Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 120
________________ चतुःशरणे 11 46 11 Jain Education जीवानां तीर्थङ्करसम्बन्धिनां स्तवः क्रियते यत्र स चतुर्विंशत्यात्मस्तवो - लोगस्सेत्यादिरूपस्तेन क्रियते, 'चडवीसाइत्थपणे ति पाठे जिनानां चतुर्विंशत्याः स्तवेनेत्यर्थः, चकारो द्वितीयावश्यकसमुच्चयार्थः, चतुर्विंशतिस्तवेन क्रियते, किंभूतेनेत्याह'अच्चन्भुअ' इत्यादि, अत्यद्भुताः सर्वातिशायिनो लोकोद्योतकरादयो ये गुणास्तेषां यदुत्कीर्त्तनं-वर्णनं तद्रूपेण, केषां | तदित्याह - 'जिवणरिंदानं'ति जिना - रागादिजयादुपशान्तमोहादयस्तेषां मध्ये वराः - केवलिनस्तेषां इन्द्रा इव इन्द्रास्तीर्थङ्करा जिनवरेन्द्रास्तेषामित्यर्थः ॥ ३ ॥ उक्ता दर्शनाचारविशुद्धिः, इदानीं ज्ञानाचारस्य चारित्राचारदर्शनाचार योश्च विशेषेण विशुद्धिमाह - नाणाई गुणा तस्संपन्नपडिवत्तिकरणाओ । वन्दणणं विहिणा कीरइ सोही उ तेसिं तु ॥ ४ ॥ 'नाणाईआ' इति 'नाण'त्ति ज्ञानाचारः - कालविनयाद्यष्टविधः आदिशब्दादर्शनचारित्राचारग्रहो, ज्ञानदर्शनचारित्रयुक्त एव वन्दनकार्हो नान्यो ज्ञानवानपि पार्श्वस्थादिर्व्यवहारतः चारित्रवानपि निह्नवादिरिति ज्ञापनार्थः, ज्ञानमादौ येषां ते ज्ञानादिकाः, 'तुः' अवधारणे, एतेन ज्ञानादिका एव गुणा इत्यर्थः, तैर्ज्ञानादिगुणैस्सम्पन्ना - युक्तास्तत्सम्पन्ना गुरवस्तेषां प्रतिपत्तिः- भक्तिस्तस्याः करणं तस्मात् तत्सम्पन्नप्रतिपत्तिकरणाद्विनयकरणादित्यर्थः, केन ? - वन्दनकेन, कथं ? - विधिना - द्वात्रिंशद्दोषरहिततया पञ्चविंशत्यावश्यकविशुद्धतया च 'तेसिं तु'त्ति तेषां - ज्ञाना चारादीनां For Private & Personal Use Only आचारपंचकशुद्धिः २-४ 11 46 11 www.jainelibrary.org

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160