Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 117
________________ Jain Education 'आहारो०' अत्र-प्रकीर्ण के जीवानां गर्भे आहारस्वरूपं १ गर्भे उच्छ्रासपरिमाणं २ शरीरे सन्धिस्वरूपं ३ शरीरे शिराप्रमाणं ४ वपुषि रोमकूपानि ५ पित्तं ६ रुधिरं ७ शुक्रं ८ चशब्दान्मुहूर्त्तादिकमेतत्पूर्वोक्तं गणितं - सङ्ख्या प्रमाणतो निरूपितं, कैः ? - गणितप्रधानैः - तीर्थकरगणधरादिभिः ॥ १६ ॥ 'एयं सोउं०' एतत्पूर्वोक्तं श्रुत्वा - आकर्ण्य शरीरस्य तथा वर्षाणां गणितं प्रकटं श्रुत्वा किंभूतं ? - महान् अर्थो-ज्ञानवैराग्यादिको यस्मात् स महार्थस्तत् यूयं मोक्षपद्ममीहत - वाञ्छत किंभूतं ? - 'सम्मत्त 'त्ति अनन्तज्ञानपर्यायानन्तदर्शनपर्यायानन्तागुरुलघुपर्यायादिसहस्रपत्राणि यत्र तत्स - म्यक्त्वसहस्रपत्रं, अत्र कर्मणि षष्ठी ॥ १७ ॥ 'एयं स० ' एतच्छरीरशकटं जातिजरामरणवेदनाबहुलं 'तह घत्तह'त्ति तथा यतध्वं तथा यत्नं कुरुतेत्यर्थः यद्वा तथा खेटयत 'कार्ड' कृत्वा - विधाय तपःसंयमादिकमिति शेषः, 'जे' इति पादपूरणे, यथा मुञ्चत, केभ्यः ? - सर्वदुःखेभ्यः, बलसारराजर्षिवदिति ॥ १८ ॥ इति श्रीहीरविजयसूरिसेवितचरणेन्दीवरे श्रीविजयदानसूरीश्वरे विजयमाने वैराग्यशिरोमणीनां मुक्तशिथिलाचाराणां घनभावघनभव्य शिलीमुख सेवितक्रमणविसप्रसूनानां श्रीआनन्दविमलसूरीश्वराणां शिष्याणुशिष्येण विजयविमलाख्येन पण्डितश्रीगुण सौभाग्यगणिप्राप्ततन्दुलवैचारिकज्ञानांशेन श्रीतन्दुलवैचारिक स्येयमवचूरिः समर्थिता । अत्र मया मूर्खशिरोमणिना जिनाज्ञाविरुद्धं यद् व्याख्यातं लिखितं च तन्मयि रङ्के परमदयां कृत्वाऽऽगमज्ञैः संशोध्यमिति भद्रम् । इति तन्दुलवेयालियं विवृत्तितः समाप्तम् । For Private & Personal Use Only w.jainelibrary.org

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160