Page #1
--------------------------------------------------------------------------
________________
YKC
UPTA
शासनसम्राजामिह समुदाये मेरुपर्वतौपम्ये । कल्पतरुनन्दनवन-सत्कोऽयं नन्दतात् सुचिरम् ।।
नन्दनवनकल्पतरुः ४१
वि.सं. २०७५ दक्षिणायनम्
सङ्कलनम् : कीर्तित्रयी
Page #2
--------------------------------------------------------------------------
________________
नन्दनवनकल्पतरूः ४१
शासनसम्राजामिह समुदाये मेरुपर्वतौपम्ये । कल्पतरुनन्दनवन-सत्कोऽयं नन्दतात् सुचिरम् ॥
वि.सं. २०७५ दक्षिणायनम्
सङ्कलनम् : कीर्तित्रयी
Page #3
--------------------------------------------------------------------------
________________
नन्दनवनकल्पतरु: ४१
सङ्कलनम् : कीर्तित्रयी ॥
प्रकाशनम् : श्रीजैनग्रन्थप्रकाशनसमितिः, खंभात ॥
वि.सं. २०७५, ई.सं. २०१८
मूल्यम् : रू. १२०/
अस्मिन् जालपुटेऽपि उपलभ्यते
email :
nandanavanakalpataru99@gmail.com
प्राप्तिस्थानम् : (१) श्रीविजयनेमिसूरीश्वरजी स्वाध्याय मंदिर
१२, भगतबाग, शेठ आणंदजी कल्याणजीनी पेढी समीप,
पालडी, अमदावाद
380007
दूरभाष: 079-26622465, 09408637714
-
(२) श्रीविजयनेमिसूरीज्ञानशाला
शासनसम्राट् भवन, त्रीजो माळ, शेठ हठीसिंह केसरीसिंहनी वाडी, दिल्ली दरवाजा बहार, शाहीबाग रोड, अमदावाद 380004 फोन : 079-22168554
मुद्रणम् : क्रिष्ना ग्राफिक्स
सम्पर्कसूत्रम् : "विजयशीलचन्द्रसूरिः"
C/o. Atul H. Kapadia
A-9, Jagruti Flats, Behind Mahavir Tower,
Paldi, Ahmedabad-380007
दूरभाष : 079-26574981
M. 9979852135
नारणपुरा जूना गाम, अमदावाद - ३८००१३ दूरभाष : 09898659902
Page #4
--------------------------------------------------------------------------
________________
प्रास्ताविकम् ......
"
एक लोककथा श्रूयताम् एक: कश्चन वृद्धजनः पर्वतोपरि शैत्यस्योष्मणो वा चिन्तामकृत्वा, पृथ्वीमेवाऽऽस्तरणं कृत्वाऽऽकाशं चाऽऽच्छादनं कृत्वा स्वपिति स्म । एतद् दृष्ट्वा ईसुस्तं पृष्टवान् 'भोः ! किमर्थमेवं सुप्तोऽसि त्वम् । किञ्चन लघु गृहं निर्माय तस्मिन् वस" । तेनोक्तं – "प्रभो ! भवतः पूर्वं प्रकटितेनेश्वरेण मम कथितमासीद् यत् - तवाऽऽयुष्यं केवलं सप्तशतवर्षमितमेवाऽस्ति इति । एतावत्यल्पायुषि मम गृहनिर्माणं तत्र च वसनमुचितं नैव प्रतिभाति" ।
एषा लोककथा किलाऽन्याय्यमार्गेण धनं संगृह्य विदेशेषु पलायितेभ्यः भारतीय श्रेष्ठिवर्ये (?) भ्यः, भ्रष्टाचारमाचरद्भ्यो नेतृभ्यः, धर्ममार्गाच्च्युतेभ्यश्च धर्मगुरु ( ? ) भ्य: समर्प्यते ।
सर्वेषामप्येतेषां द्वावेव वस्तुनी पीडयतः - लोभो विषयलालसा च । यद्यपि तेषां बुद्धिर्विवेको वा नाऽस्तीति अल्पौ वा स्तः इति न, किन्तु तत्सर्वमपि पृष्ठतः कृत्वाऽग्रे आगच्छति तत्त्वमेकम् । तदस्त्यप्रामाणिकता । ते ह्येतन्नाऽवबुध्यन्ते यत् प्रामाणिकतायां या शान्तिरस्ति साऽप्रामाणिकतायां कदाऽपि नास्ति ।
I
एतादृशि कार्याणि कुर्वन्तो जनाः प्रायो लोभग्रस्ता भवन्ति । लोभश्चाऽस्माकं समाजे पापतया नैव परिगण्यते । एतादृशो जनान् निन्दन्ती जनताऽप्यन्याय्येन पथाऽऽगतं धनं नैव जुगुप्सते । सामान्यतो जनानां भ्रष्टाचारेणाऽऽगतस्य धनस्याऽऽकर्षणं भवत्येव ।
अस्माकं शिक्षणं यद्यस्माकं नीतियुक्तं न करोति, प्रामाणिकतायामेव सुख- शान्ती तिष्ठत इति बोधयितुं न समर्थीभवति तदा तादृशेन शिक्षणेन किम् ? किं नीतिमत्ता तथा कठिना यद् वयं ततो दूरमेव तिष्ठामः ? अन्याय्येन पथा लब्धं धनं पापमेव कारयति पोषयति च । किमेतदपि शिक्षितुं भारतीयैर्जनैर्गुरोः सकाशे उपदेशाः श्रोतव्या वा ? अस्माकं संस्कृतेर्यशोगानं कुर्वाणास्तस्याः सकाशान्न काऽपि संस्कृतिः श्रेष्ठा - इति च सडिण्डिमघोषं प्रख्यापयन्तो वयं प्रामाणिकताया नीतेश्च विषये इयन्तो लघवः कथमिव सञ्जाताः स्मः ?
3
Page #5
--------------------------------------------------------------------------
________________
यस्मिन् देशे सर्वेषामपि मतानां विविधानि धर्मस्थानानि जगतोऽप्यधिकानि तत्रैतादृशी परिस्थितिः? कदाचिदेवमपि स्यात् - भ्रष्टाचारस्येयत्यधिका मात्राऽस्माकं देशेऽस्तीति तत उत्पन्नस्य पापस्य भयाद् धर्मस्थानानामपि सङ्ख्या वर्धतेतराम् ॥ । प्रथमं भ्रष्टाचारेणाऽन्याय्यं धनं प्राप्तव्यं, ततश्च तेन धनेन धर्मस्थानानि निर्माय तत्र पूजा-पाठादिकं कर्तव्यमिति हि मानसिकता जनताया हृदयतले निविष्टेति स्पष्टमेव विलोक्यते ।
"वयं यानि कानिचिदपि पापान्याचरेम चेदपि तानि धर्मकार्येषु धनव्ययेन क्षालितानि भविष्यन्ती"ति हि जना अद्यत्वे निश्चप्रचं मन्यन्ते तदनुगुणं चाऽऽचरणमपि कुर्वन्ति । ततश्चैते एव जनाः समग्रेऽपि देशे प्रसृतस्य भ्रष्टाचारस्य विषये विस्तृतां चर्चा कुर्वन्ति, तदर्थं च नेतन् मन्त्रिणः सांसदांश्च तथा सर्वकारीयानधिकारिणः कर्मचारिणश्चैवाऽपराधिनो मन्वानाः स्वयं च निर्दोषा एवेति मन्यमानाः ससन्तोषं स्वपन्ति ।
किन्तु भ्रष्टाः प्रजाः किं कदाऽप्यभ्रष्टनेतृनुपलभेरन् वा ? अभ्रष्टप्रजातो वा कदाऽपि भ्रष्टा नेतारो जायेरन् वा ? यावन्नागरिका वयं स्वयं भ्रष्टाचारं प्रति, अनीति प्रति, अप्रामाणिकतां च प्रति जागरिता न भविष्यामस्तावदस्माभिः सर्वैरपि विजयमाल्या-नीरवमोदीप्रमुखानां भ्रष्टाचारा विना प्रतिकारं सोढव्या एव। किं वयं जागरिष्यामः ? नूतनवर्षदिनम् वि.सं. २०७५
कीर्तित्रयी वापीनगरम्
Page #6
--------------------------------------------------------------------------
________________
आर्थिकसौजन्यम् नन्दनवनकल्पतरोः एकचत्वारिंश्याः शाखायाः प्रकाशनार्थं
शासनसम्राट्-समुदायवर्तिन्याः साध्वीश्रीधृतियशाश्रियः सत्प्रेरणया मुलुण्ड(मुम्बाई)स्थ-गोवर्धन-वीणानगरजैनसकेन आर्थिकः सहयोगः कृतोऽस्ति ।
___एतदर्थं बहुशो धन्यवादाः ॥
Page #7
--------------------------------------------------------------------------
________________
विद्वज्जनेषु विज्ञप्तिः
अयि संस्कृत-प्राकृतभाषाविदो विद्वन्मूर्धन्याः ! अयं खलु वैक्रमः संवत्सरः (२०७५तमः) प्राकृतभाषाविशारदानां पूज्याचार्यवरेण्यानां श्रीमद्विजयकस्तूरसूरीश्वराणां दीक्षाशतीसंवत्सरः । अवसरमेनं महानन्दकारिणमुपलक्ष्य नन्दनवनकल्पतरोरागामिनी (४२तमी) शाखा आचार्य - विजयकस्तूरसूरि-विशेषाङ्कत्वेन प्राकाश्यं नेष्यते । एतदर्थं तत्रभवन्तो भवन्तो तदनुरूपं साहित्यं स्रष्टुं प्रेषयितुं च विज्ञप्यन्ते । कृपया ३१-१-२०१९तमदिनाङ्कात् पूर्वं भवतः साहित्यं प्रेषणीयम् ।
कीर्तित्रयी
6
Page #8
--------------------------------------------------------------------------
________________
अनुक्रमः
कृतिः
कर्ता
पृष्ठम्
शासनसम्राट्-स्तवनम्
आ. विजयशीलचन्द्रसूरिः
गीतिका अवतारयिष्यति शारदा जलदाह्वानम् वास्तवं सुखम् संस्कृतं विज्ञानं च ताम्बूलम् काव्यविमर्शः संस्कृतं सर्वतोभद्रम्
प्रा. अभिराजराजेन्द्रमिश्रः प्रा. अभिराजराजेन्द्रमिश्रः स्व. आ.श्रीविजयधर्मधुरन्धरसूरयः डो. गदाधरः त्रिपाठी डॉ. गदाधरः त्रिपाठी स्व. आ.श्रीविजयधर्मधुरन्धरसूरयः । श्री के. ए. रामलिङ्गशास्त्री
मुनिरम्याङ्गरत्नविजयः मुनिरम्याङ्गरत्नविजयः
जीवनमौक्तिकम् परमगहनरूपं परमात्मतत्त्वम् महान्तो हि विश्वोपकृत्यै यतन्ते क्रूरतमः कः? हिटलरः स्तालिनः माओ वा ? भगवता सह संवादः
कल्याणकीर्तिविजयः कल्याणकीर्तिविजयः
रङ्गमञ्चः विजेतुर्व्यथा
डो. कान्ति गोरः 'कारणः'
सत्यप्रसङ्गः एकस्या रात्रेनिद्रा
कल्याणकीर्तिविजयः
Page #9
--------------------------------------------------------------------------
________________
कथा संस्कारप्रपा सत्प्रेरणम् लघुकथाद्वयम् कस्य दोषः ? अवसरस्य मूल्यम् ध्यानम् को निर्भयः ? आत्मदीपको भव
मुनिः अक्षयरत्नविजयः मुनिश्रुताङ्गचन्द्रविजयः मुनिनेमिहंसविजयः सा. हंसलेखाश्रीः सा. तत्त्वनन्दिताश्रीः सा. तत्त्वनन्दिताश्रीः सा. जयनन्दिताश्रीः सा. संवेगरसाश्रीः
पत्रम्
पू. आ. विजयलावण्यसूरयः
मर्म नर्म
कीर्तित्रयी
प्राकृतविभागः प्राकृतव्याश्रयमहाकाव्यस्य संस्कृतानुसर्जनम् पाइयविन्नाणकहा
पं. नरेन्द्रचन्द्र-झा आ. विजयकस्तूरसूरीश्वराः
CO
Page #10
--------------------------------------------------------------------------
________________
शासनसमा - स्तवनम्
शासनसम्राड् ! जय जय ! सूरिमुख्य हे ! जय जय !
तव गुणगौरवगाथागानं, गाने निपुणा गायन्त्यनिशम् । निशादिवं वाञ्छामि पदयुगं, युगप्रधानकल्पस्य च तेऽहम् ॥ १ ॥
आ. विजयशीलचन्द्रसूरि :
अहमपि गुरुवर ! लग्नश्चरणे, चरणाकाङ्क्षी सेवककल्पः । कल्पद्रुम इव फलतु कृपा तव, तव सेवां वितनुष्व कृपाकर! ॥२॥ करकमलं ते यच्छीर्षोपरि, परितः पतति, स पुण्यधनेशः । नेशोऽस्म्यहकं द्रष्टुं साक्षात्, साक्षोऽप्यस्मि निरक्ष इवाऽहो ! ॥३॥ अहो ! अहो ! गुरुवर इह रम्यो, रम्यचरित्रः परमपवित्रः । वित्रसनं ये धर्मविरुद्धा, रुद्धाः पापैस्तेषामेषः ॥ ४ ॥
एष एव शासनहितकारी, कारी सर्वसुखानां सुगुरुः । गुरुवि देवो गुरुरथ ज्ञानी, ज्ञानिजनेषु खलूत्कृष्टोऽयम् ॥५॥ अयं चैव सूरीणां चक्रे, चक्रे चक्रित्वं गुरुराजः । राजराज इव साधुसमुदये, उदयन्निव ननु प्राच्यां सूर्यः ॥६॥
सूर्योदयसूरीणां हि शिशुः, शिशुरिव शीलेन्दुः स्तौत्येवम् । एवमेव मम सिध्यति कार्यं, कार्याकार्यविवेक पवित्रम् ॥७॥
१
Page #11
--------------------------------------------------------------------------
________________
गीतिका
अवतारयिष्यति शारदा
प्रा. अभिराजराजेन्द्रमिश्रः
लोके यदा रघुनाथसदृशो नृमणिरधुना जायते वाल्मीकिमपि सुकविं कमप्यवतारयिष्यति शारदा ॥१॥ यदि भारते भूयो भवन्ति शकारिविक्रमभूभुजः तत्कीर्तिगायनकालिदासमपि स्मरिष्यति शारदा ॥२॥ चैनं त्रिविष्टपहंसमानसशम्भुगिरिचमरीचयम् तज्जातु निखिलं भारतीयं घोषयिष्यति शारदा ॥३॥ वैभवविलासमहीधरे विलसन्तु कामं भूमयः देशे नु निर्गङ्गे क्षणं स्थास्यति न चेयं शारदा ॥४॥ कुर्वन्तु कामं दिग्जयं तास्ता असंस्कृता भाषाः आकल्पमिह रंस्यति परं सुरभारतीयं शारदा ॥५॥ नैवाऽभिराजो वेत्ति यद्यत्नश्रुताभ्यां सेविता किं किं मया लोकोत्तरं ननु कारयिष्यति शारदा ॥६॥ अरविन्दमणिरसराजराजकुमारशिष्यगणैर्नु तम् अभिनवमहामाहेश्वरं मामपि विधास्यति शारदा ॥७॥ या नैव कथमपि शुष्यति प्लुष्टा विनशने मारवे स्रक्ष्यति मदीयमसीमुखेन सरस्वतीं तां शारदा ॥८॥ सत्कविसुलभसुयशो नु मह्यं प्रददती सा वत्सला मत्काव्यसर्जनया स्वरूपं रूपयिष्यति शारदा ॥९॥
सनराईज विला (समीप वरिष्ठ माध्यमिक विद्यालय),
लोअर समरहिल, शिमला-१७१००५ (हि.प्र.)
Page #12
--------------------------------------------------------------------------
________________
गीतिका
जलदाह्वानम्
प्रा. अभिराजराजेन्द्रमिश्रः
एहि, देहि जलद! जलं भूतलं विधेहि कलं गर्ज गर्ज, बूंह बूंह, यशो वर्धताम् ॥१॥ धाव धाव गगनशाव ! कुलिशपातघोरराव ! शतक्रतुमहाप्रभाव ! जगन्मोदताम् ॥२॥
ज्चलति धराउनलम्परा दावदग्धवनान्तरा सरल-देवदारुवनी नाऽवशिष्यते ॥३॥ उद्वमत्कूशानुभानुभानुसञ्चयैरयं नु
दह्यमानलोक एष भृशं तप्यते ॥४॥ कृपवापिकाकथाऽपि नामशेषतां गताऽस्ति भूरिसैकताऽवलोक्यते बृहन्नदी ॥५॥ विवृतचञ्चुचातकः प्रशुष्ककण्ठकाः पिकाः तृषार्दिता द्रवन्ति वन्यजातकास्त्वमी ॥६॥
विचर विचर गगनचर ! त्वं भवाऽतपत्रमुपरि रुष्टतरणितापमहो शमय शमय बन्धो !! ॥७॥
Page #13
--------------------------------------------------------------------------
________________
घनध्वानसहितसततवर्षणं प्रयच्छ रक्ष ! भृज्यमानजनकदम्बकं दवैकसिन्धो ! ॥८॥
कामरूप सौख्यदूत !
भूमिभूसुताऽक्षिपूत !
हेऽपराञ्जनेय ! सत्वरं हराऽधिमानम् ॥९॥ बिभूहि बिभूहि रिक्तगर्त -
मुन्नमय जगद्विवर्त
माशु चण्ड ! खण्डयाऽर्क ! वृथा दुरभिमानम् ॥१०॥ दिशस्तृषाकातराः
भवन्ति रुधिरसागराः
वमन्ति तच्च कुसुमचयैः किंशुकाननानि ॥११॥ अन्तरिक्षमप्यहो
व्यनक्ति रोषमुद्ग्रहो
विधाय चक्रवातमण्डलानि चित्रकाणि ॥१२॥
अङ्गमे बङ्ग
तमिल केरलान्ध्रमेहि
गुर्जरं त्रिलिङ्गमेहि विन्ध्यमेहि शीघ्रम् ॥ १३ ॥ प्रतिग्राममेहि जलद !
पुरं पुरं सुखय सुखद !
रमय पशुविहङ्गनिचयमङ्कुरय शिलीन्ध्रम् ॥१४॥ प्रावृषेण्य हे वरेण्य !
विद्युतां सुभागधेय !
शीतलय वसुन्धरां विधेहि हरितशाटीम् ॥ १५ ॥ आनन्दय भेकशिशून्
आह्लादय लोलवटून्
विद्योतय दामिनीं विकासयाऽऽम्रवाटीम् ॥ १६॥
४
सनराईज विला (समीप वरिष्ठ माध्यमिक विद्यालय), लोअर रामरहिल, शिमला - १७१००५ (हि.प्र.)
Page #14
--------------------------------------------------------------------------
________________
वास्तवं सुखम्
स्व. आ. श्रीविजयधर्मधुरन्धरसूरयः
अहूँ ध्यात्वा प्रणम्याऽहम् अहूँ स्मृत्वा पुनः पुनः । अर्हन्तं प्रार्थये कामं अर्हलेवार्हतेऽर्हते ॥१॥ प्रार्थना कस्य कर्तव्या ? कर्तव्या केन प्रार्थना ? । प्रार्थनायां निवेद्यं किं ? तदर्थमपि प्रार्थये ॥२॥ शर्मणः प्रार्थना कार्या शर्मार्थिना हि प्रार्थ्यते । प्रार्थनायां निवेद्यं तत् प्रार्थना येन संभवेत् ॥३॥ शर्म किं तदपि ज्ञेयं द्विविधं तत् विभाव्यताम् । बाह्यं तथाऽऽन्तरं शुद्धं बाह्यं पौद्गलिकं मुधा ॥४॥ सुखं बाह्यं परायत्तं दुःखमिश्रं च भगुरम् । काल्पनिकं तथा तल वास्तवमिति गीयते ॥५॥ अनादिकालसंस्कारात् तत्रैव रज्यते जनैः । तदेव चिन्त्यते बाढं तदर्थमेव यत्यते ॥६॥ आन्तरं शर्म वक्तव्यमग्रतस्तदपेक्षया । बाहमिदं भवेद् बाह्यं वोढव्यं भारवन्मुधा ॥७॥ नाऽवाप्यते तदा यस्मिन् काले हि यदपेक्ष्यते । नाऽपेक्ष्यते तदायाति पायत्तं ततश्च तत् ॥८॥ बिन्दुमात्रसुखार्थं यद् दुःखं समनुभूयते । अमितं तत् ततो ज्ञेयं दुःखमिश्रमिदं सदा ॥॥ यत्यते शर्मणे यावत् तावत्कालमपीश्वरम् । नेदं स्थातुं क्षणस्थायि भङ्गुरं क्षणभङ्गुरम् ॥१०॥
Page #15
--------------------------------------------------------------------------
________________
दृश्यते दुःखरूपं यद् दृष्ट्या वास्तवरूपया । मोहमूढैस्तदेवेदं सुखरूपेण कल्प्यते ॥ ११ ॥ आत्मना मोहसंस्कारात् सुखात्मना प्रवेद्यते । अत एव सुखं बाह्यं कथ्यते नैव वास्तवम् ॥१२॥ स्वाधीनं शाश्वतं शुद्धं वास्तवं केवलं परम् । कल्पनातीतमत्यन्तं सुखं विज्ञेयमान्तरम् ॥१३॥ यत्र कुत्राऽपि शुद्धात्माऽनुभवति सुखं सुखम् । न च तत्र परापेक्षा स्वाधीनं तत् ततो मतम् ॥ १४ ॥ कालातीतं सदा कालं तिष्ठति नैव नश्यति । सुखमाभ्यन्तरं तेन शाश्वतमिति गीयते ॥ १५ ॥ सुखं दुःखेन सम्मिश्रं विश्वे सर्वत्र दृश्यते । परं यदात्मनः शर्म शुद्धं दुःखलवायुतम् ॥१६॥ सांसारिकं सुखं प्रायः दुःखं तेन न वास्तवम् । आत्मसुखं सुखं सत्यं वास्तवं वास्तवं मतम् ॥ १७ ॥ विश्वे सुखमपूर्णं हि पूर्णं दृष्टं न च क्वचित् । सम्पूर्णं यत् सुखं तद्धि केवलं केवलात्मनः ॥१८॥ देहादिशर्म सुज्ञानां कल्पनाविषयं मतम् । शुद्धात्मनः सुखं नैव कल्प्यते कल्पनापरम् ॥ १९॥ अमितं भूभृता तुल्यं बाह्यं सुखं विनश्यति । अभ्यन्तरस्य नाऽस्त्यन्तः तेनाऽत्यन्तं तदुच्यते ॥२०॥ इत्थमभ्यर्थनीयं सत् सुखं सुखार्थिना मुहुः । सुखार्थिता समुत्पाद्या यत्नतः सुखमिच्छता ॥२१॥ सर्वे सुखार्थिनो लोके लोक्यन्ते चेतना जनाः । परं सुखार्थिना नैव सुखाज्ञानविमोहिताः ॥२२॥ दुःखात्मकं सुखं यत् तत् त्याज्यं सुखार्थिना स्वयम् । अथवा त्यजनीयं तन्मननीयं दृढं हृदि ॥२३॥ सुखार्थित्वस्य चेद् वाञ्छा धार्यं लक्षणपञ्चकम् । वाञ्छा न चेत् सुखार्थित्वे आस्तां लक्षणपञ्चकम् ॥ २४ ॥
६
Page #16
--------------------------------------------------------------------------
________________
शम-संवेग-निर्वेदानुकम्पास्तिक्यलक्षणम् । सुखार्थिनो विशुद्धस्य ज्ञेयं लक्षणपञ्चकम् ॥२५॥ शमः शान्तिः कषायाणां मन्दभावश्च कथ्यते । तेनाऽपकारिणोऽऽप्यात्मा हितं चिन्तयति हृदि ॥२६॥ सुखं निःश्रेयसे शुद्धं नाऽन्यत्र क्वचिदीक्ष्यते । तदेवाऽऽकाक्ष्यते येन संवेगः स उदीरितः ॥२७॥ संसारो नरकागारकारागारसमो मतः । हेयस्ततो यतो ज्ञातः स निर्वेदः सतां मतः ॥२८॥ जीवाः सर्वेऽपि दुःखार्ता दुःखमिच्छन्ति नांऽशतः । तद्दुःखवारणोत्कण्ठाऽनुकम्पा देश-सर्वतः ॥२९॥ वीतरागेण सर्वज्ञभगवतार्हता हितम् । उक्तमेव भवेत् सत्यमास्तिक्यं सदिरादृतम् ॥३०॥
Page #17
--------------------------------------------------------------------------
________________
संस्कृतं विज्ञानञ्च
डो. गदाधरः त्रिपाठी
प्राचीना संस्कृतभाषा नाऽन्या काऽपि वर्तते । विज्ञानञ्च यथा ज्ञानं नाऽन्यत् किमपि दृश्यते ॥१॥ तान्वितञ्च प्रत्यक्षं ज्ञानं विज्ञानसम्मतम् । तपस्यया हि ऋषिभिः प्राक् चैतन्यं प्रत्यक्षीकृतम् ॥२॥ पञ्चीकरणस्य सिद्धान्तः खलु वेदान्ते यो निरुपितः । सिद्धान्तोऽयं संस्कृतभाषाया अस्ति विज्ञानसम्मतः ॥३॥ गतिः सूर्यस्य चन्द्रस्य स्वीकूता या विज्ञानवादिभिः । सा चैव संस्कृतभाषायां प्रागेवाऽऽसीन्निरूपिता ॥४॥ ऋतोः परिवर्तनं यच्च वर्षायाश्चोद्घोषणा। चन्द्रसूर्ययोः ग्रहणसमयं पूर्व एवोद्घोषितम् ॥५॥ विवाहसमये वरकन्ययोर्भवति जन्माङ्कमेलनम् । नाड्या मेलनं यच्च तच्च रक्तस्याऽस्ति च शोधनम् ॥६॥ पर्वतेषु नदीषु चैव वृक्षेष्वपि देवदर्शनम् । पर्यावरणरक्षाय संकेतोऽयं कूतो हि वै ॥७॥ तुलस्याः पूजनश्चैवाऽम्लकवृक्षस्य सेचनम् । सङ्केतेनाऽनेनौवोषधीनां भवति रक्षणम् ॥८॥ मन्दिरघण्टानादैश्च शानां ध्वनिभिस्तथा । सुरक्षितं पर्यावरणमित्यपि लिखितं संस्कृते ॥॥ सर्वं सुचिन्तितमस्ति हि विज्ञानदृष्ट्या विवेचनम् । दौर्भाग्यादद्याऽस्माभिः संस्कृतभाषा तूपेक्षिता ॥१०॥
Page #18
--------------------------------------------------------------------------
________________
ताम्बूलम्
प्रकृत्या वै यत् प्राप्तमस्ति मङ्गलमद्भुतं तथा । ताम्बूलं तेषु विशिष्टं हि शृङ्गारसाधनं परम् ॥१॥ वेदेषु पुराणेषु पूजनमन्त्रेष्वादितः । वात्स्यायनकामसूत्रे चोल्लेखोऽस्य वर्तते ॥२॥ मलयद्वीपादागतमस्ति वै कथयन्ति केचिज्जनाः । प्रसिद्धं ताम्बूल - चेटिलाई - नागरबेलनामभिः ॥३॥ पूगीफलैर्लवङ्गैश्च श्वेतद्रव्यैश्च संयुतम् । कर्पूरशोभितञ्चैव शृङ्गारे रुचिकरं तथा ॥४॥
बङ्गला-मगही-सांच-कपूरी-देशा-वर्यादिभिः । नामभिस्ताम्बूलं ज्ञेयं ह्याहारस्य च पाचकम् ॥ चरक संहितायां लिखितमस्त्योषधिगुणसमन्वितम् । धर्मस्यैश्वर्यस्य चाऽस्ति वैराग्यस्य च साधकम् ॥ प्रसिद्धं ताम्बूलमासीद् वाराणस्या ह्यादितः । प्रचलनं ताम्बूलस्य वर्मादेशे सिंहले तथा ॥ युद्धस्याऽऽवाहनमभवद् वै प्रेम्णश्च प्रदर्शनम् । ताम्बूलेनाऽभवत् प्रागासीदियञ्च परम्परा ॥
९
डो. गदाधरः त्रिपाठी
पुरानी बैलाई, मआनीपुर (झांसी) - २८४२०४ दूरभाष - ९४५०१ २३७३२
Page #19
--------------------------------------------------------------------------
________________
काव्यविमर्श:
स्व. आ. विजयधर्मधुरन्धरसूरयः
नमदमररमणिरत्ने, दर्पणविमले मरीचिपरिकीर्णे । मुक्तविकरणोऽप्यर्हन्, बिम्बव्याजादनेकरूपोऽभूत् ॥ १ ॥ काव्यविमर्शं कर्तुं, समुत्सुकोऽस्म्यहमहो रसं वेत्तुम् । अल्पर्द्धिरपि कदाचित्, किं न करोत्यशनमुदितरसम् ॥२॥ रचनं काव्यस्याऽन्यच्चाऽन्यत्तद्रसविमर्शनं सम्यक् । अन्यत् फलप्रसूतिस्तत्सद्रसपरिचयोऽप्यन्यत् ॥३॥ केचन रसवत् काव्यं कथयन्त्यपरे ध्वनिप्रकृष्टं तत् । उत्तमशब्दार्थान्वितमन्येऽन्ये तच्च रमणीयम् ॥४॥ वक्रोक्त्या संवलितं, ललितमतिशयोक्ति लाञ्छितं भव्यम् । एवं काव्यविमर्श, लक्षणकरणे पथो नैकः ॥५॥ अस्माकं तत्सर्वं, सापेक्षतयाऽस्ति सङ्गतं काव्यम् । यस्माद्रुचिर्जनानां, नानाविधतामधिश्रयति ॥६॥ ग्राम्याणां यद्रुचिरं रुचिरं तन्नो नगरनिवासानाम् । नागरिकाणां यत् सद्, ग्राम्याणां तन्न रम्यं स्यात् ॥७॥ सत्यप्येवमनास्था, नैव विधेयाऽत्र काव्यलक्षणके । सहृदयहृदयं कर्षति, यत् तत् काव्यं सदा भाव्यम् ॥८॥ एतादृग् यदि काव्यं कर्तुमभीप्ससि तदा शृणु प्रथमम् । भावं स्पष्टमदुष्टं विधीयतामात्मनीनं च ॥९॥ तद्भावाभिव्यक्त्यै, शब्दनिवेशस्तथा पुरस्क्रियताम् । जनयेद्यथा च बिम्ब, वाचकहृदयेऽर्थबोधकरम् ॥ १० ॥
१०
Page #20
--------------------------------------------------------------------------
________________
शब्दानां सम्पत्तिलक्षणशुद्धाऽतुला विधातव्या । अत्यल्पशब्दसम्पत् काव्यं कर्तुं न पुनरीशः ॥११॥ रसगुणदोषादीनां, विशदालङ्काररीतिभेदानाम् । कार्योऽवगमः सम्यग्, यथा भवेत् काव्यमुदितमुदम् ॥१२॥ यद्वर्णनमिष्टं स्यात्तस्य परिचयो यथावदापाद्यः । नो चेद्वक्तव्येऽन्यत्, कथनीयार्थाद्वेद्विरसम् ॥१३॥ उद्देशानुसरणतः, क्रमशो विस्तीर्यते स्वरूपमिह । खलु लिख्यते समूलं, सकलं सज्जनजनानन्दि ॥१४॥ यद्वक्तव्यं काव्ये, तगावः स्पष्टतामथाऽऽनेयः । वोऽस्ति यथा रामस्तथा च तच्चरितमुन्नेयम् ॥१५॥ कीदृक् सोऽभूत्तेन च, किं विहितं यद्धिताय सम्पन्नम् । कस्मिन् समये तस्य, स्थितिरभवत्तदपि निर्णयम् ॥१६॥ नो चेद् यत्तत् काव्ये, यथा तथाऽऽलिख्य रूपयन् विकलः । विरचयतो विघ्नेशं, वानरमाकृतवतस्तुल्यः ॥१७॥ सन्ति शतशः कवीनां, काव्यानि स्व-स्वभावपूर्णानि । श्रीविनयविजयवाचकवरैर्विहितमिन्दुदूतमिव ॥१८॥ वर्णनयोग्यो यः स्यात्तत्सद्वृत्तं निरूप्यमविदुष्टम् । दोषभरैः परिकरितः, काव्ये नो नायकः कार्यः ॥१९॥ काव्यं न केवलान्तः-करणविनोदार्पणेन ललितफलम् । अपि नीति-रीति-सत्स्थिति-बोधनकरणेन पुष्टफलम् ॥२०॥ काव्यानि यानि चित्तं, विदधति कामादिविह्वलं श्रुत्या । काव्यानि नैव तानि, विदूषयन्त्यपि जगल्लोकम् ॥२१॥ क्रियतां तथाऽऽत्मनीनं, काव्यं हृदयङ्गमं यथा प्रभवेत् । भावस्य विस्तरो नो संक्षेपोऽप्यतिविधातव्यः ॥२२॥ माघे शृङ्गारो यद्, विस्तरतामतिशयेन नीतस्तत् । अतिशर्करासमेतं, परमान्नमिवेप्सितं न स्यात् ॥२३॥ अतिसंक्षिप्तं तृप्तिं, जनयति नहि मधुकणमिव मधुरमपि । रामो राजा राज्ञा-माज्ञाप्रज्ञापकः समभूत् ॥२४॥ शोभनभावं ग्रथितुं, शब्दानां सलिवेशनं कार्यम् । प्रतिकृतिकूते यथा ना, सम्यगुपविशति तथैवेदम् ॥२५॥
११
Page #21
--------------------------------------------------------------------------
________________
समुचितशब्दनिवेशं, विना न भावोऽभिरूपतामेति । खड्गाकर्षणसमये, नूपुरझङ्कारसंश्रवणम् ॥२६॥ सम्पत्तिः शब्दानां, यदि न भवेत्तर्हि किं भवेत् काव्यम् ? । सम्पत्तिमन्तरा किं, व्यवसायं कर्तुमीशानः ? ॥२७॥ जीवत्कोशसमानः, कर्ता काव्यस्य राजते शश्वत् । वक्तुं किमप्यभिलषँञ्छतशो भङ्गया निरूपयति ॥२८॥ न्यायोपार्जितवित्तं, न च केनचिदपि विगीयते क्वाऽपि । शब्दधनं खलु तद्वत्, स्याद् व्याकरणेन विमलमलम् ॥२९॥ शब्दाः सुन्दरसरसा, आकृतिवन्तोऽपि लक्षणविरहिताः । लक्षणरहितनरा इव, गुणिजननिकटे न राजन्ते ॥३०॥ व्याकरणदोषदुष्टं, पुष्टमपि व्यथयते तथा काव्यम् । रसभृतभोजनमध्ये, समागतशिलाकणो यद्वत् ॥३१॥ व्याकरणेन विशुद्धं, शब्दधनं द्रष्टुमीहसे चेत्तत् । श्रीहेमचन्द्रसूरेस्त्रिषष्टिमीक्षस्व सूक्ष्मतया ॥३२॥ काव्यं तदपि भवेत् किं, दारिद्र्यं शब्दसम्भवं यस्मिन् ? । राजन् ! मे देहि हितं, भोजनमित्यादिवाक्यमिव ॥ ३३ ॥ काव्यं रसवत् काव्यं, तदन्तरा तन्न भव्यमाभाति । वेत्ति रसं यः स कविः, परे च केवलमुदरभरणाः ॥ ३४ ॥ शृङ्गार- हास्य-करुणा, वीरश्वा - ऽद्भुत भयानकौ रौद्रः । बीभत्सश्च रसः शान्तो, रसा नव रसज्ञसमुपज्ञाः ॥३५॥ भावः स्थायी रसतां, व्रजति विभावानुभावपरिपुष्टः । सञ्चारि भावदीप्यो, हृद्यो रसवेदिभी रसितः ॥ ३६ ॥ रति-हासौ शोकोत्साह-विस्मय-भय- क्रुधो जुगुप्सा च । शम इति नवाऽपि भावा, स्थायिन उक्ता रसाभिज्ञैः ॥३७॥ रससुरपादपजनने, स्थायी भावो भवेत् प्रवरमूलम् । वृष्ट्यादिकसादृश्यं, श्रयन्ति कामं विभावाद्याः ॥३८॥ अवलम्ब्य यं रसो यज्जागर्त्यद्दीपते सरसहृदये । स हि कथ्यते विभावो, द्विधाऽवलम्बस्तथोद्दीपः ॥३९॥ आलम्बनो विभावो, नायकवरनायिकात्मकः काव्ये । नियतो रसोद्भिदेस, नाट्येषु सूत्रधार इव ॥४०॥
१२
Page #22
--------------------------------------------------------------------------
________________
नायकभेदा नैके, नैके भेदाश्च नायिकायाः स्युः । ज्ञेयं स्वरूपमेषां, तत्तद्ग्रन्थाद् यदि बुभुत्सा ॥४१॥ ये ये रसं समुद्दी-पयन्ति चन्द्रद्विरेफ मुख्यास्ते । उद्दीपनकविभावा ह्युद्दीप्तोऽग्निः समुज्ज्वलति ॥४२॥ उद्दीपनप्रकारा भिन्ने भिन्ने रसे पृथग् ज्ञेयाः । एकस्य दीपको यः, शमयति सोऽन्यं रसं यस्मात् ॥ ४३ ॥ अनुभावयन्ति निजनिजहेतुभिरुद्बुद्धमिद्धरसमिह ये । ते ह्यनुभावाः कार्यस्वरूपतामधिगता विविधाः ॥४४॥ अनुभावान्नो भिन्ना, अष्टौ भावाश्च सात्त्विका उक्ताः । भिन्ना अमी च केचन, वदन्ति सत्त्वस्य वैशिष्ट्यात् ॥४५॥ स्तम्भः स्वेदः प्रलयः, स्वरभङ्गो वेपथुश्च रोमाञ्चः । वैवर्ण्यमश्रु चाऽष्टौ, सात्त्विकभावाः स्मृताः कविभिः ॥४६॥ व्यभिचारिणस्त्रयस्त्रिंशच्चरणादाभिमुख्यतो भावाः । उन्मज्जन्ति निमज्जन्ति स्थायिनि सञ्चरणशीलाः ॥४७॥ निर्वेदावेग - श्रम - दैन्य-मद- विबोध - मोह - जडताश्च । स्वप्नोग्रते अलसता, गर्वापस्मार - मरणानि ॥ ४८ ॥ निद्रा - ऽमर्षोत्सुकता - शङ्कोन्मादा विषाद - सन्त्रासौ । व्याधि- स्मृति-मति - हर्षा, लज्जा - ऽसूया - ऽवहित्थाऽपि ॥ ४९ ॥ धृति - चपलता-वितर्का, ग्लानिश्चिन्तेति विश्रुता एते । सन्ति त्र्यधिकास्त्रिंशद्भवा व्यभिचारिणश्विन्त्याः ॥५०॥ भिन्नविभिन्नरसानां, वस्तूनां योजनाद् भिन्नरसम् । पेयं ज्ञेयं तद्वद्, भिन्नैर्भावै रसः स्वाद्यः ॥ ५१ ॥ वर्णैर्विविधैश्चित्रं, चित्तं सद्भूतमद्भुतं हरति । तद्वद्रसोऽपि भावैर्वेद्यान्तरशून्यतामेति ॥५२॥ परमानन्दसरूपः, सुखैकवेद्यो न दुःखसम्पृक्तः । स्वानुभवगोचरोऽयं, रसो न कथमपि वचोवाच्यः ॥५३॥ केचन सुखदुःखात्मक रूपत्वमुदीरयन्ति रसवेद्यम् । शोकाद्याभावा वै, परिपुष्टा दुःखरूपाः स्युः ॥ ५४ ॥ नव्यानां सरणिरियं, तर्कविशुद्धाऽपि भाति नो प्राचाम् । ते हि वदन्ति रसार्कस्तर्कात्तमसः परस्ताद्वै ॥ ५५ ॥
१३
Page #23
--------------------------------------------------------------------------
________________
अत एव हि रसबोधेऽभिधा तथा लक्षणाऽपि नेशाते । एका रसावगमिका, जागर्ति व्यञ्जना वृत्तिः ॥५६॥ तत्तदकारणकारणनिकरो न रसं विधेयमुच्चिनुते । तत्र च यथोचितं स्याद्भावप्राधान्यतो भावः ॥५७॥ रसभावा नोचिततामञ्चन्तस्तदिव भासमानाः स्युः । तत एव रसाभासा भावाभासाश्च ते प्रोक्ताः ॥५८॥ शृङ्गाररसो द्विविधः, सम्भोगो विप्रलम्भ इति भेदात् । नानाविधोऽप्यभिन्नः, प्रथमस्त्वपरश्चतुर्भेदः ॥५९॥ ते पूर्वराग-गमन-प्रवास-करुणाभिधाश्च विज्ञेयाः । तत्तद्भेदविवेकस्तत्तद्ग्रन्थाद्विदाकार्यः ॥१०॥ शृङ्गारस्य नु शृङ्ग, कालीदासेन साधितं काव्ये । शाकुन्तले तथा जयदेवेन च गीतगोविन्दे ॥६१॥ भोजनमृते बुभुक्षा, स्वादं न ददाति मिष्टमपि तद्वत् । तद्वद्विरहेण विना, शृङ्गारो रुचिरतां नैति ॥६२॥ विविध काव्ये कीर्णो, विलोक्यते विप्रलम्भ उदिन्नः । स तु पुनर्मेघदूते, सर्वाङ्गविकासमुपपलः ॥३॥ हास्यरसो न प्राचां, प्रायः संवीक्ष्यते परिस्थूरः । आधुनिकैर्विविधकलाकलापपूर्णः कृतो भाति ॥६४॥ दुःखदवानलदग्धा, विदग्धतामधिगता यदा सत्त्वाः । तत्रौषधमिव हास्यं, रसमुपचारं प्रयुञ्जन्ते ॥६५॥ नाट्ये बहुशो हास्यं, विदूषकवचोविलासतो भवति । हास्यं मधुरमपि परं, प्रायेण व्यथयति व्यर्थम् ॥६६॥ करुणरसोद्वभावो, मनःप्रविष्टश्चिरं स्थितिं कुरुते । करुणान्तकचरितानामिह जगति विदितचरं वृत्तम् ॥६७॥ करुणरसोच्चविलासं, यद्यभिलषसीक्षितुं प्रवरभासम् । उत्तररामचरित्रं, भवभूतिरचितमवेक्षस्व ॥६८॥ करुणे भवेत् करुणविप्रलम्भभिन्नत्वमत्र रसशास्त्रे । करुणे शोकः स्थायी, भवति पस्मिन् रतिः स्थायी ॥६९॥ वीरश्चतुष्प्रकारो, दान-दया-युद्ध-धर्मभेदैः स्यात् । दाने वीरः कर्णो, मेघरथोऽभूद्दयावीरः ॥७०॥
१४
Page #24
--------------------------------------------------------------------------
________________
वसुदेवसुतः समरे, वीरो धर्मे जिनेश्वरा वीराः । तत्तच्चरितं रम्यं, राजति वीरेण सम्पूर्णम् ॥७१॥ यः स्याद्धर्मे वीरो, भेदैः सर्वैः स एव वीर: स्यात् । तद्धर्मवीरचरितं, वीररसं प्रकटयति परमम् ॥७२॥ वेणीसंहाराख्यं, पदे पदे वीरतामुदाहरति । युद्धे वीरो रौद्रादिलः क्रोधेन रहितत्वात् ॥७३॥ अद्भुतरसो विकसितो, भवति परममत्रतत्रविद्यानाम् । सत्त्ववतां चरितेऽपि च, महात्मनां स्वात्मसम्पत्तौ ॥७४॥ जीवादिकास्तिकाया, यथार्थरूपेण शास्त्रतः सूक्ष्मम् । विदिताविस्मयभावं, जनयन्त्यद्भुतरसं प्रथमम् ॥७५॥ यद्यद्वृत्तं विश्वे, कल्पनयाऽपि न विकल्पितुं शक्यम् । तदृष्टं ज्ञातं वाद्भुतरसमनुभावयति सद्यः ॥७६॥ केषाञ्चिद् यद् विस्मयजननं तच्च न भवेत्तथाऽन्येषाम् । सर्वत्र रसेऽप्येवं, परमद्भुतरसविधौ व्यक्तम् ॥७७॥ सत्त्ववतां न भयं स्यानिःसत्त्वानां भयं भवेदेव । दृष्ट्वा भयभीतानां, चेष्टां च भयानको भवति ॥७८॥ संसारो ननु भयकृत, सततं तत एव सुष्टु भेतव्यम् । यो नहि बिभेति भवतः पदे पदे तस्य भयमेव ॥७९॥ यद्यपि भयानकरसाञ्चितं न सकलं विलोक्यते काव्यम् । तदपि क्वचित् क्वचिन्ननु भयानको वर्णितो भाति ॥८०॥ जगति स्वाभिमतार्थं कामयमानाः सुकृतविरहिता जीवाः । रौद्ररसं जनयन्ति हि, परितः क्रोधेन सन्तप्ताः ॥८१॥ दुर्योधनेऽस्ति रोषो, न चाऽर्जुने कविसमयसमाज्ञप्तः । दशमुखवदने क्रोधो, दशरथतनये स नैवाऽस्ति ॥८२॥ इति रौद्ररसे पात्रं, पूर्वसमाः परसमाश्च वीरे स्युः । जनयति विकृतिं रौद्रः, प्रकृतिपरः स्याद्रसो वीरः ॥८३॥ साहित्ये रौद्ररसः, पृथक् पृथग वर्णितोऽस्ति निस्तन्द्रम् । किन्तु कुणिकस्य समरे, रौद्रो हि रसो नरीनर्ति ॥८४॥ चिन्मयमात्मानमूते, विश्वं विश्वेऽशुचित्वसम्पूर्णम् । वास्तवमिदमालोच्यं, किमस्ति भुवने मनस्काम्यम् ? ॥८५॥
Page #25
--------------------------------------------------------------------------
________________
कायस्त्वक्परिवर्तनमापलो वा विकारमुपपन्नः । बीभत्सः कस्य मनसि, नतरां जनयति जुगुप्सां ही ॥८६॥ अशुचित्वभावनायां, नृपकनिरागापसारणाप्तोक्तौ । मल्लिचरित्रे षण्णां, मित्राणां बोधनावसरे ॥८७॥ एकच्छवं राज्यं, बीभत्सरसस्य दृश्यते तत्र । दृष्ट्या तत्त्वाञ्चितया, बीभत्सं पुद्गलं सकलम् ॥८॥ शान्तरसो रसविदिः, कथितोऽपि सुदुर्लभोऽत्र संसारे । अत एव केचनाऽष्टौ, रसा इति निरूपयन्ति पुनः ॥८९॥ शान्तानां साधूनां, यद् यद् वृत्तं तदत्र शान्तरसे । पोषकमनुसन्धेयं, सदावोद्भावितं हृदये ॥१०॥ रामायणे रसोऽसौ, शान्तः परिपोषितः कविवराणाम् । समयेऽथवा प्रसिद्धः, सतां चरित्रेऽस्ति सर्वत्र ॥१॥ यावल भावुकानां मनः शमाञ्चितमपेतमालिन्यम् । शान्तरसस्य न तावद्वार्ताऽप्यायाति तत्सविधम् ॥१२॥ एकः खलु शान्तरसस्तत्प्रतिबिम्बं परे रसाः सर्वे । दुःखितमपि रसराजः, सुखमनुभावयति सततमसौ ॥१३॥ परमात्मनि शृङ्गारं, प्रसाधयन् परमभेदमाप्नोति । शृङ्गारः स परोऽन्यः, कल्पनया केवलं रम्यः ॥४॥ यद्यभिलषितं हास्यं, तदा स्वचरितं विवेकविकलं किम् । हास्यरं नहि पश्यसि, यत् पमुपहससि संमूढः ॥१५॥ यावल मोहमुक्तस्तावत्त्वं शोकसङ्कुलः सततम् । सर्वेषां करुणरसोदाहरणं भववने भ्रमसि ॥१६॥ रागाद्यास्ते रिपवः, क्रूरास्त्वं शूरतां प्रकटय पराम् । वीररसोऽप्यप्रतिमः, सोत्साहो हन्त तत्र स्यात् ॥१७॥ कालमनन्तं भ्रान्तस्तथापि न श्रान्त आत्मविभ्रान्तः । अद्भुतमन्यत् किमतः, परं समस्तेऽस्ति भुवनेऽस्मिन् ॥८॥ तृणमात्रेऽपि ममत्वं, भयमनुभावयति कर्षितं किञ्चित् । त्वमपि भयानकतां परमनुभावयसि प्रभूतभयः ॥७९॥ क्रोधस्त्व परमसुहृद्, रौद्रं रूपं संजनयति नितराम् । तद् दृष्ट्वा परमपरे, रौद्राकारा भवन्तितराम् ॥१००॥
१६
Page #26
--------------------------------------------------------------------------
________________
जन्मजरामरणैस्त्वं, जुगुप्सितैः सर्वदाऽसि बीभत्सः । हलं मीढं त्वयका, बीभत्सं पुद्गलं सकलम् ॥१०१॥ यदपि न शान्तस्तदपि च, शुद्धः शान्तस्त्वमेव नाऽन्योऽस्ति । समभावं निजरूपं, विभाव्य वितरानिशं प्रशमम् ॥१०२॥ वात्सल्येऽथ च भक्तौ, रतिरेव भवेत् परात्परं बीजम् । तेन तयोर्न हि भेदः, पृथक् तथाऽन्यत्र च ज्ञेयम् ॥१०३॥ वाक्यं कायः काव्ये, रसभावादिः पुनर्भवेदात्मा । शौर्यादिसमाश्च गुणा, दोषाः काणत्वसंप्रख्याः ॥१०४॥ रीतिः संस्थानसमाउलङ्काराः कनकभूषणैः सदृशाः । यत्राऽन्योऽन्यं सङ्गतिमङ्गन्त्येते परं तदिदम् ॥१०५॥ तरतमभावः काव्ये, समीक्ष्यते यः स एतदायत्तः । महतामपि हि कवीनां, तरतमभावो भवति काव्ये ॥१०६॥ एवञ्च रसविमर्शों, विधविधभङ्ग्या विवेकिना कार्यः । येन रसो वै सैतद्, वचनमिह भवेद् यथारूपम् ॥१०७॥ आत्मनि यस्य रसः स्यात्, सैव रसं रसितुमीश्वरो नाऽन्यः । षण्ढः किं कामिन्या हावाद्यैः पौरुषं स्वदते ? ॥१०८॥ अन्धो न दीपदर्पणकोटाकोट्याऽपि दर्शनं कुरुते । सङ्गीतकमतिमधुरं, निन्दति बधिरः श्रवणविकलः ॥१०९॥ एवं रसमनुभवितुं, रसप्रवाहं स्वमानसे धरता । रसिकानामिह सरसं, सममरसं नीरसानां तु ॥१०॥ काव्यं विशेषयन्त्यपि, रसं पुनः पोषयन्ति परमार्थम् । ओजः-प्रसाद-माधुर्याभिख्यास्ते स्युर्गुणाः काव्ये ॥१११॥ विस्तृतमन्तः कुरुते, दीप्तिं तनुते समस्तरूपेण । ओजः क्रमशो वीरे, बीभत्से रौद्रके स्फुरति ॥११२॥ औद्धत्यवती रचना, समासबहुला कठोरवर्णपरा । ओजो व्यनक्ति वृत्तं, विशेषतो दीर्घगुरुवर्णम् ॥११३॥ शीघ्रं व्याप्नोति मनः, परितो वह्निर्यथेन्धनं शुष्कम् । राजति गुणः प्रसादः, कम्रः सर्वत्र रसकृतिषु ॥१४॥ व्यक्तो गुणः प्रसादः, भवति स्पष्टार्थरचनया स्पष्टम् । नहि बाध्यते गुणोऽयं, क्वचनाऽपि नियोजितः काव्ये ॥११५॥
१७
Page #27
--------------------------------------------------------------------------
________________
माधुर्यं हृदयमदो, द्रवयति वितरति मनसि सदाऽऽह्लादम् । भोगे करुणे विरहे, शान्ते क्रमशोऽधिकं भाति ॥ ११६ ॥ कोमलवर्णैरनधिक समाससन्धिप्रसन्नरचनाभिः । भवति व्यक्तो मधुरो, मालिन्यादिक मधुरवृत्तैः ॥११७॥ श्लेषादिमकाव्यगुणा, दश रुद्रटमुख्यसूरिकथितास्ते । अल्पप्रवृत्तिसिद्धा, अपि न विशिष्टप्रयोजनकाः ॥११८॥ प्रविशन्ति प्रोक्तगुणे, केचन केचिदिह दूषणाभावे । रचनाविशेषतायां, न स्वातन्त्र्यं भजन्त्येते ॥ ११९॥
एतावन्मात्रोऽयं ग्रन्थः, अपूर्णः ॥
•**•**
१८
Page #28
--------------------------------------------------------------------------
________________
प्राचीनं साहित्यम्
संस्कृतं सर्वतोभदम्
श्रीके. ए. रामलिङ्गशास्त्री (कामधेनु-सम्पादकः)
संस्कृतस्य सर्वतोभद्रत्वे कः संशयीत ?
न कोऽपि संदिहीत; ब्रह्माऽपि संशयं न विदधीत; तथा सति को न खलु अपरो भारतवर्षीयो वा वैलायतिको आमेरिको वाऽत्र अपारं द्वापरम् आरचयेत् ? स्यादेतत् - संस्कृतस्य सर्वतोभद्रत्वं किं नाम ? या किल पुरुषसिंहेन श्रीमदमरसिंहेन
'ब्राह्मी तु भारती भाषा गीर्वाग् वाणी सरस्वती ।
व्याहार उक्तिर्लपितं भाषितं वचनं वचः ।' - इत्यादिना पद्येन प्रत्यपादि । सैव इयं गीर्वाणवाणी - 'गीर्देवतेति गरुडध्वजवल्लभेति
शाकम्भरीति शशिशेखरसोदरेति' इति चाऽन्यत्र उपवणितरीत्या महादुर्गा-महालक्ष्मी-महासरस्वतीस्वरूपा च दिव्या भव्या स्तव्या नम्या अमेया अमाया कामधेनुः ।।
'व्यक्ताव्यक्तगिरः सर्वे वेदाद्या व्याहरन्ति याम् ।
सर्वकामदुघा धेनुः सा मां पातु सरस्वती' - इति सरस्वतीरहस्योपनिषत्-सकलकामकलयित्रीम् अस्तौत् कामदोग्ध्रीम् इमाम् । मन्त्रेऽस्मिन्- 'वेदाद्याः' इतस्य स्थाने देवाद्याः इति पाठान्तरं श्रूयते, पाठद्वयमपि प्रस्तुतवर्णने समञ्जसमेव । 'वाचं धेनुमुपासीत' इति च चोदना विशदयति एतस्या अकृत्रिमलावण्यरमणीयायाः परमपावनगोरूपतां वाग्देवतायाः 'भाषा'-पदप्रतिपाद्यायाः । अमृतेऽस्मिन् ननु संस्कृते भाषा-पदं निरूढम् । पाणिनि-महामुनिश्च भाषापदेन गीर्वाणवाण्या लौकिकं प्रयोगम्, 'छन्दः'पदेन च वैदिकं प्रयोगं समसूसुचत् अष्टाध्याय्यम् । नैसर्गिकसंस्कारवत्या एनयैव गिरा सुराश्च भूसुराश्च मनीषिणश्च पूताश्च, विभूषिताश्च चकासतीति कविसार्वभौमः ‘कुमारसंभव'काव्ये इत्थं कवयाम्बभूव, पार्वत्या हिमवतः महाभाग्यसंपत्तिसंप्राप्तिप्रतिपादनावसरे -
१९
Page #29
--------------------------------------------------------------------------
________________
'प्रभामहत्या शिखयेव दीपः
त्रिमार्गयेव त्रिदिवस्य मार्गः । संस्कारवत्येव गिरा मनीषी
तया स पूतश्च विभूषितश्च ॥ सच्चारिणी दीपशिखेव रात्रौ
यं यं व्यतीयाय पति वराय । नरेन्द्रमार्गाट्ट इव प्रपेदे
विवर्णभावं स स भूमिपालः ।। - इति ईदृशमधुमयोपमानोपमेयभावरमणीयरचनानन्दितभूपोपलब्धेन 'दीपशिखा'बिरुदेन मण्डितः किल कालिदासः पद्येऽस्मिन् भगवत्या हैमवत्या हिमवतः सिद्धं पूतत्वं विभूषित्वं च प्रतिपिपादयिषुःप्रभाधिकया ज्वालया प्रदीपस्येव, स्वर्णद्या स्वर्गमार्गस्येव, संस्कृतगिरा मनीषिण इव चेत्युपमानत्रितयस्य निबन्धनेन, गैर्वाण्या आत्मन उपनतं पूतत्वं च विभूषितत्वं च अनुभवन्नेव मोदते इत्यभ्यूहितुं शक्यते; संस्कृतगिरा यथा अहं मनीषी अभूवम् अन्योऽपि मनीषी पूतो विभूषितश्च भवति, तथा इत्यनुसन्धेयम् । अनेन सूक्तेन च मुदितेन राज्ञा 'दीपशिखा'बिरुदं प्रदेयं महाकवये इति मन्यामहे। इदमत्राऽऽकूतम् - प्रभाधिका शिखा किल - स्वतः च पावयित्री च विभूषयित्री च यथा नाम संदृश्यते सर्वैः, नन्वेवमेव सुरधुनी च हैमवती च सुरसरस्वती च संस्कारिणी संस्कृता च पूता च पवित्रयित्री 'चेत्यभ्युपगन्तव्यम् - इति । किं बहुना -
'सर्वासामपि भाषाणां गैर्वाणी जननी ननु । अन्यासामपि भाषाणां भाषात्वं जनयत्यसौ ॥ सौपर्वणीयं सौवर्णी वाणी वेणी हि पावनी । एनयाऽस्नपितो विद्वान् कथं पूतश्च संस्कृतः ? ॥ गेहे गेहे धेनुरेका सुपोष्या, मोहे मोहे शेमुषी स्वा समीक्ष्या ।
ग्रामे ग्रामे माणवा: सूपदेश्या, देश्याचाराश्चारणैश्चारणीयाः ॥" सर्वाङ्गसुन्दरी सुरगीरियं पुरा सकलैरपि व्यवह्रियमाणा येन केन प्रकारेण महनीया पप्रथे । नन्वत एव सर्वास्वपि भाषासु सुरगिरः पदानि बाहुल्येन उपलभ्यन्ते; तत्र तावदधुना आङ्ग्ल्याश्च अमरगिरश्च कियान् तर-तमभावो विमृश्यते ।
आङ्ग्ली किल भाषा-सर्व भाषाऽधमर्णा, सर्वभाषासङ्कीर्णा, अव्यवस्थितवर्णोच्चारणा, जीविका) पठ्यमाना आवालगोपालाङ्गनं विदितस्वरूपा बाभाति जगत्यस्मिन् । भाषायाम् एतस्याम् Put – 'पुट' but – 'बट' cut-'कट' Nut-'नट' आदिपदानामुच्चारणं न व्यवस्थितम् । Hour-'अवर्' Our
Page #30
--------------------------------------------------------------------------
________________
'अवर्' अनयोः पदयोः को भेद उच्चारणे ? अर्थभेदोऽस्त्येव; प्रथमः-घण्टां, द्वितीयः-अस्माकम्इत्यर्थम् अभिधत्ते । Hour इति पदे संहत्य उच्चारिते होर्, हौर् इति वा उच्चारणीयम्; न कोपि आङ्ग्लो वा अन्यो वा तथा उच्चारयति । कथं तहि ? अवर् = Hour इत्येव । वयं तु ब्रूमः - होरा इति संस्कृतपदमेव कालवाचकम् आङ्ग्ल्यां बहोः कालात्पूर्वं भाषापरिपूरकैः प्रवेशितं स्यादिति । यथा हिन्दीमराठी-गुर्जर्यादि-भाषासु पदस्य अन्त्यम् अच् न उच्चार्यते, तद्वद् 'होरा' – पदे अन्त्य आकारः तादात्विकैः मन्यामहे न उच्चारितो भवेदिति । ज्योतिषे 'अहोरात्र संग्राहकशब्दः खलु होरा शब्दः; तमेनं शब्दम् आङ्ग्ल्यामधीतिन: सर्वेऽपि Hour = 'अवर्' इति वदन्ति ।
किं च - संस्कृते वत्सरस्य वाचकम् अस्ति किल पदं किमपि हायनम्-नाम; इदमेव आङ्ग्ल्याम् Annum = (year) इति परिणतं प्रणिगदामः, कथम् ? हायनम् - इति पदं यदा आङ्ग्लादारैर्विलिख्यते तदा 'Hayanam' इति लेखनीयम्, शीततमारण्यानी-निवासिभिर्जनेः पुरा संपूर्णाक्षराणामुच्चारणम्अशक्यत्वाद्वा आलस्याद्वा अनभ्यस्तम् अधुना Annum सम्पादितम् । Cow 'कौ' इति गो-वाचकः आङ्ग्ल्याम् गौः-इति संस्कृते; Brow ब्रो-भ्रूवाचकः, Iron = आयरन्-अयः; Name = नेम् नाम; ग्रासः - कवलवाचक: A-mouthful संस्कृते; Grass ग्रास = बालतृणवाचकः आङ्ग्ल्याम्; Water वाटर् = वार् = वारि-जलवाचकम्; Cot = 'खाट्' चतुष्पात्पीठवाचक आङ्ग्ल्याम्, खट्वा-इतिसंस्कृते; Cough 'कफ्' कफवाचकः; Dantal = दन्तसम्बद्धः, अत्र दन्तपदं संस्कृतम्: Nose = नासा नासिका-वाचकम्; Geometry ज्यामिट्रि = ज्या-मितिः - भूमिमानसाधनशास्त्रम्;
Sewing - षिवु = तन्तुसन्ताने, सीव्यति; Weaving - वेञ् = तन्तुसन्ताने, वयति-वयते; They - 'दे' आंग्ल्याम्, ते-संस्कृते; Mixture – मिश्रं; ghee घी; घृत-वाचकः; इत्यादि ॥
(वैक्रमे १९८३तमे वर्षे प्रकाशिते सुप्रभातम् इति
सामयिके मुद्रितोऽयं लेख: ससौजन्यमत्र पुनः प्रकाशितः ।)
Page #31
--------------------------------------------------------------------------
________________
जीवनमौक्तिकम्
(१) परमगहनरूपं परमात्मतत्त्वम्
मुनिरम्याङ्गरत्नविजयः शङ्कितमानसः पूर्वमहं यत्कोऽस्ति परमात्मा ?
किन्त्वधुनाऽपूर्वस्फुरणया समाधानमस्य सञ्जातम् - "यो ददाति शुद्धं धर्मं स परमात्मा जगति"। परमात्मतत्त्वस्य परिज्ञानं परिशुद्धधर्मस्य माध्यमेन करणीयम् ।
केनचिन्नाम्ना परमात्मतत्त्वं श्रद्धेयं न भवति, प्रसार-प्रसिद्ध्यन्यतरादपि हेतोः परमात्मतत्त्वस्य मनोनीतकरणे वयं विप्रलब्धा एव भविष्यामः ।
बाढमेतदन्यत् - अस्माकं पार्वे यदि धर्मस्य यथार्थतां परीक्षितुं प्रज्ञा भवेत् ।
किन्तु धर्मस्य हट्टो विस्तीर्णोऽस्ति, शुद्धधर्मेण साकं तस्यामेव विपण्यां लोकानुकूला - अज्ञानविमोहिता भ्रान्तधर्मा अपि मिलन्ति । यथा कार्तस्वरस्याऽऽपणे सुविशुद्ध-मिश्रणशून्यकाञ्चनं भवति, तत्र स्वर्णोन्मिश्रितारकूटोऽपि वर्तते, तथैव कृत्रिमकनकमपि सुलभम् ।
इत्थं - छादिकधर्मा अपि संसारे विस्तृतप्रचाराः प्राप्यन्ते । अस्माभिस्तत्र कष-च्छेद-तापरूपशास्त्रोक्तत्रिविधपरीक्षया धर्मतत्त्वं समीक्षणीयम् ।
श्रीजैनशासनस्य इदमेव माहात्म्यं यत्तत्त्वत्रयीरूपान् देव-गुरू-धर्मानपि परीक्षापूर्वकमेव स्वीकर्तुं निर्दिशति । एवं तस्यां परीक्षायामुत्तीर्णोऽस्माकमज्ञानान्धकारापहरणे दीपकतुल्यो धर्म एव विशुद्धधर्मरूपेण सम्माननीयः । उक्तमेव - त्रैलोक्ये दीपको धर्मः, इति । तथा च तद्धर्मदेशका एव परमात्मतया स्वीकरणीयाः संस्तवनीयाश्च ।
अनया रीत्या सर्वलोकमाश्रित्याऽभीष्टदोऽपि भवति । यतो योग्याय ददाति यः स महात्मा, सर्वान् ददाति यः स परमात्मा । व्यक्तित्वेन स लोकाग्रे स्थितः, किन्तु शक्तिमत्त्वेन तु सर्वत्र सर्वदा विजयतेतराम् । प्रपञ्चितमिदं परमात्मपञ्चविंशतिकायामुपाध्यायप्रवरैः -
व्यक्त्या शिवपदस्थोऽसौ । शक्त्या जयति सर्वदा ॥ इति ॥
२२
Page #32
--------------------------------------------------------------------------
________________
(२) महान्तो हि विश्वोपकृत्यै यतन्ते
मुनिरम्याङ्गरलविजयः महत्ताया अनिवार्यमूलमस्ति परोपकारः । त्रिविधः परोपकारः सम्भवति जगत्यस्मिन् - - स्वार्थपरोपकारः प्रत्युपकारस्य फलेच्छया स्वार्थवशेन च क्रियमाणः । - परार्थपरोपकारः परहितबुद्ध्या क्रियमाणतया यस्मिन् स्वार्थभावो गौणायितो भवेत् । - स्वभावपरोपकारः अविचार्यैव व्यसनवत् स्वाभाविकतया जायमानः ।
त्रिविधेष्वप्येतेषु स्वभावसज्ञः परोपकार उत्तमः, परार्थाख्यः परोपकारो मध्यमः, स्वार्थसज्ञितस्तु परोपकारो जघन्योऽस्ति, स नाम्नैव परोपकारः, स्वभावतया तु न वर्तते ।
महतां विभूतयः तदर्थमेव सञ्जायन्ते, तदुक्तं - "परोपकाराय सतां विभूतयः" । जीवहदये परोपकारस्य भावः प्रस्फुरति जीवमैत्र्या, जीवप्रेम्णा, जीवकरुणया च ।
विश्वस्य जीवमात्रमाश्रित्य प्रेम-मैत्री-करुणा उपकारस्य प्रवृत्त्याधानाद्विना नाऽवतिष्ठन्ति । परोपकारस्य प्रवृत्तिविधायकस्य सन्निधौ दिव्यदृष्टिरनिवार्या ।
प्रत्युपकारस्य काङ्क्षामकृत्वा परोपकारः करणीयः । यतः परोपकारस्य तुलनायां प्रत्यपकारोऽपि भवेत्, तत्क्षणं महत्तायाः परीक्षावसरं ज्ञात्वा धैर्यमवलम्ब्य स्थेयम् । न तु "शाम्येत्प्रत्यपकारेण नोपकारेण दुर्जनः" इति याज्ञवल्क्योक्ति (३/२८४)मनुस्मर्य प्रत्यपकारो विधेयः, तथा सूक्तमेव शास्त्रे - "गुणवतामवसरे परीक्षा जायते" इति ।
अस्मात् सहनारसास्वादान्महापुरुषाः पारम्प्राप्ता इव स्वान् मन्यन्ते । महतो जना एव विश्वोपकारस्य पवित्रामनघां च प्रवृत्तिं निरन्तरं कर्तुं समर्था भवन्ति । एतादृशाणां महापुरुषाणां चरणेषु वन्दनाञ्जलयोऽनन्तशः ।
Page #33
--------------------------------------------------------------------------
________________
कश्चन धार्मिको जनो भगवन्तं प्रार्थयमान आसीत् -
प्रभो ! मम सर्वा अपि दुर्वृत्तीर्गृह्णातु भवान् ।
भगवतोक्तम्
भगवता सह संवादः
ततः स उक्तवान् -
नैव भोः ! मया ता दुर्वृत्तयो नैव ग्रहीतव्याः किन्तु त्वयैवाऽपसारणीयाः ।
प्रभो ! मम विकलाङ्गं पुत्रं सकलाङ्गं सुन्दरं च करोतु भवान् ।
भगवता कथितम्
नैव भोः ! तस्याऽऽत्मा तु सुन्दरः सम्पूर्णश्चैव, विकलं तु शरीरमात्रम् । तत्त्वेवमपि क्षणनश्वरमस्ति ।
ततस्तेन विज्ञप्तिः कृता
-
प्रभो ! मह्यं धृतिं सहिष्णुतां च प्रददातु ।
प्रभुः कथितवान् –
नहि भोः ! धैर्यं सहिष्णुता चाऽऽत्मपरीक्षया प्रयोगैश्च प्राप्यन्ते ! एते द्वे शिक्षितव्ये स्तो न तु कस्मैचिद्दीयेते ।
इदानीं स पूर्ण श्रद्धयोक्तवान् -
-
कल्याणकीर्तिविजयः
भगवन् ! करुणानिधान ! मह्यं सुखं ददातु ।
भगवांस्तूच्चैर्हसितवान् हसन्नेव च कथितवान्
मा पुत्र ! मैवम् । अहं तु केवलमाशिषो ददामि । तथा सुखं दुःखं च तु केवलं मनसः कल्पनैव, नाऽन्यत् किञ्चित् ।
-
२४
Page #34
--------------------------------------------------------------------------
________________
ततः स दाढ्र्येन याचितवान् -
प्रभो ! मम सर्वा अपि पीडाः शमयतु । पीडाभिर्ग्रस्तोऽहं भवन्तं स्मर्तुं न शक्नोमि । तस्य दाढ्र्येन सर्वेथाऽविचलितो भगवान् कथितवान् -
सर्वथा न । एताः पीडा इमानि दुःखानि चैव त्वां मदन्तिके आनयन्ति जगतः प्रलोभनैश्च त्वां दूरे स्थापयन्ति । अतः सकर्णीभूय शृणु, अहं त्वां विहातुं नैवेच्छामि ।
स जन आश्चर्यचकितोऽभवत् । सर्वा अपि प्रार्थना निराकुर्वन् भगवान् कथं स्वप्रार्थनमभ्युपगमयितव्य इत्यजानन् स प्रान्तेऽवदत् -
प्रभो ! भवान् तत्सर्वमपि मे ददातु येन मम जीवनं निराबाधतया सानन्दं च व्यतीतं भवेत् । भगवता सस्मितं निगदितम् - नहि वत्स ! अहं जीवनमेव ददामि येन त्वं सर्वाण्यपि वस्तूनि सानन्दमुपभोक्तुं समर्थः स्याः ।
जनस्य धैर्यं न्यूनं जायमानमासीत् । प्रत्येकमपि प्रार्थनमपाकुर्वाणस्य भगवतो रुचितं किमपि याचित्वा तं प्रीणयामीति चिन्तयित्वा तेन कथितम् -
अस्तु भगवन् !, केवलं ममाऽऽत्मन यथोचितं विकासो यथा भवेत् तथा करोतु । इमामपि प्रार्थनां निराकुर्वन् प्रभुः कथितवान् -
सर्वथा न, त्वया स्वयमेव स्वस्य विकासः कर्तव्यः खलु । अथाऽपि तेऽहं कानिचिदानुकूल्यानि दास्ये येन तव साधना फलिता भवेत् ।
अस्यां वेलायामपि भगवन्तं न किमपि ददानं दृष्ट्वा स जनः सर्वथा निविण्णोऽभवत् । इदानीं किं याचे - येन मम श्रेयः, परमात्मनश्च प्रसन्नता स्यादित्यजानानः स सहसा कथितवान् -
प्रभो ! केवलमेकमेवेदं प्रार्थनं मे स्वीकरोतु - भवान् यथा समग्रेऽपि जगति प्रेम करोति, सर्वत्राऽपि मैत्रीमुपकल्पयति, तथा मामपि शिक्षयतु ।
एतच्छ्रुत्वा भगवतो वदनमितोऽपि विकस्वरं जातम् । तेन सस्मितमुक्तम् -
हुम्... इदानीं सर्वमपि सुस्थम् । तव विवेकबुद्धिर्जागरिता सम्प्रतीति मन्ये । तथाऽस्तु भोः! तव प्रार्थना निश्चप्रचं फलिष्यति ।
(डो. आई.के.वीजलीवाला - लिखितात् "मन नो माळो" इति पुस्तकात् सङ्कलितं सादरम् ॥)
Page #35
--------------------------------------------------------------------------
________________
क्रूरतमः कः ? (हिटलरः स्तालिनः माओ वा ?)
गूर्जरमूलम् - प्रफुल्ल-पारेखः
सं. कल्याणकीर्तिविजयः जगतोऽनादिकालीनो नियमोऽयं यद् - यदा जनानामहङ्कार-ममकार-मत्सरेादयो दोषाः प्राबल्यं प्राप्नुवन्ति तदा तदा युद्धं भवति । युद्धे च बहुशो हिंसा-लुण्टन-धर्षणादिकं प्रवर्तते ।
सामान्यतया युद्धे भागं ग्रहीतॄणां सैनिकानां मृत्योः प्रमाणमधिकं भवति प्राकृतानां नागरिकाणां च मरणसङ्ख्या नाऽधिका भवति । किन्तु द्वितीये विश्वयुद्धे इयं मतिर्वितथाऽभवत् । अस्मिन् युद्धे सैनिकानामपेक्षया नागरिकाणां मरणसङ्ख्याऽधिकाऽऽसीत ।
इतोऽप्याश्चर्यजनकं वृत्तं त्वेतद् यद् - विश्वयुद्धस्य जनहिंसातोऽपि स्तालिनस्य माओ-इत्यस्य च शासनकाले युद्धं विनाऽप्यत्यधिकसङ्ख्यानां जनानां हिंसाऽभवत् ।
ऐकाधिपत्यशासने(Dictatorship) यद्यप्यबाधितं प्रभुत्वं भवति तथाऽपि तादृशाः शासका भयभीता भवन्ति सर्वदा । प्राधान्येन तेषां स्वघातस्य, स्वं विरुध्य षड्यन्त्ररचनस्य, शासनभ्रंशस्य च भयं भवति । एतादृशीः सम्भावना अपि रोर्बु ते सर्वत्र शङ्काशीलमानसाः सन्तो निजसहयोगिनः, स्वकल्पितविरोधिनो निर्दोषनागरिकांश्च त्रासयन्ति घातयन्ति चाऽपि ।
अस्मिन् विषये चीनदेशस्य नागरिकाः सर्वाधिक्येन दौर्भाग्यहता आसन् । चीनदेशे राष्ट्रवादिपक्षस्य च्यांग-काई-शेक्-इत्यस्य साम्यवादिपक्षस्य च माओ-झेडोंग्-इत्यस्य च मध्ये ऐसवीयात् १९२७तमवर्षादारब्धं गृहयुद्धं १९४९तमवर्षं यावत् प्रवृत्तम् । ऐसवीयात् १९३७तमवर्षात् १९४५तमवर्ष यावत् जपानदेशस्याऽऽक्रमणं चीनदेशेन सम्मुखीकर्तव्यमभवत् । द्वाविशतिवर्षपर्यन्तं प्रवृत्ते गृहयुद्धे जपानदेशेन सह च प्रवृत्ते युद्धे चीनदेशस्य लक्षशः सैनिका नागरिकाश्च मरणं प्राप्ताः ।
१९४९तमे वर्षे माओ चीनदेशस्य सर्वसत्ताधीशोऽभवत् । 'युद्धानि स्थगितानीति सुखं जीविष्यामः' इति हि प्रजाजनानामपेक्षाऽऽसीत् । किन्तु तामपेक्षां सर्वथाऽपूरयित्वा माओ प्रजाजनान् युद्धकालादपि हीनायां भ्रष्टायां च परिस्थितौ नियोजितवान् ।
साम्यवादिनां प्राथमिकः सिद्धान्त एवाऽयं यत् - प्रस्थापितशासनव्यवस्था, प्ररूढा विचारपद्धतिः, स्थापितानि च हितानि - इति त्रयमपि नाशयितव्यम् । एतदनुसृत्य १९५०तमे वर्षे माओ-इत्यनेन
२६
Page #36
--------------------------------------------------------------------------
________________
समग्रस्याऽपि देशस्य भूमे राष्ट्रीयीकरणं निर्णीतं, तदर्थं च 'जना विरोधं विद्रोहं च करिष्यन्ती' ति चिन्तयित्वाऽनागतमेव सहस्रशो भूस्वामिनो घातिताः । भूस्वामित्वोच्छेदानन्तरं कर्षकाः समूहकर्षणं कर्तुं प्रवर्तिताः, किं च कुत्र च कथं च वपनीयमिति, धान्योत्पत्तौ चोत्पादनं कथं विक्रेतव्यमित्याद्यधिकृत्य नियमाः कल्पिताः ।
I
I
चाय्-सस्योत्पादनं धनसङ्ग्रहपरमवनतिप्रापकं चेति मत्वा चाय् - सस्योद्यानेष्वपि व्रीहिवापः एव कारितः । माओ-इत्यस्येयं कल्पनाऽऽसीद् यद् - निरन्तरमुप्तानि बीजान्येव स - फलानि भवन्तीति । अतो बीजानां मध्ये सर्वथाऽन्तरं न रक्षित्वोप्तानि तानि । एतादृशामविचारिनिर्णयानां कारणेन कृष्युत्पादनं सर्वथा क्षीणं जातम् । किन्तु माओ - इत्यनेनैतदर्थं मक्षिका-मशक - चटकोन्दुरादय उत्तरदायिनः परिगणिताः । स तर्कयति स्म यत् - मशक - मक्षिकादिभिः कृषका रुग्णा भवन्ति, चटकोन्दुराद्यास्तु धान्यं विनाशयन्ति । अतः १९५८तमे वर्षे तेन चटकपक्षिणां सर्वनाशार्थमादेशः कृतः । स्तोककालेनैव चटकानामभावेन कीटक-शलभादिभिः समग्रमपि कृष्युत्पादनं विनाशितम् । एतेन माओ सहसा जागृत इव सोवियट्रशियादेशात् चटकजीवानाययत् । किन्तु माओ-इत्यनेन गृहीतैरेतैरवास्तविकैर्निर्णयैः १९५९तमे १९६०तमे च वर्षे चीनदेशे महादुर्भिक्षं सञ्जातं तेन च प्रायशः कोटिद्वयं जना मृताः । एतादृशे समयेऽपि स कथितवान् यद् - 'यदि दुष्काले प्रजाजनानामर्धभागो विनश्येत तदा शिष्टोऽर्धभागः पर्याप्तमाहारं लभेते 'ति !!
देशस्य विद्यालयेषु क्रान्तेरनुरूपं शिक्षणं न प्रदीयते इति कारणं प्रदर्श्य सर्वेऽपि शाला - विद्यालयादयोऽवरुद्धाः । युवानो रक्त-रक्षकदले प्रवेशिताः, तेभ्यश्च शिक्षण - व्यापार-उद्योग - कृष्यादिषु स्थापितां व्यवस्थां विनाशयितुं निराबाधं प्रभुत्वं प्रदत्तम् । १९७६तमे वर्षे माओ मरणं प्राप्तः । तन्मरणं यावत् रक्तरक्षकदलेन हिंसा-अत्याचारादयः समग्रासु प्रजासु प्रवर्तिताः । वर्षेभ्योऽनन्तरं चीनदेशसर्वकारेण स्वीकृतं यद् – रक्त-रक्षकदलस्याऽत्याचारैः १.६५ कोटिमिता जनाः मृताः । Jung chan and Jon Halliday लिखिते The Unknown Story - इति नामके पुस्तके उल्लिखितमस्ति यन्माओ - शासने सप्तकोटिमिता जना: अप्राकृतिकं मरणं प्राप्ताः । तत्राऽपि ३.८कोटिमिता जना: सांस्कृतिकक्रान्तेर्दशसु वर्षेषु मृताः । ३.६कोटिमिताश्च जनाः रक्तरक्षकदलस्याऽत्याचारान् सोढवन्तः ।
-
प्रथमविश्वयुद्धकाले रशियादेशे झार्नृपस्य शासनमासीत् । १९१८ तमे वर्षे झार्-नृपस्य वधं कृत्वा लेनिन्-इत्यस्याऽध्यक्षतायां साम्यवादिपक्षशासनं प्रारब्धम् । १९२४तमे वर्षे लेनिन्-इत्यस्य देहविलयानन्तरं स्तालिनः सर्वसत्ताधीशोऽभवत् । माओ - इत्यस्येवाऽनेनाऽपि समग्रे देशेऽविचारितया प्रवर्तितानां नीतीनां कारणतः १९३२-३३तमयोर्वर्षयोर्देशो दुष्कालग्रस्तोऽभवत्, ततश्च १.४५कोटिमिता जना मृता: । उद्योगक्षेत्रेऽपेक्षितायाः प्रगतेरभावात् क्रुद्धः स्तालिनो १९३८-३९ तमयोर्वर्षयोः दशलक्षमितान् जनान् मारितवान् ।
१९३९तमे वर्षे हिटलर: पोलेन्ड - देशमाक्रान्तवान्, ततश्च द्वितीयं विश्वयुद्धं प्रवृत्तमिति वार्ता सर्वत्र प्रसिद्धा किन्तु साऽर्धसत्या । वस्तुतः स्तालिनो हिटलरश्चेति द्वावपि सम्मील्य पोलेन्डदेशमाक्रान्तवन्तौ ।
२७
Page #37
--------------------------------------------------------------------------
________________
१९३९तमवर्षादारभ्य १९४१तमं वर्षं यावत् ताभ्यां पोलेन्डस्य लक्षद्वयं नागरिका घातिताः । १९४१तमे वर्षे हिटलरो रशियादेशमप्याक्रान्तवान् । ततश्च द्वयोमैत्री अवसिता । किन्तु द्वयोः शक्तिशालिनोर्देशयोर्मध्ये पतितः पोलेन्डदेशो बह्वपायान् सम्मुखीकृतवान् । १९३९तमवर्षादारभ्य १९४५तमं वर्षं यावत् पोलेन्डदेशस्य १,२३,०००मिताः सैनिकाः ६०,२८,०००मिताश्च नागरिकाः मरणं प्राप्ताः ।
युद्धात् पूर्वमपि रशियादेशे स्तालिनस्याऽत्याचारैर्लक्षशो जना मृताः । युद्धसमाप्त्यनन्तरमपि तदत्याचारा अनुवृत्ता एव । तस्य शङ्काऽऽसीद् यत् - तस्य बहवो नागरिका जर्मनीदेशस्य साहाय्यं कृतवन्तो जर्मनीयांश्च प्रति समवेदनं धारितवन्त इति । अतः स तादृशान् सहस्रशः शङ्कास्पदनागरिकान् घातितवान् लक्षशश्च नागरिकान् साइबिरियाप्रदेशे श्रमशिविरेषु प्रेषितवान् यत्राऽसह्यशीत-क्षुत्तृषादिदुःखैस्तेषां मरणं प्रायशो निश्चितमासीत् ।
स्तालिनस्याऽत्याचाराः केवलं रशियादेशे सीमिता नाऽऽसन् । द्वितीयविश्वयुद्धानन्तरं पूर्वीययुरोपखण्डस्य प्रायः सर्वेष्वपि देशेषु स्तालिनस्य प्रभुत्वमासीत् । अतस्तत्रत्याः सर्वकाराः स्तालिनस्यैव शासनमनुसरन्ति स्म । एतेषु देशेषु साम्यवादविरोधिनामेकैव शिक्षाऽऽसीत् - मरणम् । अनया शिक्षया मृतानां सङ्ख्यैव न ज्ञायते ।
