________________
वा सु०' अथवा चतुर्णा स्वर्णमाषाणां सूचिर्भवति, किंभूता सूचिः ?-सु-अतिशयेन वर्तिता-वर्नुलीकृता सुवर्तिता घनानिबिडा चतुरङ्गलप्रमाणा, तत्र माषमानं पञ्चगुञ्जाप्रमाणमित्युक्तप्रमाणेन नालिकाच्छिद्रं ज्ञातव्यमिति ॥१०॥ इत्युक्तं |घटिकाच्छिद्रप्रमाणम् । अथ घट्यां जलप्रमाणमाह-उदगस्सनालिकायां-घटिकायामुदकस्य-जलस्य प्रमाणं द्वावाढको भवतः, उदकं यादृशं भणितव्यं भवति तत्तादृशं पुनर्वक्ष्ये इति ॥१॥'जारिसयं तं उदक-जलं खलु-निश्चये ज्ञातव्यं कर्त्तव्यं चेति, कीदृशं कर्त्तव्यमित्याह-'दूसपट्ट०' दृष्यपरिपूर्त,वस्त्रगलितमित्यर्थः, मेघोदकं प्रसन्नमिति निर्मलं,वा-अथवा 'सारय'ति शरत्कालोद्भवं आश्विनकार्तिकोद्भवं यद् गिरिनद्या उदकं ज्ञातव्यं,तच्च स्वभावेन निर्मलं भवतीति ॥ १२ ॥ 'बारस'द्वादशभिर्मासैः संवत्सरस्तस्मिन्संवत्सरे चतुर्विंशतिः पक्षा भवन्ति,तेषु षष्ट्याऽधिकानि त्रीणि शतानि अहोरात्राणि भवन्ति ॥१३॥ 'एगं च' एकं शतसहस्र-लक्ष त्रयोदश सहस्राणि नवत्यधिकं शतं चाहोरात्रेणैतावन्त उच्छासा भवन्ति ११३१९० इति ॥१४॥ 'तित्तिस०'त्रयस्त्रिंशच्छतसहस्राणि लक्षाणि पश्चनवतिः सहस्राणि सप्तशतान्यन्यूनान्येतावन्तो |मासेनोच्छवासा भवन्ति ३३९५७००, इति ॥१५॥ 'चत्तारि०' चतस्रः कोव्यः सप्त लक्षाणि अष्टचत्वारिंशत् सहस्राणि चत्वारि शतानि च ४०७४८४००, इयन्तः वर्षेणोच्छासा भवन्ति ॥ १६ ॥'चत्ता' । 'वासस । चत्वारि कोटिशतानि सप्तकोट्यः अपराण्यष्टचत्वारिंशच्छतसहस्राणि चत्वारिंशत्सहस्राणि च ४०७ ४८४००००॥१७॥ वर्षशतायुषः एते पूर्वोक्ता उच्छासाः 'इत्तिय'त्ति इयन्तो ज्ञातव्या इति, भो भव्याः! यूयं पश्यत-ज्ञानचक्षुषा विलोकयत आयुषः क्षयमहोरात्रं क्षीयमाणस्य-समये २ आवीचीमरणेन त्रुव्यमानस्येति॥१८॥राइ०' अहोरात्रेण त्रिंशन्मुहूर्ता भवन्ति,मासेन नव शतानि
Jain Education
Glona
For Private & Personel Use Only
Rajainelibrary.org