SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Jain Education 'आहारो०' अत्र-प्रकीर्ण के जीवानां गर्भे आहारस्वरूपं १ गर्भे उच्छ्रासपरिमाणं २ शरीरे सन्धिस्वरूपं ३ शरीरे शिराप्रमाणं ४ वपुषि रोमकूपानि ५ पित्तं ६ रुधिरं ७ शुक्रं ८ चशब्दान्मुहूर्त्तादिकमेतत्पूर्वोक्तं गणितं - सङ्ख्या प्रमाणतो निरूपितं, कैः ? - गणितप्रधानैः - तीर्थकरगणधरादिभिः ॥ १६ ॥ 'एयं सोउं०' एतत्पूर्वोक्तं श्रुत्वा - आकर्ण्य शरीरस्य तथा वर्षाणां गणितं प्रकटं श्रुत्वा किंभूतं ? - महान् अर्थो-ज्ञानवैराग्यादिको यस्मात् स महार्थस्तत् यूयं मोक्षपद्ममीहत - वाञ्छत किंभूतं ? - 'सम्मत्त 'त्ति अनन्तज्ञानपर्यायानन्तदर्शनपर्यायानन्तागुरुलघुपर्यायादिसहस्रपत्राणि यत्र तत्स - म्यक्त्वसहस्रपत्रं, अत्र कर्मणि षष्ठी ॥ १७ ॥ 'एयं स० ' एतच्छरीरशकटं जातिजरामरणवेदनाबहुलं 'तह घत्तह'त्ति तथा यतध्वं तथा यत्नं कुरुतेत्यर्थः यद्वा तथा खेटयत 'कार्ड' कृत्वा - विधाय तपःसंयमादिकमिति शेषः, 'जे' इति पादपूरणे, यथा मुञ्चत, केभ्यः ? - सर्वदुःखेभ्यः, बलसारराजर्षिवदिति ॥ १८ ॥ इति श्रीहीरविजयसूरिसेवितचरणेन्दीवरे श्रीविजयदानसूरीश्वरे विजयमाने वैराग्यशिरोमणीनां मुक्तशिथिलाचाराणां घनभावघनभव्य शिलीमुख सेवितक्रमणविसप्रसूनानां श्रीआनन्दविमलसूरीश्वराणां शिष्याणुशिष्येण विजयविमलाख्येन पण्डितश्रीगुण सौभाग्यगणिप्राप्ततन्दुलवैचारिकज्ञानांशेन श्रीतन्दुलवैचारिक स्येयमवचूरिः समर्थिता । अत्र मया मूर्खशिरोमणिना जिनाज्ञाविरुद्धं यद् व्याख्यातं लिखितं च तन्मयि रङ्के परमदयां कृत्वाऽऽगमज्ञैः संशोध्यमिति भद्रम् । इति तन्दुलवेयालियं विवृत्तितः समाप्तम् । For Private & Personal Use Only w.jainelibrary.org
SR No.600094
Book TitleTandul Vaicharikam
Original Sutra AuthorN/A
AuthorVimal Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_tandulvaicharik
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy