________________
चतुःशरणे
॥ ६२ ॥
Jain Education
मे शरणं भवत्विति सर्वत्र योज्यं, अथवा प्रथमांतान्येव पदानि योज्यानि, राज्यश्रियमपकर्षयन्तः - त्यजन्तस्तथा तपश्चरणं दुश्चरमनुचरन्तः केवलश्रियं चार्हन्तः प्राप्नुवन्तो ये ते शरणं, एतेन पूर्वोक्तेन राज्यश्रीत्यागतपश्चरणकरण केवलश्रीप्रापणरूपावस्थात्रय शरणगमनप्रतिपादनेन यद्यपि शक्रादीनां सर्वास्वप्यवस्थासु जिना नमस्कारार्हास्तथापि ते गृहवासस्थाः साधूनां न नमस्काराहीः अविरतत्वादिति दर्शितं यच्चानागतजिनाः साधुभिर्नमस्त्रियन्ते तेऽपि भाविभावचारित्रावस्था एवेति भावः ॥ १४ ॥ ' धुइवंद ० 'त्ति, स्तवः 'थुइ' पाठे स्तुतिर्वा - सद्भूतगुणोत्कीर्त्तनं वन्दनं - कायिकः प्रणामः तौ अर्हन्तः - तयोर्योग्या जगतोऽपीति शेषः, अमरेन्द्रनरेन्द्राणां पूजां समवसरणादिकां समृद्धिं अर्हन्तः तस्या अपि योग्या भवन्तः, तथा शश्वत् भवं शाश्वतं तच्च तत्सुखं च शाश्वतसुखं- निर्वाणादनन्तरं तदप्यर्हन्ति तस्या अपि योग्या भवन्तीत्यर्हन्तः, शेषं पूर्ववत् ॥ १५ ॥ 'परमण० ' त्ति, परेषां - आत्मव्यतिरिक्तानां मनांसि परमनांसि तेषु गतं स्थितं चिन्तितं इत्यर्थः तत् मुणन्तो- जानन्तः 'मुणत् प्रतिज्ञाने' इति धातुः 'ज्ञो जाणमुणा (श्री० सि०अ०८पा०३सू.७') ' वित्यादेशो वा, एतेन अनुत्तरसुराणां मनःसंशयपरिज्ञानतदुच्छेदसमर्था जिना इत्युक्तं, तथा योगिनो- मुनयस्तेषामिन्द्राः - गौतमादयः महान्तश्च ते इन्द्राश्च महेन्द्राः शक्रादयस्तेषां ध्यानं स्थिराध्यवसायरूपं तदर्हन्तीति योगीन्द्रमहेन्द्रध्यानार्हाः, तथा धर्मकथांदानशीलतपोभावनादिकां कथयितुमर्हन्तः तस्याः कथनयोग्याः सर्वज्ञत्वेन सर्वभाषानुयायियोजनगामिवागतिशयत्वेन, छद्मस्थावस्थायां तु मौनावलम्बित्वेन धर्मकथानर्हत्वाज्जिनानां, शेषं प्राग्वत् ॥ १६ ॥ 'सङ्घ० ' त्ति सर्वे सूक्ष्मवादरत्रसस्थावरा ये जीवास्तेषां न हिंसा अहिंसा-रक्षा तामर्हन्तः तथा सतां हितं सत्यं तथ्यं तच्च तद्वदनं च तदेवार्हन्तोऽसत्य
For Private & Personal Use Only
अर्हच्छरणं
गा. १२
२२
॥ ६२ ॥
www.jainelibrary.org