Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 27
________________ समवहन्ति-समवहतो भवति तथाविधपुद्गलग्रहणार्थ, समवहत्य चत्वारि गजाश्वरथपदातिलक्षणानि अङ्गानि विद्यन्ते यस्याः यस्यां वा सा चतुरङ्गिनी तां चतुरङ्गिनीं 'सिन्न'न्ति सेनां कटकमित्यर्थः 'सन्नाहेइ'त्ति सजां करोतीत्यर्थः सजा कृत्वा परानीकेन साध संग्राम संग्रामयति-युद्धं करोतीत्यर्थः 'से णं जीवेत्ति णं इति वाक्यालङ्कारे सः-युद्धकर्ता जीवः 'अत्थकामए'त्ति अर्थे-द्रव्ये कामो-वाञ्छामात्रं यस्यासावर्थकामः एवमन्यान्यपि विशेषणानि, नवरं-राज्यं-नृपत्वं २ भोगाः-गन्धरसस्पर्शाः ३ कामौ-शब्दरूपे ४ 'अत्थकंखिए'त्ति काला गृद्धिरासक्तिरित्यर्थः अर्थे-द्रव्ये काका सञ्जाता अस्येति अर्थकासितः १ एवमन्यानि राज्यकाशितः २ भोगकाशितः ३ कामकाशितः ४ 'अस्थपिवासिए'त्ति पिपासेव पिपासा-प्राप्तेऽप्यर्थेऽतृप्तिः अर्थे अर्थस्य वा पिपासा सञ्जाता अस्येति अर्थपिपासितः १ एवमन्यानि राज्यपिपासितः २ भोगपिपासितः ३ कामपिपासितः ४, 'तचित्तेत्ति तत्र-अर्थराज्यभोगकामे चित्तं-सामान्योपयोगरूपं यस्यासौ तच्चित्तः १'तम्मणे'त्ति तत्रैव-अर्थादौ मनः-विशेषोपयोगरूपं यस्य स तन्मनाः २ 'तल्लेसे'त्ति तत्रैव-अर्थादौ लेश्या-आत्मपरिणामविशेषः यस्यासौ तल्लेश्यः ३ 'तदज्झवसिए'त्ति इह अध्यवसायः-अध्यवसितं तत्र तच्चित्तादिभावयुक्तस्य सतः तस्मिन् अर्थादावेवाध्यवसितं-परिभोगक्रियासम्पादनविषयमस्येति तदध्यवसितः ४ 'तत्तिबज्झवसाणे'त्ति तस्मिन्नेव-अर्थादौ तीव्र-आरम्भकालादारभ्य प्रकर्षयायि अध्यवसानं-प्रयत्नविशेषलक्षणं यस्य स तत्तीव्राध्यवसानः ५ 'तदट्ठोवउत्ते'त्ति तदर्थ-अर्थादिनिमित्तं उपयुक्तः-अवहितः तदर्थोपयुक्तः ६ 'तदप्पियकरणे'त्ति तस्मिन्नेव-अर्थादौ | अर्पितानि-आहितानि करणानि-इन्द्रियाणि कृतकारितानुमतिरूपाणिवा येन स तदर्पितकरणः'तन्भावणाभाविए'त्ति - Inin Educa t ion For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160