Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 128
________________ चतुःशरणे ॥ ६२ ॥ Jain Education मे शरणं भवत्विति सर्वत्र योज्यं, अथवा प्रथमांतान्येव पदानि योज्यानि, राज्यश्रियमपकर्षयन्तः - त्यजन्तस्तथा तपश्चरणं दुश्चरमनुचरन्तः केवलश्रियं चार्हन्तः प्राप्नुवन्तो ये ते शरणं, एतेन पूर्वोक्तेन राज्यश्रीत्यागतपश्चरणकरण केवलश्रीप्रापणरूपावस्थात्रय शरणगमनप्रतिपादनेन यद्यपि शक्रादीनां सर्वास्वप्यवस्थासु जिना नमस्कारार्हास्तथापि ते गृहवासस्थाः साधूनां न नमस्काराहीः अविरतत्वादिति दर्शितं यच्चानागतजिनाः साधुभिर्नमस्त्रियन्ते तेऽपि भाविभावचारित्रावस्था एवेति भावः ॥ १४ ॥ ' धुइवंद ० 'त्ति, स्तवः 'थुइ' पाठे स्तुतिर्वा - सद्भूतगुणोत्कीर्त्तनं वन्दनं - कायिकः प्रणामः तौ अर्हन्तः - तयोर्योग्या जगतोऽपीति शेषः, अमरेन्द्रनरेन्द्राणां पूजां समवसरणादिकां समृद्धिं अर्हन्तः तस्या अपि योग्या भवन्तः, तथा शश्वत् भवं शाश्वतं तच्च तत्सुखं च शाश्वतसुखं- निर्वाणादनन्तरं तदप्यर्हन्ति तस्या अपि योग्या भवन्तीत्यर्हन्तः, शेषं पूर्ववत् ॥ १५ ॥ 'परमण० ' त्ति, परेषां - आत्मव्यतिरिक्तानां मनांसि परमनांसि तेषु गतं स्थितं चिन्तितं इत्यर्थः तत् मुणन्तो- जानन्तः 'मुणत् प्रतिज्ञाने' इति धातुः 'ज्ञो जाणमुणा (श्री० सि०अ०८पा०३सू.७') ' वित्यादेशो वा, एतेन अनुत्तरसुराणां मनःसंशयपरिज्ञानतदुच्छेदसमर्था जिना इत्युक्तं, तथा योगिनो- मुनयस्तेषामिन्द्राः - गौतमादयः महान्तश्च ते इन्द्राश्च महेन्द्राः शक्रादयस्तेषां ध्यानं स्थिराध्यवसायरूपं तदर्हन्तीति योगीन्द्रमहेन्द्रध्यानार्हाः, तथा धर्मकथांदानशीलतपोभावनादिकां कथयितुमर्हन्तः तस्याः कथनयोग्याः सर्वज्ञत्वेन सर्वभाषानुयायियोजनगामिवागतिशयत्वेन, छद्मस्थावस्थायां तु मौनावलम्बित्वेन धर्मकथानर्हत्वाज्जिनानां, शेषं प्राग्वत् ॥ १६ ॥ 'सङ्घ० ' त्ति सर्वे सूक्ष्मवादरत्रसस्थावरा ये जीवास्तेषां न हिंसा अहिंसा-रक्षा तामर्हन्तः तथा सतां हितं सत्यं तथ्यं तच्च तद्वदनं च तदेवार्हन्तोऽसत्य For Private & Personal Use Only अर्हच्छरणं गा. १२ २२ ॥ ६२ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160