Book Title: Shadavashyaka Banav Bodh Vrutti
Author(s): Prabodh Bechardas Pandit
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 308
________________ ९४२-९४९] श्रीतरुणप्रभाचार्यकृत २३३ पराहतस्य तस्यासौ बलिराजस्य हुद्रथः । कल्पारामेऽर्हतां धर्मे भ्राम्यन् स्खलति नात्र यः ॥ २९ ॥ [९४२] कलौ कल्पादि वैकल्ये औदार्यं तन्न किं महत् । करे पद्माकरे यस्य, कुवलयं वलयं च यत् ॥ ३० ॥ [९४३] सतीर्थेशानि तीर्थानि विम्बितानि मनोमणौ । नित्ययात्रोत्सवं यस्य वितन्वन्ति मनीषिणः ॥३१॥ [९४४] उपकृति बलिराजो लेखयामास भासां परिवृढ इव पोढावश्यकीयां सुबोधाम् । । सुविवृतिमिमिकां प्राङ् मच्छकाशात्स्वयं च स्वपरनरहितार्थं पुस्तके लीलिखच्च ॥ ३२ ॥ [९४५] 10 भरतमिवखडं शं त्रायमाणोऽङ्गिकार्य त्रिदशदशताक्षैःश्लाध्यमानाय॑धामा । चरमजिनवरश्रीशासनं सार्वभौम प्रभवति भुवि यावत्तावदेषा सुवृत्तिः ॥ ३३॥ 8633) संवत् १४११ वर्षे दीपोत्सवदिवसे शनिवारे श्रीमदणहिलपत्तने महाराजाधिराज 1 पातसाहि श्रीपिरोजसाहि विजयराज्ये प्रवर्त्तमाने श्रीचन्द्रगच्छालंकार श्रखरतरगच्छाधिपति श्रीजिनचंद्रसूरिशिष्यलेश श्रीतरुणप्रभसूरिभिः श्रीमंत्रिदलीयवंशावतंस ठक्कुर चाहडसुत परमार्हत ठक्कुर विजयसिंहसुत श्रीजिनशासनप्रभावक श्रीदेवगुर्वाज्ञाचिंतामणिविभूषितमस्तक श्रीजिनधर्मकाचकपूरपूरसुरभितसप्तधातुपरमार्हत ठक्कुर बलिराजकृत गाढाभ्यर्थनया षडावश्यकवृत्तिः सुगमा बालावबोधकारिणी सकलसत्त्वोपकारिणी लिखिता ॥ शुभमस्तु ॥ अनुष्टुभां सहस्राणि सप्तान्वक्षरसख्यया । ज्ञेयानि विद्वतावत्र साधिकानि मनीषिभिः । [९४७] ॥ संवत् १४१२ वर्षे चैत्र शुदि ९ शुक्रे श्रीमदणहिल्लपत्तने श्रीगच्छराज श्रीखरतरगच्छे श्रीषडा. वश्यकवृत्ति लिखिता पं० महिपाकेन ! यादृशं पुस्तके दृष्टं तादृशं लिखितं मया। यदि शुद्धमशुद्धं वा मम दोषो न दीयते ॥ [९४८] भग्नपृष्ठिकटिग्रीवा ऊर्ध्वदृष्टिरधोमुखी। कष्टेन लिखितं शास्त्रं यत्नेन परिपालयेत् ॥ [९४९] शिवमस्तु ॥ भद्रं भवतु ॥ समस्त श्रीसाधु श्रीसमुदायस्य ॥ आचन्द्रार्क नन्दतु ॥ 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372