________________
RECRUGADKARANSAR
भाषणहेतुरागद्वेषमोहरहितत्वात्तेषां, तथा ब्रह्मव्रतं अष्टादशभेदं 'दिव्यौदारिककामानां' (कृतानुमतिकारितैः । मनोवा. कायतस्त्यागो, ब्रह्माष्टदशधा मतम् ॥१॥) इति श्लोकोक्तमासेवितुं प्ररूपयितुमनुमोदयितुं चाहन्तः, शेषं तथैव ॥ १७॥ तथा 'ओस'त्ति अवस्रियते-गम्यते संसारभयोद्विग्नः जीवैरित्यवसरणं समवसरणमित्यर्थः तदवसृत्य-अलंकृत्य, तथा चतुस्त्रिंशतो-जन्मजकर्मक्षयजसुरकृतान् यथाक्रमं चतुरेकादशैकोनविंशतिसङ्ख्याप्रसिद्धानतिशयान्निषेव्य, उपलक्षणत्वात्पञ्चत्रिंशद्वचनातिशयांश्च, तथा धर्मकथां कथयित्वा ये मुक्तिं यान्ति यास्यन्ति याता इत्यध्याहार्य 'कहंता' इति पाठे धर्मकथां कथयन्तो ये वर्तन्ते ते शरणं, पूर्व धर्मकथाकथनयोग्या इत्युक्तं अत्र तु धर्मकथां कथयन्त एवेति न पौनरुक्त्यं, अत्र चाध्ययनेऽन्यत्रापि यत्र कुत्रचित् पौनरुक्त्यसम्भवः तत्र स्तुत्युपदेशरूपत्वेन न दोष इति ज्ञेयं, यदुक्तं-'सज्झायज्झाणतवोसहेसु उवएसथुइपयाणेसु । संतगुणकित्तणेसु अ न हुँति पुणरुत्तदोसा उ ॥१॥ स्वाध्यायध्यानतपऔषधेषु उपदेशस्तुतिप्रदानेषु । सतां गुणकीर्तनेषु च न भवन्ति पुनरुक्तदोषास्तु ॥१॥] शेषं तथैव ॥ १८॥ 'एगाइ गिर' त्ति एकयाऽपि गिरा-एकेनापि वचनेन अनेकप्रकारान् संदेहान्-संशयान्, केषां ?-देहिनां सुरासुरनरतिर्यग्रूपाणां सम-समकालमेव छित्त्वा संशयत्रुटिं कृत्वेत्यर्थः 'समुच्छित्तेति पाठे समुच्छिद्येति ज्ञेयं, त्रिभुवनमनुशास्य-शिक्षयित्वा अनुशासयन्तो वा सम्यक्त्वदेशविरतिसर्वविरतिलक्षणशिक्षाप्रदानेन, मोक्षं यान्तीति योगः, शेषं तथैव ॥ १९॥ 'वयणा' इति वचनमेवामृतं वचनामृतं क्षुत्पिपासादिदोषापहारकत्वात् तेन वचनामृतेन भुवनं-लोकं निर्वाप्य-तस्य तृप्तिमुत्पाद्य निर्वापयन्तो वा प्रीणयन्तः आप्याययन्त इत्यर्थः, तथा गुणेषु-उत्तरोत्तरगुणस्थानकेषु सम्यक्त्वदेशविरतिप्रमत्ताप्रमत्ता
मदतान यथावादः जीवसवितुं रूप
यित्वा ये मुक्किादर्शकोनविशारणं समवसरणामोदयितुंचा
Jain Education
IRonal
For Private & Personel Use Only
A
w w.jainelibrary.org
NP