Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 67
________________ Jain Education तांश्च वाप्रमाणतन्दुलान् गणयित्वा - सङ्ख्यां कृत्वा निर्दिष्टाः - कथिताः, यथा - चत्वारि कोटिशतानि षष्टिश्चैत्र कोटयः अशीतिस्तन्दुलशतसहस्राणि भवन्तीत्याख्यातं कथितं १, कथं, एकेन प्रस्थेन चतुःषष्टितन्दुलसहस्राणि भवन्ति, प्रस्थद्वयेनाष्टाविं | शतिसहस्राधिकं लक्षं भवति, प्रतिदिनं द्विभजनेन उक्तप्रमाणान् तन्दुलान् भुंक्ते इति, कथं अष्टाविंशतिसहस्राधिकलक्षं ? वर्षशतस्य पत्रिंशद्दिनसहस्रमानत्वात् पत्रिंशत्सहस्रैर्गुण्यन्ते ४६०८ शून्यानि पञ्च भवन्ति, चत्वारि कोटिशतानि | षष्टिः कोटयः अशीतिर्लक्षाणि तन्दुलानामिति । 'तं एवं ति तदेवं सार्धद्वाविंशतिं तन्दुलवाहान् भुञ्जानः सार्धपञ्चमुद्गकुम्भान् भुंक्ते सार्धपञ्चं मुद्रकुंभान् भुञ्जन् चतुर्विंशतिं स्नेहाढकशतानि भुंक्ते चतुर्विंशतिस्नेहाढकशतानि भुञ्जन् पत्रिंशलवणपलसहस्राणि भुनक्ति, पत्रिंशलवणपरसहस्राणि भुञ्जन् षट् पट्टकशाटकशतानि 'नियंसेइ'त्ति परिदधाति, द्वाभ्यां मासाभ्यां 'परियहणं' ति परावर्त्तमानत्वेनेति वा अथवा मासिकेन परावर्त्तनेन द्वादश पट्टशाटकशतानि 'नियंसेइ 'त्ति | परिदधाति, 'एवामेवे 'ति उक्तप्रकारेण हे आयुष्मन् ! वर्षशतायुषः पुरुषस्य सर्वं गणितं तन्दुलप्रमाणादिना तुलितं पलप्रमाणादिना मवितमसतिप्रसृत्यादिना प्रमाणेन, तत् किमित्याह ? - स्नेहलवणभोजनाच्छादनमिति । एतत् पूर्वोक्तं गणितप्रमाणं | द्विधा भणितं महर्षिभिः, यस्य जन्तोरस्ति तन्दुलादिकं तस्य गुण्यते, यस्य तु नास्ति तस्य किं गुण्यते ?, न किमपीति । ववहारगणियदि सुमं निच्छयगयं मुणेयवं । जइ एयं नवि एवं विसमा गणणा मुणेया ॥ १ ॥ | (५६) कालो परमनिरुडो अविभज्जो तं तु जाण समयं तु । समया य असंखिज्जा हवंति उस्सासनिस्सासे ॥ २ ॥ ( ५७ ) हट्ठस्स अणवगल्लस्स, निरुवट्ठिस्स जंतुणो । एगे ऊसासनीसासे, एस पाणुन्ति For Private & Personal Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160