SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ S HAIRCRA तुः पुनरर्थे चारित्राचारदर्शनाचारयोःप्राक्शोधितयोरपि पुनर्विशेषेण शोधिः क्रियते इत्यर्थः॥४॥ उक्ता वन्दनकेन ज्ञानाद्याचारत्रयशुद्धिः, सम्प्रति प्रतिक्रमणकायोत्सर्गाभ्यां गाथाद्वयेन तामाह खलियस्स य तेसिं पुणो विहिणा जं निंदणाइ पडिकमणं । तेणं पडिकमणेणं तेसिंपि य कीरए सोही॥५॥ चरणाइयाइयाणं जहक्कम वणतिगिच्छरूवेणं । पडिकमणासुद्धाणं सोही तह काउसग्गेणं ॥६॥ स्खलितस्य-व्रतविषयस्यातिक्रमव्यतिक्रमादिप्रकारसंजातापराधस्य तथा 'तेसिन्ति तेषां-ज्ञानाचारादीनां पुनः प्रतिषिद्धकरणकृत्याकरणाश्रद्धानविपरीतप्ररूपणादिप्रकारसंजातातिचारस्य च विधिना-सूत्रोक्तप्रकारेण 'जं निंदणाई'इति यन्निन्दनं निन्दना-दुष्टं मयैतत् कृतमिति, आदिशब्दागर्हादिग्रहः, गुरुसाक्षिकमात्मदोषाविष्करणं गर्हा, एवंप्रकार| स्खलितस्य यन्निन्दनादिकरणं-तस्माद्दोषजातान्निवर्त्तनं तत्प्रतिक्रमणमुच्यते इति शेषः, प्रतीपं क्रमणं प्रतिक्रमणं इति व्युत्पत्तिः, अतः कारणात्तेन प्रतिक्रमणेन 'तेसिं पियत्ति न केवलं सामान्यतो व्रतादिविषयापराधानां, किन्तु तेषामपि ज्ञानाचारादीनां क्रियते विशोधिः-निर्मलतेति, 'चरणाइय'त्ति चरणं-चारित्रं अतिगच्छन्ति-अतिक्रामन्तीति चरणातिगाः, अतिचारा इति दृश्यं, ते आदौ येषां ते चरणातिगादिकाः-सर्वेऽप्यतिचारास्तेषां चरणातिगादिकानां, कथंभूतानां ?-प्रतिक्रमणेन-प्रागुक्तेनाशुद्धानामर्द्धशुद्धानां वा शुद्धिस्तथैव-प्रागुक्तप्रकारेण क्रियते, केन ?-कायोत्सर्गेण, किं ARKARANCHAL Jain Education For Private & Personel Use Only new.jainelibrary.org
SR No.600094
Book TitleTandul Vaicharikam
Original Sutra AuthorN/A
AuthorVimal Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_tandulvaicharik
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy