Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
S
HAIRCRA
तुः पुनरर्थे चारित्राचारदर्शनाचारयोःप्राक्शोधितयोरपि पुनर्विशेषेण शोधिः क्रियते इत्यर्थः॥४॥ उक्ता वन्दनकेन ज्ञानाद्याचारत्रयशुद्धिः, सम्प्रति प्रतिक्रमणकायोत्सर्गाभ्यां गाथाद्वयेन तामाह
खलियस्स य तेसिं पुणो विहिणा जं निंदणाइ पडिकमणं । तेणं पडिकमणेणं तेसिंपि य कीरए सोही॥५॥ चरणाइयाइयाणं जहक्कम वणतिगिच्छरूवेणं ।
पडिकमणासुद्धाणं सोही तह काउसग्गेणं ॥६॥ स्खलितस्य-व्रतविषयस्यातिक्रमव्यतिक्रमादिप्रकारसंजातापराधस्य तथा 'तेसिन्ति तेषां-ज्ञानाचारादीनां पुनः प्रतिषिद्धकरणकृत्याकरणाश्रद्धानविपरीतप्ररूपणादिप्रकारसंजातातिचारस्य च विधिना-सूत्रोक्तप्रकारेण 'जं निंदणाई'इति यन्निन्दनं निन्दना-दुष्टं मयैतत् कृतमिति, आदिशब्दागर्हादिग्रहः, गुरुसाक्षिकमात्मदोषाविष्करणं गर्हा, एवंप्रकार| स्खलितस्य यन्निन्दनादिकरणं-तस्माद्दोषजातान्निवर्त्तनं तत्प्रतिक्रमणमुच्यते इति शेषः, प्रतीपं क्रमणं प्रतिक्रमणं इति व्युत्पत्तिः, अतः कारणात्तेन प्रतिक्रमणेन 'तेसिं पियत्ति न केवलं सामान्यतो व्रतादिविषयापराधानां, किन्तु तेषामपि ज्ञानाचारादीनां क्रियते विशोधिः-निर्मलतेति, 'चरणाइय'त्ति चरणं-चारित्रं अतिगच्छन्ति-अतिक्रामन्तीति चरणातिगाः, अतिचारा इति दृश्यं, ते आदौ येषां ते चरणातिगादिकाः-सर्वेऽप्यतिचारास्तेषां चरणातिगादिकानां, कथंभूतानां ?-प्रतिक्रमणेन-प्रागुक्तेनाशुद्धानामर्द्धशुद्धानां वा शुद्धिस्तथैव-प्रागुक्तप्रकारेण क्रियते, केन ?-कायोत्सर्गेण, किं
ARKARANCHAL
Jain Education
For Private & Personel Use Only
new.jainelibrary.org

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160