Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 72
________________ तं. वै. प्र. ॥ ३४ ॥ Jain Education मुहूर्त्तानि तानि प्रमत्तानां - मद्यादिप्रमादयुक्तानां सुभूमब्रह्मदत्तादीनामिव हीयन्ते, न चाबुधा मूर्खा विजानन्तीति ॥ १९ ॥ 'तिन्नि० ' त्रीणि सहस्राणि षट्शताधिकानि सकलानि - सम्पूर्णानि मूहूर्तानि हेमन्ते - शीतकाले भवन्ति, एतत्प्रमाणमा युजवानां हेमन्ते उडुवर :- सूर्यो हरति, एवं ग्रीष्मे वर्षासु च ज्ञातव्यं भवति, अत्र आर्पत्वेन ग्रीष्मशब्दः स्त्रीलिङ्गो बहुवचनान्तश्च वर्षशब्दस्तु आवन्तत्वेन स्त्रीलिङ्गो बहुवचनान्तश्च ॥ २० ॥ 'वासस०' साम्प्रतं जीवानां परमायुः - उत्कृष्टजीवितं वर्षशतं प्रवाहेण ज्ञातव्यम्, इतो वर्षेशतात् पञ्चाशद् वर्षाणि निद्रया हरति-गमयति जीवः, इतःशेषपञ्चाशद्वर्षतः विंशतिर्वर्षाणि हीयन्ते यान्ति प्रमादादिना, कथं ?, वालत्वे दशकं वृद्धत्वे च दशकं चेति ॥ २१ ॥ 'सीउ० ' शीतोष्णपथगमनानि तथा क्षुत्पिपासा भयं च शोकश्च नानाविधा रोगाश्च भवन्ति, त्रिंशतः पश्चार्ध त्रिंशत्पश्चार्ध पञ्चदशवर्षरूपं तस्मिन् को भावः ? - शेपत्रिंशतो मध्यात् पञ्चदश वर्षाणि जीवानां शीतोष्णपथगमनादिभि | मुधा यान्तीति ॥ २२ ॥ एवं०' पूर्वोक्तप्रकारेण पञ्चाशीतिवर्षाणि नष्टानि, धर्म विना विकथानिद्रालस्यवतां मुधा गतानि, कथं ? - निद्रया पञ्चाशद् वर्षाणि ५० बालवे दश १० वृद्धभावे दश १० शीतादिभिः पञ्चदश १५, एवं सर्वाणि ८५ इति, ये जीवाः वर्षशतिकाः- वर्षशतप्रमाणा भवन्ति ते जीवाः पञ्चदश वर्षाणि जीवन्ति, अन्येषां वर्षाणां धर्मत्वेनामृतप्रायत्वात् न च वर्षशतजीविनो जीवाः प्रायः सुलभाः, दुष्प्रापा इत्यर्थः, उक्तं च- 'आयुर्वर्षशतं नृणां परिमितं | रात्रौ तदर्धं गतं, तस्यार्धस्य परस्य चार्धमपरं बाल्ये च वृद्धे गतम् । शेषं व्याधिवियोग दुःखसहितं सेवादिभिनयते, जीवे वारितरङ्गचञ्चलतरे सौख्यं कुतः प्राणिनाम् ! ॥ १ ॥ २३ ॥ एवं०' एवमुक्तप्रकारेण निःसारे - असारे मानुषत्वे For Private & Personal Use Only उच्छ्रासादिगणना गा. ८२ ॥ ३४ ॥ ainelibrary.org

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160