________________
Jain Education
वदनस्यावयवी येषां ते तथा, अचिरोद्गतः समग्रः- सम्पूर्णः सुस्निग्धः चन्द्रः - शशी तस्यार्द्धवत् संस्थितं - संस्थानं यस्य ललाटस्य तत्तथा तदेवंविधं 'निडाल' त्ति ललाटं - भालं येषां ते अचिरोद्गतसमग्रसुस्निग्धचन्द्रार्धसंस्थितललाटाः, उड्डुपतिरिव - चन्द्र इव प्रतिपूर्ण सौम्यं वदनं येषां ते उडुपतिप्रतिपूर्णसौम्यवदनाः, छत्राकारोत्तमाङ्गदेशा इति कण्ठ्यं, घनो-लोहमुद्गरस्तद्वन्निचितं निबिडं यद्वा घनं अतिशयेन निचितं सुबद्धं स्नायुभिः लक्षणोन्नतं महालक्षणं कूटागारनिभं - सशिखरभवनतुल्यं निरुपमपिण्डिकेव वर्तुलत्वेन पिण्डिकायमानं अग्रशिरः- शिरोऽयं येषां ते घननिचितसुबद्धलक्षणोन्नतकूटागारनिभनिरुपमपिण्डिका ग्रशिरसः, हुतवहेन अग्निना निर्ध्यातं धौतं तप्तं च यत्तपनीयं - रक्तवर्णसुवर्ण तद्वत् ' के संत 'त्ति मध्यकेशाः केशभूमिः - मस्तकत्वग् येषां ते हुतवहनिर्मातधौततप्ततपनीय केशान्त केशभूमयः, शाल्मली - वृक्षविशेषः स च प्रतीत एव तस्य बोर्ड-फलं तद्वत् छोटिता अपि घना निचिता - अतिशयेन निश्चिताः शाल्म लीबोण्डघननिचितच्छोटिताः, ते हि युगलधार्मिकाः केशपाशं न कुर्वन्ति परिज्ञानाभावात् केवलं छोटिता अपि तथा स्वभावतया शाल्मलीबोण्डाकारवत् घननिचिता अवतिष्ठन्ते तत एतद्विशेषणोपादानं, तथा मृदवः - अकर्कशाः विशदानिर्मलाः सूक्ष्माः श्लक्ष्णाः लक्षणा-लक्षणवन्तः प्रशस्ताः - प्रशंसाऽऽस्पदीभूताः सुगन्धयः- परमगन्धकलिताः अत एव सुन्दराः तथा भुजमोचको रत्नविशेषः भृङ्गः- चतुरिन्द्रियपक्षिविशेषः नीलो मरकतमणिः कज्जलं प्रतीतं प्रहृष्टः- प्रमुदितो | यो भ्रमरगणः प्रहृष्ट भ्रमरगणः प्रहृष्टो हि भ्रमरगण तारुण्यावस्थायां भवति तदानीं चातिकृष्ण इति प्रहृष्टग्रहणं तद्वत् स्निग्धाः - कालकान्तयः भुजमोचक भृङ्गनीलकज्जलप्रहृष्टभ्रमरगणस्निग्धाः तथा निकुरम्बा:- निकुरम्बीभूताः सन्तः निचिताः
For Private & Personal Use Only
www.jainelibrary.org