SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ चतुःशरणे 11 46 11 Jain Education जीवानां तीर्थङ्करसम्बन्धिनां स्तवः क्रियते यत्र स चतुर्विंशत्यात्मस्तवो - लोगस्सेत्यादिरूपस्तेन क्रियते, 'चडवीसाइत्थपणे ति पाठे जिनानां चतुर्विंशत्याः स्तवेनेत्यर्थः, चकारो द्वितीयावश्यकसमुच्चयार्थः, चतुर्विंशतिस्तवेन क्रियते, किंभूतेनेत्याह'अच्चन्भुअ' इत्यादि, अत्यद्भुताः सर्वातिशायिनो लोकोद्योतकरादयो ये गुणास्तेषां यदुत्कीर्त्तनं-वर्णनं तद्रूपेण, केषां | तदित्याह - 'जिवणरिंदानं'ति जिना - रागादिजयादुपशान्तमोहादयस्तेषां मध्ये वराः - केवलिनस्तेषां इन्द्रा इव इन्द्रास्तीर्थङ्करा जिनवरेन्द्रास्तेषामित्यर्थः ॥ ३ ॥ उक्ता दर्शनाचारविशुद्धिः, इदानीं ज्ञानाचारस्य चारित्राचारदर्शनाचार योश्च विशेषेण विशुद्धिमाह - नाणाई गुणा तस्संपन्नपडिवत्तिकरणाओ । वन्दणणं विहिणा कीरइ सोही उ तेसिं तु ॥ ४ ॥ 'नाणाईआ' इति 'नाण'त्ति ज्ञानाचारः - कालविनयाद्यष्टविधः आदिशब्दादर्शनचारित्राचारग्रहो, ज्ञानदर्शनचारित्रयुक्त एव वन्दनकार्हो नान्यो ज्ञानवानपि पार्श्वस्थादिर्व्यवहारतः चारित्रवानपि निह्नवादिरिति ज्ञापनार्थः, ज्ञानमादौ येषां ते ज्ञानादिकाः, 'तुः' अवधारणे, एतेन ज्ञानादिका एव गुणा इत्यर्थः, तैर्ज्ञानादिगुणैस्सम्पन्ना - युक्तास्तत्सम्पन्ना गुरवस्तेषां प्रतिपत्तिः- भक्तिस्तस्याः करणं तस्मात् तत्सम्पन्नप्रतिपत्तिकरणाद्विनयकरणादित्यर्थः, केन ? - वन्दनकेन, कथं ? - विधिना - द्वात्रिंशद्दोषरहिततया पञ्चविंशत्यावश्यकविशुद्धतया च 'तेसिं तु'त्ति तेषां - ज्ञाना चारादीनां For Private & Personal Use Only आचारपंचकशुद्धिः २-४ 11 46 11 www.jainelibrary.org
SR No.600094
Book TitleTandul Vaicharikam
Original Sutra AuthorN/A
AuthorVimal Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_tandulvaicharik
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy