Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 10
________________ शासनसमा - स्तवनम् शासनसम्राड् ! जय जय ! सूरिमुख्य हे ! जय जय ! तव गुणगौरवगाथागानं, गाने निपुणा गायन्त्यनिशम् । निशादिवं वाञ्छामि पदयुगं, युगप्रधानकल्पस्य च तेऽहम् ॥ १ ॥ आ. विजयशीलचन्द्रसूरि : अहमपि गुरुवर ! लग्नश्चरणे, चरणाकाङ्क्षी सेवककल्पः । कल्पद्रुम इव फलतु कृपा तव, तव सेवां वितनुष्व कृपाकर! ॥२॥ करकमलं ते यच्छीर्षोपरि, परितः पतति, स पुण्यधनेशः । नेशोऽस्म्यहकं द्रष्टुं साक्षात्, साक्षोऽप्यस्मि निरक्ष इवाऽहो ! ॥३॥ अहो ! अहो ! गुरुवर इह रम्यो, रम्यचरित्रः परमपवित्रः । वित्रसनं ये धर्मविरुद्धा, रुद्धाः पापैस्तेषामेषः ॥ ४ ॥ एष एव शासनहितकारी, कारी सर्वसुखानां सुगुरुः । गुरुवि देवो गुरुरथ ज्ञानी, ज्ञानिजनेषु खलूत्कृष्टोऽयम् ॥५॥ अयं चैव सूरीणां चक्रे, चक्रे चक्रित्वं गुरुराजः । राजराज इव साधुसमुदये, उदयन्निव ननु प्राच्यां सूर्यः ॥६॥ सूर्योदयसूरीणां हि शिशुः, शिशुरिव शीलेन्दुः स्तौत्येवम् । एवमेव मम सिध्यति कार्यं, कार्याकार्यविवेक पवित्रम् ॥७॥ १

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90