________________
तं. वै. प्र. ॥ ३४ ॥
Jain Education
मुहूर्त्तानि तानि प्रमत्तानां - मद्यादिप्रमादयुक्तानां सुभूमब्रह्मदत्तादीनामिव हीयन्ते, न चाबुधा मूर्खा विजानन्तीति ॥ १९ ॥ 'तिन्नि० ' त्रीणि सहस्राणि षट्शताधिकानि सकलानि - सम्पूर्णानि मूहूर्तानि हेमन्ते - शीतकाले भवन्ति, एतत्प्रमाणमा युजवानां हेमन्ते उडुवर :- सूर्यो हरति, एवं ग्रीष्मे वर्षासु च ज्ञातव्यं भवति, अत्र आर्पत्वेन ग्रीष्मशब्दः स्त्रीलिङ्गो बहुवचनान्तश्च वर्षशब्दस्तु आवन्तत्वेन स्त्रीलिङ्गो बहुवचनान्तश्च ॥ २० ॥ 'वासस०' साम्प्रतं जीवानां परमायुः - उत्कृष्टजीवितं वर्षशतं प्रवाहेण ज्ञातव्यम्, इतो वर्षेशतात् पञ्चाशद् वर्षाणि निद्रया हरति-गमयति जीवः, इतःशेषपञ्चाशद्वर्षतः विंशतिर्वर्षाणि हीयन्ते यान्ति प्रमादादिना, कथं ?, वालत्वे दशकं वृद्धत्वे च दशकं चेति ॥ २१ ॥ 'सीउ० ' शीतोष्णपथगमनानि तथा क्षुत्पिपासा भयं च शोकश्च नानाविधा रोगाश्च भवन्ति, त्रिंशतः पश्चार्ध त्रिंशत्पश्चार्ध पञ्चदशवर्षरूपं तस्मिन् को भावः ? - शेपत्रिंशतो मध्यात् पञ्चदश वर्षाणि जीवानां शीतोष्णपथगमनादिभि | मुधा यान्तीति ॥ २२ ॥ एवं०' पूर्वोक्तप्रकारेण पञ्चाशीतिवर्षाणि नष्टानि, धर्म विना विकथानिद्रालस्यवतां मुधा गतानि, कथं ? - निद्रया पञ्चाशद् वर्षाणि ५० बालवे दश १० वृद्धभावे दश १० शीतादिभिः पञ्चदश १५, एवं सर्वाणि ८५ इति, ये जीवाः वर्षशतिकाः- वर्षशतप्रमाणा भवन्ति ते जीवाः पञ्चदश वर्षाणि जीवन्ति, अन्येषां वर्षाणां धर्मत्वेनामृतप्रायत्वात् न च वर्षशतजीविनो जीवाः प्रायः सुलभाः, दुष्प्रापा इत्यर्थः, उक्तं च- 'आयुर्वर्षशतं नृणां परिमितं | रात्रौ तदर्धं गतं, तस्यार्धस्य परस्य चार्धमपरं बाल्ये च वृद्धे गतम् । शेषं व्याधिवियोग दुःखसहितं सेवादिभिनयते, जीवे वारितरङ्गचञ्चलतरे सौख्यं कुतः प्राणिनाम् ! ॥ १ ॥ २३ ॥ एवं०' एवमुक्तप्रकारेण निःसारे - असारे मानुषत्वे
For Private & Personal Use Only
उच्छ्रासादिगणना
गा. ८२
॥ ३४ ॥
ainelibrary.org