Book Title: Shadavashyaka Banav Bodh Vrutti
Author(s): Prabodh Bechardas Pandit
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
१७४
15
षडावश्यकबालावबोधवृत्ति
[8495-499) ६८४-७०० सद्यः संमूर्चिछतानन्तजन्तुसन्तानदूषितम् ।। नरकाध्वनि पाथेयं कोऽश्नीयात्पिशितं सुधीः॥ इति मांसदोषाः। [६८४ ] 8495) अन्तर्मुहूर्त्तात्परतः सुमूक्ष्मा जन्तुराशयः। यत्र मूर्छन्ति तन्नाद्यं नवनीतं विवेकिभिः ॥
___ [६८५] एकस्यापि हि जीवस्य हिंसने किमघं भवेत् । जन्तुजातमयं तत् को नवनीतं निषेवते ॥ इति माखणदोषः। [६८६] $ 496 ) अनेकजन्तुसंघातनिघातनसमुद्भवम् । जुगुप्सनीयं लालावत् कः स्वादयति माक्षिकम् ॥
[६८७] भक्षयन्माक्षिक क्षुद्रजन्तु लक्षक्षयोद्भवम् । स्तोकजन्तु निहन्तृभ्यः शौनिकेभ्योऽतिरिच्यते ॥
[६८८] एकैककुसुमक्रोडाद्रसमापीय मक्षिकाः। यद्वमन्ति मधूच्छिष्टं तदश्नन्ति न धार्मिकाः ॥
[६८९] अप्यौषधकृते जग्धं मधुश्वभ्रनिबन्धनम् । भक्षितः प्राणनाशाय कालकूटकणोऽपि हि ॥
[६९०] मधुनोऽपि हि माधुर्यमबौधेरहहोच्यते । आसाद्यन्ते यदा स्वादाच्चिरं नरकवेदनाः ॥
[६९१] माक्षकामुखनिष्ठ्यूतं जन्तुघाताद्भवं मधु । अहो पवित्रं मन्वाना देवस्नाने प्रयुञ्जन्ते ॥ इति मधुदोषाः। [६९२] $497 ) उदुम्बरवटप्लक्षकाकोदुम्बरशाखिनाम् । पिप्पलस्य च नाश्नीयात् फलं कृमिकुलाकुलम् ।।
[६९३] अप्राप्नुवन्नन्यभक्ष्यमपि क्षामो बुभुक्षया । न भक्षयति पुण्यात्मा पञ्चोदुम्बरजं फलम् ॥
[६९४] आर्द्रः कन्दः समग्रोऽपि सर्वः किशलयोऽपि च । स्नुही लवणवृक्षत्वक् कुमारी गिरिकर्णिका ॥
[६९५] शतावरी विरूढा निगुडूची कोमलाम्लिका । पल्यङ्कोऽमृतवल्ली च वल्लः शूकरसंज्ञकः ॥
[६९६] अनन्तकायाः सूत्रोक्ता अपरेऽपि कृपापरैः।। मिथ्यादृशामविज्ञाता वर्जनीया प्रयत्नतः॥ इति अनंतकायविचारः। [६९७] 8498) स्वयं परेण वा ज्ञातं फलमद्याद्विशारदः। निषिद्धे विषफले वा मा भूदस्य प्रवर्त्तनम् ॥ इति अज्ञातफलनिषेधः। [६९८ ] 8499) अन्नं प्रेतपिशाचाद्यैः संचरद्भिनिरङ्कशैः। उच्छिष्टं क्रियते यत्र तत्र नाद्यादिनात्यये ॥
[६९९] घोरान्धकाररुद्धाक्षैः पतन्तो यत्र जन्तवः।। नैव भोज्ये निरीक्ष्यन्ते तत्र भुञ्जीत को निशि ॥
[७००]
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/6b560014160d248b1acc2100f6a9a3541a9bbe054af50b69df3f690cce05493d.jpg)
Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372