Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 125
________________ माह, पुनः कथम्भूतो धर्मः?-सुखमावहति-परम्परया चटत्प्रकर्ष प्रापयतीति सुखावहः, अनेन इहलोकेऽपि मिथ्यादृष्टि-12 धर्मस्य भैरवपतनशिरःक्रकचदापनादिदुःखाकीर्णत्वात् परलोके भवभ्रमणकारणत्वात्तन्निषेधमाह, एतेऽर्हत्सिद्धसाधुधर्मा|श्चत्वारश्चतसृणां गतीनां समाहारश्चतुर्गति-नरकतिर्यग्नरामरलक्षणं हरन्ति सिद्धिलक्षणपञ्चमगतिप्रापणेनेति चतुर्गतिहरणाः, यस्मादिति गम्यं, अत एव भवाटव्यामटन् शरणरहितः कश्चिद्धन्यः-सुकृतकर्मा एव शरणं लभते, शरणत्वेन प्रतिपद्यते इत्यर्थः॥ ११॥ अथ यथा विधिना एतान् शरणं प्रपद्यते तथाऽऽह अह सो जिणभत्तिभरुत्थरंतरोमंचकंचुअकरालो। पहरिसपणउम्मीसं सीसंमि कयंजली भणइ ॥१२॥ 'अह सो'त्ति, अथ सः-शरणप्रतिपत्ता चतुर्विधसङ्घस्यान्यतमो जीवः, कथंभूतो ?-जिनेषु भक्तिस्तस्या भरः-प्राबल्यं तस्माज्जिनभक्तिभरात् 'उत्थरंत'त्ति अवस्तृणन्-उदयं गच्छन् योऽसौ रोमाञ्चः स एव शरीरावारकत्वात्कनुको रोमाञ्चकंचुकस्तेन करालः-अन्तरङ्गशत्रूणां भीषणः, तथा प्रकृष्टो हर्षः प्रहर्षः तस्माद्यत्प्रणतं-प्रणामस्तेन उन्मित्रं-व्याकुलं यथा भवति एवं, यद्वा प्रहर्षवशाद्योऽसौ प्रणयः-आनन्दाश्रुगद्गदस्वरस्तेनोन्मिनं, क्रियाविशेषणमेतत् , ता शिरसि-मस्तके कृताञ्जलिः-कृतकरकुमलः सन् भणति ॥ १२॥ अर्हच्छरणमङ्गीकुर्वन् यदसौ भणति तद्गाथादशकेनाह रागद्दोसारीणं हंता कम्मट्ठगाइ अरिहंता। विसयकसायारीणं अरिहंता हुंतु मे सरणं ॥ १३ ॥ तं.वै.प्र.११८ Jain Educationa l For Private & Personal Use Only Tww.jainelibrary.org

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160