Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 122
________________ चतुःशरणे ॥ ५९ ॥ Jain Education भूतेन ? - ' जहकमं वणतिगिच्छत्ति यथाक्रमं क्रमप्राप्तेन 'आलोअणपडिकमणे' इतिगाथोक्तदशविधप्रायश्चित्तमध्ये पञ्चमप्रायश्चित्तेन 'वण'त्ति द्रव्यभावभेदेन द्विधा व्रणं, तत्र द्रव्यत्रणः - कण्टकभङ्गादिजनितो भावत्रणस्तु अतिचार - शल्यरूपस्तस्य भावव्रणस्य चिकित्सा - प्रतीकारः सैव रूपं यस्य कायोत्सर्गस्य स व्रणचिकित्सारूपस्तेन, कायोत्सर्गेणातिचाराः शोध्यन्ते इति भावो, महन्निर्जराकारणत्वात् तस्य, प्राकू 'नाणाइआ' इत्यत्र ज्ञाननयप्राधान्याश्रयणात् ज्ञानादय इत्युक्तं, 'चरणाइआ' इत्यत्र तु क्रियानयप्राधान्याश्रयाणाच्च विवक्षया चरणादय इति ॥ ५ ॥ ६ ॥ एवं गाथापश्चके - | ना[ति ] चारत्रयस्य शुद्धिरुक्ता, अथ तपोवीर्याचारयोस्तामाह गुणधारणरूवेणं पञ्चकखाणेण तव इयारस्स । विरियायारस्स पुणो सहिवि कीरए सोही ॥ ७ ॥ 'गुणधारणे' त्यादि, गुणा-विरत्यादय उत्तरोत्तरा यथा विरतेराश्रवद्वारस्थगनं तत्स्थगनात् तृष्णाव्यवच्छेदस्तस्मादतुलोपशमस्तस्मात्प्रत्याख्यान शुद्धिस्तच्छुद्धेश्चारित्रनैर्मल्यं तस्मात्कर्मविवेकस्तस्मादपूर्वकरणमपूर्वकरणात्केवलज्ञानं ततश्च मोक्षो भवतीति तेषां गुणानां धारणं तदेव रूपं यस्य तेन प्रत्याख्यानेन - 'अणागयमइकंतं' इत्यादिदशविधेन अथवा पञ्च महाव्रत द्वादशश्राद्धव्रतनमस्कारसहितादिदशप्रत्याख्यानरूपसप्तविंशतिविधेन वा तपआचारातिचारस्य - - ' बारसविहंमिवि तवे' इति गाथोक्तस्य शुद्धिः क्रियते इति संटकः, 'विरियायारस्स'त्ति विशेषेण ईरयति - प्रेरयति आत्मानं तासु तासु क्रियास्विति वीर्य - तपोवीर्य - गुणवीर्य - चारित्रवीर्य-समाधिवीर्य - आत्मवीर्यभेदभिन्नं पञ्चविधं तस्याचारो वीर्याचारः 'अणिगूहिअबलविरिए' इत्यादिकस्तस्य सर्वैरपि पूर्वोक्तैः षड्तिरप्यावश्यकैः शुद्धिः क्रियते, अन्यूनाधिका For Private & Personal Use Only आचारपंचकशुद्धिः ५-७ ॥ ५९ ॥ Rww.jainelibrary.org

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160