Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
तं. वै. प्र.
॥ ५३ ॥
Jain Education
"
'असिमसि० ' नारीणां सर्वथा विश्वासो न विधेयः, किंभूतानाम् ? - असिमषीसद्दक्षीणां करवालकज्जलतुल्यानां, अय| माशयः - यथा खङ्गः पण्डितेतरान् नरान् निर्दयतया छेदयति तथाऽनार्या नार्योऽपि नरानिह परत्र दारुणदुःखोत्पादनेन छेदयन्ति, यथा च कज्जलं स्वभावेन कृष्णं अस्य श्वेतपत्रादिसङ्गमे सति तस्य कृष्णत्वं जनयति तथोन्मत्तनारी स्वभा वेन कृष्णा दुष्टान्तःकरणत्वात् तत्सङ्गमे उत्तमकुलोत्पन्नानामुत्तमानामपि कृष्णत्वमुत्पादयति यशोधनक्षय राजविटम्बनादिहेतुत्वात् पुनः किंभूतानां ? - कान्तारकपाटचारकसमानां - अरण्यकपाटकारागृहतुल्यानाम्, अयमाशयः यथा गहनवनं व्याघ्राद्याकुलं जीवानां भयोत्पादकं भवति तथा नराणां नार्योऽपि भयं जनयन्ति, धनजीवितादिविनाशहेतुत्वेनेति, यथा प्रतोल्यां कपाटे दत्ते केनापि गन्तुं न शक्यते तथा हृदयप्रतोल्यां नारीरूपे कपाटे दत्ते सति केनापि कुत्रापि धर्मवनादौ गन्तुं न शक्यते, यथा च जीवानां कारागृहं दुःखोत्पादकं भवति तथा नराणां नार्योऽपीति, पुन किंभूतानां ?'घोरनि०' घोरो- रौद्रः प्राणनाशहेतुत्वात् निकुरम्बं - घनमगाधमित्यर्थः यत्कमिति-जलं तस्मादिव दरो-भयं यस्मात् भावात् साङ्केतपुराधिपदेवरतिराजस्येव स निकुरम्बकन्दरः कमित्यव्ययशब्दः उदकवाचकः, चलन् - पुरुषं पुरुषं प्रति भ्रमन् बीभत्सो - भयङ्करः, इह परत्र महाभयोत्पादकत्वात् एवंविधो भावः - आन्तरमायावकस्वभावो यासां ताः घोरनिकुरम्बकन्दरचलद्वीभत्सभावास्तासां घोरभावानाम् १ 'दोससय०' दोषशतगर्गरिकाणां दोषाः - परस्पर कलह| मत्सर गालिप्रदानमर्मोद्घाटनकलङ्क प्रदान जल्प्य जल्पनशापप्रदानस्वपर प्राणघातचिन्तनादयस्तेषां शतानि तेषां गर्गरिकाःभाजनविशेषास्तासां दोषशतगर्गरिकाणां 'अजस०' यशसः शतानि यशः शतानि न यशःशतान्ययशः शतानि
For Private & Personal Use Only
स्त्रीस्वरूपपद्यानि १२२-९
॥ ५३ ॥
w.jainelibrary.org

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160