________________
वन्दनेन क्रियते ३, स्खलनं स्खलितं-आत्मनोऽतिचारापादनं तस्य निन्दनं-निन्दना न पुनः करिष्ये इत्यभ्युपगमनं सा प्रतिक्रमणेन क्रियते ४, व्रणस्य-अतिचाररूपभावव्रणस्य चिकित्सा-प्रतीकाररूपा सा कायोत्सर्गेण क्रियते ५, गुणाविरत्यादयो मूलगुणोत्तरगुणरूपास्तेषां धारणं धारणा सा प्रत्याख्यानेन क्रियते ६, 'चैवेति षण्णामपि समुच्चये ॥१॥ अथ किञ्चिद्विशेषत एतेषां सामायिकादीनां षण्णामपि स्वरूपं चारित्रविशुद्ध्यादिरूपं फलं चाह
__ चारित्तस्स विसोही कीरइ सामाइएण किल इहयं ।
सावजेअरजोगाण बजणाऽऽसेवणत्तणओ ॥२॥ 'चारित्ते'त्यादि, चारित्रस्य-चारित्राचारस्य पञ्चसमितित्रिगुप्तिरूपस्य विशोधनं विशोधिः-निर्मलता क्रियते, केन ?सामायिकेन-समभावलक्षणेन 'किले'ति सत्ये' 'इहयंति इहैव जिनशासने नान्यत्र शाक्यादिदर्शने, तेषु सामायिकपरिभाषाया अप्यभावात्, कथं सामायिकेन विशोधिः क्रियते ? इत्याह-'सावजेत्ति सावद्याः-सपापा इतरे चनिरवद्या ये योगाः-कायादिव्यापारास्तेषां यथासङ्खये ये वर्जनासेवने ताभ्यां वर्जनासेवनातः सावद्यानां वर्जनतः इतराणां त्वासेवनतश्च तेन विशोधिः क्रियते इति तात्पर्यार्थः॥२॥ उक्ता चारित्राचारविशुद्धिः, अथ दर्शनाचारविशुद्धिमाह
दसणयारविसोही चवीसायथएण किजइ अ।
अचम्भुअगुणकित्तणरूवेण जिणवरिंदाणं ॥३॥ 'दसणे'त्यादि, दर्शनं-सम्यक्त्वं तस्याचारो-निश्शङ्कितेत्याद्यष्टविधः तस्य विशोधिः-निर्मलता चतुर्विशतेरात्मनां
For Private Personal Use Only
Jain Education
srww.jainelibrary.org