Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
तं. वै.प्र.
॥३०॥
-CONGRECAR
१६
प्रलम्बमानेन च सुष्ठ कृतं पटेन तु उत्तरीयं-उत्तरासङ्गो येन स तथा, मुद्रिकाः-अङ्गल्याभरणानि ताभिः पिङ्गलाः-कपिला तन्दुलादिअङ्गलयो यस्य स तथा, नानामणिकनकरलैर्विमलानि-विगतमलानि महाहाणि-महार्णणि निपुणेन शिल्पिना 'उविय'त्तिाद गणना सू. परिकमितानि 'मिसिमिसिंत'त्ति दीप्यमानानि यानि विरचितानि-निवृत्तानि सुश्लिष्टानि-सुसन्धीनि विशिष्टानि-IN अन्येभ्यो विशेषवन्ति लष्टानि-मनोहराणि आविद्धानि-परिहितानि वीरवलयानि येन स तथा, सुभटो हि यदि कश्चिद-15 न्योऽप्यस्ति वीरव्रतधारी तदा असौ मां विजित्य मोचयत्वेतानि वलयानीति स्पर्धयन यानि कटकानि परिदधाति तानि वीरवलयानीत्युच्यन्ते, किंबहुना वर्णितेनेति शेषः, कल्पवृक्ष इवालङ्कृतो दलादिभिर्विभूषितश्च फलादिभिः एवमसावपि । मुकुटादिभिरलङ्कतो विभूषितश्च भवति वस्त्रादिभिरिति, शुविपदं-पवित्रस्थानमित्यर्थः, भूत्वा भूयः अम्बापितरौ-मातापि-13 तरावभिवादयते-पादयोः प्रणिपातं करोतीत्यर्थः। ततः-अभिवादनानन्तरं 'ण'मिति वाक्यालङ्कारे तं पुरुषं-स्वपुत्रलक्षणं मातापितरौ एवं वदेतां-कथयतां इत्यर्थः-हे पुत्र! त्वं जीव वर्षशतमिति, अथ यदि तस्य पुत्रस्य वर्षशतप्रमाणमायुः स्यात् तदास जीवति नान्यथेति, तदपिच आयुः 'आईति अलङ्कारे तस्य-वर्षशतायुःपुरुषस्य न बहुकं-वर्षशताधिकं भवति, कस्मात् ?, यस्माद् वर्षशतं जीवन् विंशतियुगान्येव जीवति निरुपक्रमायुष्कत्वात् , तत्र युगं-चन्द्रादिवर्षपश्चात्मकमिति १विंशतियुगानि जीवन् पुरुषः द्वे अयनशते जीवति, तत्रायनं षण्मासात्मकमिति २ द्वे अयनशते जीवञ्जीवः पडू ऋतुशतानि जीवति, तत्रतुः मासद्वयात्मकः ३ पडू ऋतुशतानि जीवन् जन्तुादश मासशतानि जीवति द्वादश 3॥३० मासशतानि जीवन् प्राणी चतुर्विंशतिपक्षशतानि जीवति २४०० चतुर्विंशतिपक्षशतानि जीवन् षट्त्रिंशदहो ।
NAGARIMARCH
R OCALGCRECORICADER
JainEducation
For Private
Personel Use Only
M
ainelibrary.org

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160