्वद् वदनं-मुखं येषां ते तथा। 'कोकासिय'त्ति विकसिते प्रायः प्रमुदितत्वात्तेषां धवले-सिते पुण्डरीके 'पत्रले' पक्ष्मवती अक्षिणी-लोचने येषां ते| तथा, आनामितं-ईषन्नामितं यच्चापं-धनुः तद्वद् रुचिरे-शोभने कृष्णचिकुरराजिसुसंस्थिते कुत्रापि कृष्णा धूराजिः सुसंस्थिते संगते आयते-दीचे सुजाते-सुनिष्पन्ने भ्रुवो येषां ते तथा, आलीनौ नतुटप्परौ प्रमाणयुक्तौ-उपपन्नप्रमाणौ श्रवणौ-18 कौँ येषां ते तथा अत एव सुश्रवणाः सुष्टु श्रवणं-शब्दोपलंभो येषां ते तथा, पीनौ-मांसली कपोललक्षणो देशभागी पार, नितरां घोषः निकिरणः विकाशितं याडरीके 'पत्रले जिसुसंस्थिते कुत्रापि For Private Personal use only How.jainelibrary.org

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160