SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ तं. वै. प्र. ॥ ५३ ॥ Jain Education " 'असिमसि० ' नारीणां सर्वथा विश्वासो न विधेयः, किंभूतानाम् ? - असिमषीसद्दक्षीणां करवालकज्जलतुल्यानां, अय| माशयः - यथा खङ्गः पण्डितेतरान् नरान् निर्दयतया छेदयति तथाऽनार्या नार्योऽपि नरानिह परत्र दारुणदुःखोत्पादनेन छेदयन्ति, यथा च कज्जलं स्वभावेन कृष्णं अस्य श्वेतपत्रादिसङ्गमे सति तस्य कृष्णत्वं जनयति तथोन्मत्तनारी स्वभा वेन कृष्णा दुष्टान्तःकरणत्वात् तत्सङ्गमे उत्तमकुलोत्पन्नानामुत्तमानामपि कृष्णत्वमुत्पादयति यशोधनक्षय राजविटम्बनादिहेतुत्वात् पुनः किंभूतानां ? - कान्तारकपाटचारकसमानां - अरण्यकपाटकारागृहतुल्यानाम्, अयमाशयः यथा गहनवनं व्याघ्राद्याकुलं जीवानां भयोत्पादकं भवति तथा नराणां नार्योऽपि भयं जनयन्ति, धनजीवितादिविनाशहेतुत्वेनेति, यथा प्रतोल्यां कपाटे दत्ते केनापि गन्तुं न शक्यते तथा हृदयप्रतोल्यां नारीरूपे कपाटे दत्ते सति केनापि कुत्रापि धर्मवनादौ गन्तुं न शक्यते, यथा च जीवानां कारागृहं दुःखोत्पादकं भवति तथा नराणां नार्योऽपीति, पुन किंभूतानां ?'घोरनि०' घोरो- रौद्रः प्राणनाशहेतुत्वात् निकुरम्बं - घनमगाधमित्यर्थः यत्कमिति-जलं तस्मादिव दरो-भयं यस्मात् भावात् साङ्केतपुराधिपदेवरतिराजस्येव स निकुरम्बकन्दरः कमित्यव्ययशब्दः उदकवाचकः, चलन् - पुरुषं पुरुषं प्रति भ्रमन् बीभत्सो - भयङ्करः, इह परत्र महाभयोत्पादकत्वात् एवंविधो भावः - आन्तरमायावकस्वभावो यासां ताः घोरनिकुरम्बकन्दरचलद्वीभत्सभावास्तासां घोरभावानाम् १ 'दोससय०' दोषशतगर्गरिकाणां दोषाः - परस्पर कलह| मत्सर गालिप्रदानमर्मोद्घाटनकलङ्क प्रदान जल्प्य जल्पनशापप्रदानस्वपर प्राणघातचिन्तनादयस्तेषां शतानि तेषां गर्गरिकाःभाजनविशेषास्तासां दोषशतगर्गरिकाणां 'अजस०' यशसः शतानि यशः शतानि न यशःशतान्ययशः शतानि For Private & Personal Use Only स्त्रीस्वरूपपद्यानि १२२-९ ॥ ५३ ॥ w.jainelibrary.org
SR No.600094
Book TitleTandul Vaicharikam
Original Sutra AuthorN/A
AuthorVimal Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_tandulvaicharik
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy