Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education
25
व्याधिः - असाध्य रोगः इह परत्र च तत्कारणत्वात् ८५ 'अविओ०' न विद्यते वियोगः - पुत्रमित्रादिविरहो यत्र सः अवियोगः एवंविधो विप्रलापः - परिदेवनं ८६ 'अरु० ' अरुकू - रोगरहितः उपसर्गः, यद्वाऽर्पत्वाद् वकारलोपे अरूपोरूपरहितः उपसर्गः - उपपातः ८७ 'रद्द' रतिः - कामप्रिया विद्यते अस्येति रतिमान् कन्दर्पोऽयमिति चित्तभ्रमः चित्तभ्रमकारणत्वात् यद्वा रतिमान् - सुखदायी मनोभ्रमो - मनोविकारः ८८ 'सबंग' सर्वाङ्गः - सर्वशरीरव्यापी दाहः ८९ 'अणन्भया वजासणी'ति अनवका - अभ्रकरहिता वज्राशनिः - विद्युत्, यद्वा इयं - स्त्री 'असणी' त्ति अशनिः - विद्युत्, किंभूता ? - अनवका - आकाशरहिता मेघरहिता वा पुनः किंभूता ? -वज्रा वज्रतुल्येत्यर्थः, दारुणविपाक हेतुत्वात्, 'अपसूया वज्जासणी'ति पाठे अप्रसूता - अपत्यजन्मरहिता वज्जेति वर्या-सुन्दराकारा एवंविधा रामा असणीति - अशनिः - विद्युत्, बालानां नरकादौ दारुणदहनहेतुत्वात् 'अप्पसूया वज्जासुणी'ति पाठे तु अप्रसूता - नवयौवना परिणीता अपरिणीता वा सालङ्कारा अनलङ्कारा वा मुण्डा अमुण्डा वा एवंविधा रामा 'सुणी'ति हडुक्किलाशुनीवत् - मण्डलीवत् 'वज्जे' ति वर्ज्या सर्वथा साधुभिर्मोक्षकाङ्क्षिभिः ब्रह्मचारिभिश्च चतुर्थव्रतरक्षाकाङ्क्षिभिः वर्जनीयेत्यर्थः कायवाङ्मनोभिरिति ९० 'असलि०' अजलप्रवाहः 'असलिलप्पलावो'त्ति पाठान्तरं अजलप्लावः - जलं विना रेलिरित्यर्थः ९१ 'समुद्दरउ 'त्ति समु द्रवेगः केनापि धर्त्तुमशक्यत्वात् 'समद्धरउ'ति पाठे तु सम्यक् अर्ध यस्मात् स समर्धः, एवंविधः 'रउ'त्ति वेगः परमस्नेहवतां बान्धवानां परस्परं स्त्रीकलहे सति गृहाद्यर्धकरणहेतुत्वात् भद्रातिभद्राख्यौ श्रेष्ठिपुत्राविव ९२
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160