________________
समवहन्ति-समवहतो भवति तथाविधपुद्गलग्रहणार्थ, समवहत्य चत्वारि गजाश्वरथपदातिलक्षणानि अङ्गानि विद्यन्ते यस्याः यस्यां वा सा चतुरङ्गिनी तां चतुरङ्गिनीं 'सिन्न'न्ति सेनां कटकमित्यर्थः 'सन्नाहेइ'त्ति सजां करोतीत्यर्थः सजा कृत्वा परानीकेन साध संग्राम संग्रामयति-युद्धं करोतीत्यर्थः 'से णं जीवेत्ति णं इति वाक्यालङ्कारे सः-युद्धकर्ता जीवः 'अत्थकामए'त्ति अर्थे-द्रव्ये कामो-वाञ्छामात्रं यस्यासावर्थकामः एवमन्यान्यपि विशेषणानि, नवरं-राज्यं-नृपत्वं २ भोगाः-गन्धरसस्पर्शाः ३ कामौ-शब्दरूपे ४ 'अत्थकंखिए'त्ति काला गृद्धिरासक्तिरित्यर्थः अर्थे-द्रव्ये काका सञ्जाता अस्येति अर्थकासितः १ एवमन्यानि राज्यकाशितः २ भोगकाशितः ३ कामकाशितः ४ 'अस्थपिवासिए'त्ति पिपासेव पिपासा-प्राप्तेऽप्यर्थेऽतृप्तिः अर्थे अर्थस्य वा पिपासा सञ्जाता अस्येति अर्थपिपासितः १ एवमन्यानि राज्यपिपासितः २ भोगपिपासितः ३ कामपिपासितः ४, 'तचित्तेत्ति तत्र-अर्थराज्यभोगकामे चित्तं-सामान्योपयोगरूपं यस्यासौ तच्चित्तः १'तम्मणे'त्ति तत्रैव-अर्थादौ मनः-विशेषोपयोगरूपं यस्य स तन्मनाः २ 'तल्लेसे'त्ति तत्रैव-अर्थादौ लेश्या-आत्मपरिणामविशेषः यस्यासौ तल्लेश्यः ३ 'तदज्झवसिए'त्ति इह अध्यवसायः-अध्यवसितं तत्र तच्चित्तादिभावयुक्तस्य सतः तस्मिन् अर्थादावेवाध्यवसितं-परिभोगक्रियासम्पादनविषयमस्येति तदध्यवसितः ४ 'तत्तिबज्झवसाणे'त्ति तस्मिन्नेव-अर्थादौ तीव्र-आरम्भकालादारभ्य प्रकर्षयायि अध्यवसानं-प्रयत्नविशेषलक्षणं यस्य स तत्तीव्राध्यवसानः ५ 'तदट्ठोवउत्ते'त्ति तदर्थ-अर्थादिनिमित्तं उपयुक्तः-अवहितः तदर्थोपयुक्तः ६ 'तदप्पियकरणे'त्ति तस्मिन्नेव-अर्थादौ | अर्पितानि-आहितानि करणानि-इन्द्रियाणि कृतकारितानुमतिरूपाणिवा येन स तदर्पितकरणः'तन्भावणाभाविए'त्ति
-
Inin Educa
t
ion
For Private Personal Use Only
www.jainelibrary.org