________________
चतु:शरणे
अर्हच्छरणं गा. १२..
दिकेषु प्रागुक्तं भुवनमेव स्थापयित्वा स्थापयन्तो वा सदुपदेशवशात्तानि प्रापयन्त इत्यर्थः, तथा जीवलोकं भव्यजीवलोकं, अभव्यास्तु तीर्थकरोपदेशेनापि नावबुध्यन्ते, तमुद्धृत्य उध्धरन्तो वा भवान्धकूपात् स्ववचनरज्जुनाऽऽकर्षयन्त इत्यर्थः, शेष पूर्ववत् ॥ २० ॥ 'अच्चन्भुत्ति अत्यद्भुता-अन्येष्वसंभविनो ये गुणाः-प्रातीहार्यादिलक्षणाः अन्ये वा रूपादयस्ते विद्यन्ते येषां ते अत्यद्भुतगुणवन्तस्तान् , तथा निजयश एव शशधरः-चन्द्रस्तेन प्रसाधिता-विभूषिता दिगन्ता-दिक्पर्यन्ता |यैः ‘पयासिअ'त्ति पाठे प्रकाशिता वा यैस्तान् नियतं शाश्वतं यथा भवत्येवं सदैवेत्यर्थः, न आदि न चान्तो येषां ते अनाद्यनन्तास्तान् शरणं प्रपन्नः तानाश्रित इत्यर्थः, एतेन कालत्रयभाविनोऽनंता अपि जिना गृहीताः ॥२१॥ अथ कृतार्हच्छरणो विशेषेण तेषां नमस्कारमाह-उज्झि'त्ति, उज्झितानि-त्यक्तानि जरामरणानि यैस्तत्कारणकर्मरहितत्वात्ते उज्झितजरामरणास्तेभ्यः, समस्तानि-सम्पूर्णानि यानि दुःखानि तैरार्ता ऋता वा-पीडिता ये सत्त्वाः-प्राणिनस्तेषां शरण्याः-शरणे साधवस्तेभ्यः, यद्वा समाप्त-निष्ठां गतं दुःखं येषां ते समाप्तदुःखाः, तथा आर्ता-जन्मजरामरणादिदुःखैः पीडिता ये सत्त्वास्तेषां शरण्याः, समाप्तदुःखाश्च ते आर्तसत्त्वशरण्याश्चेति विशेषणकर्मधारयः तेभ्यः, तथा त्रिभुवनजनानां सुखं ददति निजावतारेणेति त्रिभुवनजनसुखदास्तेभ्यः, सर्वत्र चतुर्थ्यर्थे षष्ठी 'छट्ठीविभत्तीइ भण्णइ चउत्थी' इति प्राकृतसूत्रबलात् , तेभ्यः-पूर्वोक्तगुणेभ्योऽहयो नमो-नमस्कारोऽस्तु ॥ २२ ॥ अथ द्वितीयं शरणं यथा प्रतिपद्यते तथाऽऽह
अरिहंतसरणमलसुद्धिलडसुविसुद्धसिद्धबहुमाणो । पणयसिररइअकरकमलसेहरो सहरिसं भणइ ॥ २३ ॥
Jain Education
For Private & Personel Use Only
www.jainelibrary.org