Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
रामाहिन्यात
विशेषतो नारीस्वरूपं
सू. १९
४ तेन 'गिण्हणन्ति' कामातुरादिप्रकारेण पुरुषग्रहणं तेन शीतेन कोपाटोपात् माघमासादौ वस्त्रोद्दालनगृहबहिःकर्ष
णादिना उष्णेन-स्वकार्यकारापणेनातपादौ भ्रामयन्ति दुःखेनापत्यादिभरणादिपीडादर्शनेन क्लेशेन-रामाद्वित्र्यादियोगे सति परस्परकलहोत्पादनेन, आदिशब्दादन्यैरप्यनाचारसेवाद्यनर्थोत्पादनैः पुरुषान् पीडयन्तीति ललनाः ७ 'पुरि०' पुरुषान् योगा:-बाह्याः स्ववाक्कायोद्भवव्यापाराः हास्यकरणाङ्गविक्षेपादयः नियोगाः-आन्तराः स्वमनसि भवाः कामविकारादयस्तैोगनियोगैः वशे-स्ववशे स्थापयन्ति-रक्षयन्तीति योषितः, यद्वा पुरुषान् योगनियोगैः-कार्मणवशीकरणादिप्रकारैः स्ववशे स्थापयन्तीति योषितः 'पुरि०' पुरुषान् नानाविधैः भावैः-अभिप्रायविलासादिभिर्वर्णयन्ति कामोद्दीपनगुणान् विस्तारयन्तीति वनिताः ९ 'काई पमत्तभावं.'ति काश्चित् कामिन्यः प्रकर्षेण मत्तभावं-उन्मत्तभावं व्यवहरन्ति-प्रवर्त्तयन्ति पुरुषाणां पातनार्थ 'काई' कौश्चित् प्रकर्षेण जनं नम्रत्वं-प्रणतं कुर्वन्ति, किंभूतं ?-सहविभ्रमेण-सविलासेन वर्तते यत्तत्सविभ्रमं पुरुषाणां पाशबन्धनार्थ 'काई.' 'ससई सासिव ववहरंति'त्ति काश्चित् सशब्दं यथा स्यात्तथा व्यवह-| रन्ति-स्वचेष्टां दर्शयन्तीत्यर्थः, क इव ?-'सासिव' श्वासोच्छासरोगिवत् , पुरुषाणां स्नेहभावोत्पादनार्थ, 'काई' काश्चित् शत्रुवत् प्रवर्त्तयन्ति मारणार्थ मर्मस्थानग्रहणेन, यद्वा स्वभादीनां भयोत्पादनार्थ रिपुवत् प्रवर्त्तयन्ति, 'रोरो इव का.' काश्चित्कामतृष्णातृषिता रोर इव-रङ्क इव रंकपुरुषाणामपि पादयोः पादान् वा प्रणमन्ति-लगन्तीत्यर्थः, 'काई काश्चिदुपनतैः नृत्यप्रकारैरुपनमन्ति सकलाङ्गादिदर्शनार्थ, 'काई कोउ०' काश्चित् कौतुकं-वचननयनादिभावं कृत्वा| १ काश्चित् सेविता लासं प्रणयं स्नेहं व्यवहरन्ति पुरुषाणां पाशबन्धनाथं इत्यपि ।
RAGNARARASI
४
॥५१॥
Jain Education
For Private & Personel Use Only
N
w .jainelibrary.org

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160