________________
Jain Education In
तेषु विसर्पत्-विस्तारं गच्छत् हृदयं - मानसं यासां ता अयशः शतविसर्पद्रहृदयास्तासां तथा 'कइयव'त्ति कैतवानि कपटानि नेपथ्यभाषामार्गगृहपरावर्त्तादीनि 'पन्नत्ती 'ति प्रज्ञाप्यन्ते - प्ररूप्यन्ते याभिस्ताः कैतवप्रज्ञप्तयः, यद्वा कैतवानांदम्भानां प्रकृष्टाः ज्ञप्तयो - ज्ञानानि कमलश्रेष्टिसुतापद्मिनीवत् यासु ताः कैतवप्रज्ञतयः, यद्वा कैतवेषु प्रज्ञाया - बुद्धेराप्तिः - आदानं यासां ताः कैतवप्रज्ञाप्तयस्तासां कैतवप्रज्ञप्तीनां २ कैतवप्रज्ञाप्तीनां वा, तथा 'ताणं'ति तासां नारीणामज्ञातशीलानां पण्डितैरप्यज्ञातस्वभावानां यदुक्तं- 'देवाण दाणवाणं मतं मंतंति मंतनिरणा जे । इत्थीचरियंमि पुणो ताणवि मंता कहं नहा ? ॥ १ ॥ जालंधरेहिं भूमीहरेहिं विविहाहिं अंगरक्खेहिं । निवरक्खियावि लोए रमणी दोसइ | पभठ्ठमज्जाया || २ || मच्छपयं जलमज्झे आगासे पंखियाण पयपंती । महिलाण हिययमग्गो तिन्निवि लोए न दीसंति ॥ ३॥" इति यद्वा न ज्ञातं नाङ्गीकृतं शीलं - ब्रह्मस्वरूपं याभिस्ताः अज्ञातशीलास्तासां यद्वा नञः कुत्सार्थत्वात् कुत्सितं | ज्ञातं शीलं साध्वीनां याभिः परिव्राजिकाभिः योगिन्यादिभिस्ता अज्ञातशीलास्तासां मुनिवरैः प्रसङ्गैकान्तजल्पनैकत्र| वासविश्वाससहचलनादिव्यापारो वर्जनीय इति २ 'अन्नं स्यंति०' द्वित्र्यादिपुरुषसम्भवेऽन्यं - स्वभावसमीपस्थं नरं रजंति - अर्थवीक्षणादिना कामरागवन्तं कुर्वन्तीत्यर्थः, पल्लीपतिलघुभ्रातरं प्रति अगडदत्तस्त्रीमदनमञ्जरीवत्, यद्वा स्वकुशीलत्वे केनापि ज्ञाते सति 'अन्नं रयंति'त्ति अन्यद् - विषभक्षणकाष्ठभक्षणादिकं रचयन्ति - कपटेन निष्पादयन्ति यद्वा जारस्य स्वान्तःकरणज्ञापनाय 'अन्नं रयन्ति'त्ति अन्यदात्मव्यतिरिक्तं- तृणतन्तुदंडादि रदन्ति - उत्पाटनं कुर्वन्ती - त्यर्थः, 'रद विलेखने' इति विलेखनमुत्पाटनमिति, 'अन्नं रमंति'त्ति अन्यं - स्वकान्तव्यतिरिक्तं नरं रमन्ति-मैथुनतत्पराः
For Private & Personal Use Only
jainelibrary.org