Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 59
________________ कीलिका ५ सेवाः ६, वज्रादीनां कोऽर्थः?-ऋषभः-अस्थिद्वयस्यावेष्टकः पट्टः १ वज्रमिव वज्र-कीलिका २ नाराचंउभयतो मर्कटबन्धः ३ ततो द्वयोरस्नोरुभयतो मर्कटबन्धेन बद्धयोः पट्टाकृतिना तृतीयेनास्ना वेष्टितयोरुपरि तदस्थि त्रयभेदि कीलिकाकारं वज्राख्यमस्थियन्त्रं तद्वज्रर्षभनाराचं १ कीलिकारहितं ऋषभनाराचं २ पट्टरहितं केवलमर्कटबन्धं & नाराचं ३ यत्रैकपाधै मर्कटबन्धोऽपरपार्थे च कीलिका तदर्धनाराचं ४ यत्रास्थीनि च कीलिकामात्रबद्धानि तत्कीलि काख्यं ५ यत्र चास्थीनि परस्परपर्यन्तसंस्पर्शरूपसेवामात्रेण व्याप्तानि नित्यं स्नेहाभ्यङ्गादिपरिशीलनमपेक्षन्ते तत् सेवया ऋतं-व्याप्तं सेवातं ६, सम्प्रति-इदानीं पञ्चमारके खलु-निश्चये हे आयुष्मन् ! मनुजाना सेवा संहननं वर्तते, तत्र श्रीवीरात्सप्तत्यधिकशत १७० वर्षे श्रीस्थूलभद्रे स्वर्ग गते चरमाणि चत्वारि पूर्वाणि आद्यसंस्थानमाद्यसंहननं महाप्राणध्यानं च गतं, तथा श्रीवीरात् ५८४ वर्षे श्रीवले दशमं पूर्व संहननचतुष्कं च गतमिति । तथा आसन हे आयुष्मन् ! पूर्व मनुजानां षविधानि 'संठाणे'त्ति सन्तिष्ठन्ति प्राणिन एभिराकारविशेषैरिति संस्थानानि, तद्यथा-'समचतुरंसे'त्ति समं-नाभेरुपर्यधश्च सकलपुरुषलक्षणोपेतावयवतया तुल्यं तच्च तच्चतुरस्रं च-अन्यूनाधिकाश्चतस्रोऽप्यस्रयो यस्य तत्समचतुरस्र, अस्रयश्च पर्यङ्कासनोपविष्टस्य जानुनोरन्तरमासनस्य ललाटोपरिभागस्य चान्तरं दक्षिणस्कन्धवामजानुनोरन्तरं वामस्क-12 न्धदक्षिणजानुनोश्चान्तरमिति संस्थानं-आकारः समचतुरस्रसंस्थानं १ न्यग्रोधवत् परिमण्डलं यस्य यथा न्यग्रोध उपरि | सम्पूर्णप्रमाणोऽधस्तु हीनस्तथा यत् संस्थानं नाभेरुपरि सम्पूर्णमधस्तु न तथा तत् न्यग्रोधपरिमण्डलमुपरिविस्तारबहुलमिति भावः २ आदिरिहोत्सेधाख्यो नाभेरधस्तनो देहभागो गृह्यते ततः सह आदिना-नाभेरधस्तनभागेन यथोक्तप्रमा Jain Education in For Private & Personel Use Only Mainelibrary.org

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160