________________
मनुजत्वे तथा जीविते-आयुषि रत्नकोटिकोटिभिरप्यप्राप्येऽधिपतति-समये २ क्षयं गच्छति सतीत्यर्थः न कुरुत यूयं चरणधर्म-ज्ञानदर्शनपूर्वकं देशसर्वचारित्रं, हा इति महाखेदे, पश्चाद्-आयुःक्षयानन्तरमायुःक्षयचरमक्षणे वा पश्चात्तापं-कायवामनोभिर्महाखेदं करिष्यथ नरकस्थशशिराजवदिति ॥ २४ ॥ भव्याः प्रश्नयन्ति-कथं वयं नात्मस्वरूपं जानीम इत्युक्ते गुरुराह'-'घुटुंमिः' धर्मस्य जिनोक्तरूपस्य तीर्थ-पवित्रकरणस्थानक तस्य मार्गों ज्ञानदर्शनचारित्ररूपः वरश्चासौ धर्मतीर्थमार्गश्च स तथा तस्मिन् , प्राकृतत्वात् विभक्तिपरिणामः, जिनैः-रागादिजेतृभिः स्वयं-आत्मना 'घुटुंमी'ति कथिते-10 निरूपिते सति, आत्मानं न यूयं जानीत, व सति ?-मोहे सति-तीव्रमिथ्यात्वमिश्रमोहनीयकर्मोदये सतीत्यर्थः, इह कर्मभूमौ जाता अपि, अपेर्गम्यमानत्वादिति, अस्या अर्थो अन्योऽपि सद्गुरुप्रसादात्कार्यः इति ॥ २५॥ 'नइ० नदीवेगसमं चपलं जीवितं-आयुः १ यौवनं कुसुमसमं-पुष्पसदृशं क्षणेन म्लानत्वापत्तेः२ च पुनः यत्सौख्यं तत् 'अनियत्तंति अनित्यं ३, एतानि त्रीग्यपि 'तुरमाणभुज्जाईति शीघ्रं भोग्यानि 'भजा'इति पाठे तु शीघ्रं भग्नयोग्यानि शीघ्रं भवा यान्तीत्यर्थः ॥२६॥ 'एयं.' एतज्जरामरणं 'खु' निश्चये जीवलोकं परिक्षिपति-परिवेष्टयति, (व)इवार्थे, यथा वागुरा मृगयूथं परिक्षिपति, न च पश्यत यूयं प्राप्त जरामरणं मोहजालेन सम्मूढाः-मोहं गताः, श्रीगौतमप्रतिबोधितदेवशमेद्विजवदिति ॥ २७ ॥ उक्तमायुष्कापेक्षयाऽनित्यत्वं, अथ शरीरापेक्षया दर्शयन्नाह__ आउसो! जंपिय इमं सरीरं इदं कंतं पियं मणुन्नं मणामं मणभिरामं थिजं वेसासियं संमयं बहुमयं अणुमयं भंडकरंडगसमाणं रयणकरंडओविव सुसंगोवियं चेलपेडाविव सुसंपरिवुडं तिल्लपेडाविव सुसंगो
Jain Education
For Private & Personel Use Only
A
jainelibrary.org