हिटलरं पराजेतुं सर्वाधिको श्रमः स्तालिनस्याऽऽसीत्, अतः प्रजाजनान् प्रति तेनाऽऽचरितां क्रूरतामविगणय्याऽपि १९४५तमस्य १९४८तमस्य च वर्षस्य नोबलपुरस्कारार्थं तस्य नामोपस्थापितमासीत् । नोबल-पुरस्कारस्तु यद्यपि न प्राप्तस्तेन, तथाऽपि 'टाइम'पत्रिकया स 'वर्षस्य श्रेष्ठव्यक्तित्वेन' (Person of the Year) परिगणितः ।
हिटलरस्य नामग्रहणेनैव तेन लक्षशो यहूदीनां कृता हिंसा स्मृतिपथमायाति । स जर्मनीदेशस्य १,६५,००० मितान् यहूदीयान् घातितवान् । इतोऽप्यधिकं त्वेतद् यद् - जर्मनीदेशे वसन्तः सहस्रशो भिक्षुका मनोरोगिणो विकलाङ्गाश्च जनास्तेन घातिताः । स यान् युरोपीयदेशान् जितवान् तत्रत्या यहूदीजातेविरोधिनो नागरिका यहूदीयजनविषयकं वृत्तं नाझीसैनिकेभ्यो ज्ञापयित्वा लक्षशो यहूदीयानां घातने निमित्तीभूता जाताः । नाझीसैनिकाः २६लक्षमितान् यहूदीयान् गुलिकया मारितवन्तः, २८लक्षमितांश्च विषमयवायुप्रकोष्ठे पूरयित्वा मारितवन्तः ।
युद्धकाले तु सैनिकानां मरणं सामान्यम् । किन्तु द्वितीयविश्वयुद्धे युद्धरतानां सैनिकानामपेक्षया निःशस्त्रा युद्धबन्दिनोऽत्यधिकतया मृताः । जर्मनीयसैन्येन ५७लक्षमिता रशियादेशीयाः सैनिकाः गृहीताः आसन् । तेभ्यः ३५लक्षमितास्तु बुभुक्षयाऽत्याचारेण शीतेन रोगैश्च मृताः । रशियादेशीयसैन्येन गृहीतानां लक्षशो जर्मनसैनिकानामपि तादृश्येव दशा जाता ।
अस्मिन् युद्धे १.९१कोटिमिताः सैनिकाः ४.५९कोटिमिताश्च प्राकृता जना मृताः । विकलाङ्गानां, बुभुक्षया मृतानां, धर्षितानां च महिलानां तु गणनैव नास्ति ।
२८
Page #38
--------------------------------------------------------------------------
________________
तदात्वे भारतीया अपि ४५सहस्रमिताः सैनिका युद्धे मृताः । तथा १९४३तमे वर्षे युद्धनिमित्तं पूर्वीयभारतात् सर्वमपि व्रीहि-धान्यं चर्चिलेन स्वदेशे(आङ्ग्लदेशे) आनायितम् । एतेन बङ्गराज्ये दुष्कालपरिस्थितिर्जाता । फलतश्च ३०लक्षमिता जनाः मृताः ।
एवं चैतैः क्रूरैः शासकैः स्वीयमहत्त्वाकाङ्क्षां पूरयितुं कोटिशः सामान्यजनाः मरणमुखं प्रापिताः । एतेषां च क्रूरशासकानां मध्ये कः आसीत् क्रूरतमः ? – इति प्रश्नस्योत्तरं तु वाचकानां विवेकमवलम्बते खलु !।
Page #39
--------------------------------------------------------------------------
________________
रङ्गमञ्चः
विजेतुर्व्यथा
डो. कान्ति गोरः 'कारणः'
(समयः रात्र्याः, कालिंगस्य रणभूमेः समीपे अशोकस्य स्कन्धावारः, रङ्गमञ्चस्य वामतः अशोकस्य शिविरं दृश्यते । बहिः प्रतिहारी तिष्ठति । दक्षिणतो युद्धभूमिः । नाट्यारम्भे अशोकस्य शिविरोपरि प्रकाशेऽस्ति । अन्यो भागोऽन्धकारमयः ।) अशोकः (शिविराबहिरागत्य) प्रतिहारिन्, रणभूमेः का स्थितिः ? प्रतिहारी महाराज ! भवतोऽपरिमेय-शौर्य-समक्षं कलिङ्गोऽवनतो जातः । मध्याह्नं यावत् भवत
उपस्थिति-गिधीय-सैनिकेषु प्रोत्साहमसिञ्चत् । इदानीं तु कलिङ्गस्याऽवशिष्टः प्रतिकारोऽपि शान्तः । अस्माकं व्रणितानां सैनिकानां शुश्रूषाया व्यवस्था कल्प्यते । रणाङ्गणं नीरवम् ।
महाराज! वर्षेभ्यो मगधस्य पुरतोऽविजितस्य कलिङ्गस्य पराजयरूपो मनोरथः फलीभूतः । अशोकः दण्डदीपं सज्जं कुरु । अहं रणभूमि द्रष्टुं पराजितानां कलिङ्गवासिनां सत्कारमनुभवितुं
समुत्सुकोऽस्मि । प्रतिहारी इत इतो महाराजः । सर्वमुपपन्नमेवाऽस्ति । (रङ्गमञ्चोपरि तथा प्रकाशायोजनं भवेत् यथा शिविरसम्मुखिनी रणभूमिदृश्येत ।) अशोकः अत्यन्तं प्रसन्नोऽस्मि । मागधसैनिकानां विजययात्राया अवरोधकस्य कलिङ्गराजस्य सैन्यस्य
दशामवलोकयामि । स गर्वितो राजा येषां समर्पितचित्तानामुपरि विश्वस्त आसीत् तेषां कलिङ्गानां नरवीराणां मृतदेहै: परिपूर्णां रणभूमिं द्रष्टुमिच्छामि । मामकानां मागधवीराणां यशोगाथां प्रत्यक्षं द्रष्टुमिच्छामि । अहो ! कियत् शान्तेयमन्धकारस्य कज्जलमाच्छाद्याऽवस्थिता
रात्रिः । प्रतिहारी महाराज ! अशोकस्य पराजितानां शत्रूणां मलिनमुखसमा श्यामला, मागधसैनिकानामप्रतिमशौर्येण प्रभावेण च स्तब्धानां कलिङ्गवासिनां भयाक्रान्तहृदयसमाना ।
३०
Page #40
--------------------------------------------------------------------------
________________
अशोकः प्रतिहारिन् ! निःशब्दाया रात्र्या नीरवत्वस्य भञ्जकः कीदृशोऽयं स्वरः ? प्रतिहारी
अशोकः
प्रतिहारी
अशोकः
प्रतिहारी
महाराज ! कलिङ्गवासिभिर्भवत: सामर्थ्यं न्यूनमाकलितम् । तेषां नृपस्य गर्वोन्मादस्य भुक्तं फलमिदम् ।
अशोकः
कुत्र प्राप्तावावाम् ?
प्रतिहारी महाराज ! युद्धभूमिं प्राप्तौ ।
अशोकः
प्रतिहारी
प्रतिहारी
अशोकः
प्रतिहारी
महाराज ! ईप्सितं भोजनं प्राप्य हृष्टा श्येन - गृध्रादिपक्षिणः शृगालादयश्चेष्टभोजनदस्य भवतो विजयं वर्धापयन्ति । भवतः खड्गप्रभावेण समग्रं रणाङ्गणं मांसभोजिनां पशुपक्षिणां भोजनालयत्वेन परावृत्तम् ।
अशोकः
प्रतिहारिन् ! कलिङ्गनरेशं मगधस्याऽऽधिपत्यं स्वीकर्तुं नैकधा प्रस्तावं प्रेषितवान् । वारद्वयं सान्धिविग्रहिकाः प्रेषिताः । किन्तु परिणामः ? शून्यम्... ।
सैनिकाः ! दण्डदीपस्य प्रकाश इतस्तावत् । हं... कुत्राऽस्ति कलिङ्गस्य समुद्रसमं विशालं सैन्यम् ?
तत्तु अगस्त्यसदृशस्य सम्राजोऽशोकस्य क्रोधहुताशनेन शोषितम् ।
मगधस्य महावरोधरूपं कलिङ्ग धराशायिनं दृष्ट्वोत्फुल्लमिव मे मनः । अहो ! सैनिका: ! प्रकाशमत्राऽऽनयन्तु किमिदं पदाहतं मम ?
महाराज ! कलिङ्गवासिभिर्भवतः सामर्थ्यं न्यूनं परिमातम् । तेषां नृपो गर्वोन्मत्त स्थितः तस्यैव फलं भुक्तमेतत् ।
महाराज ! एतत्तु एतत्तु
ओह ....
हस्ते
ओह् ... एष तु कस्यचित् सैनिकस्य विच्छिन्नश्चरणः ... अपि च एष हस्तः,
तु मदनफलं बद्धमस्ति । एष तु कश्चिद् नवोद्वाहितो युवा । किं स्यात् तस्य पत्न्याः ? तस्या मनोरथाः ? इममन्तरा तस्याः दशा हे भगवन् !
...
...
***
...
1
***
महाराज ! किमर्थं व्यथते ? स युवकस्तु वीरगतिं प्राप्नोत् । स तु स्वर्गेऽप्सरसां नृत्यगानादिषु प्रवृत्तः स्यात् । तस्य पत्नी अपि तस्य शिरोऽङ्के निधाय पतिं मेलितुं स्वर्गं प्रस्थिता स्यात् । तस्य मस्तकस्याऽत्राऽनुपस्थितिरपि तदेव सूचयति महाराज ! भवतो वीरतायाः प्रभावः सर्वत्र दृश्यते ।
एतावन्तो मृताः सैनिकाः, एष गजः, अश्वानां मृतदेहानां पङ्क्तयः, तदुपरि भ्रममाणा इमे गृध्राः, अहो ! कीदृक् हृदयविदारकं दृश्यम् । सैनिका: प्रकाश इतस्तावत्,
३१
Page #41
--------------------------------------------------------------------------
________________
प्रतिहारी
अशोकः
अशोकः
प्रतिहारी अशोकः
अहो ! लघुपर्वतसमो गजः, तस्य दन्ते संलग्नस्याऽस्य सैनिकस्याऽऽन्त्रमाला बहिनिःसृता। कीदृशं दयनीयं मरणम् !! राजन् ! कीदृग् गौरवपूर्णं वीरोचितं मरणम् । महाराज ! किञ्चिदितोऽप्येनं वीरसैनिकं पश्यतु । मरणानन्तरमपि तस्य हस्तेन खड्गः कथं दृढतया धृतः ? कृतनिश्चयत्वात् संयोजितावोष्ठी, रौद्रं मुखं, मन्ये इदानीमेव प्रहरिष्यतीति । किन्तु द्वयोरपि मृतसैनिकयोनयनयोर्नयने संरोप्य द्रष्टुं प्रयतस्व, तयोः स्थिरदृशोर्द्रष्टुं न शक्ष्यसि । यदि द्रक्ष्यसि तयपि तत्र विद्यमानं गभीरत्वं ज्ञातुं न पारयिष्यसि । पश्य कीदृशी जिजीविषा तयोर्मुखयोर्निस्तरति ? तयोर्जीवनं धन्यं जातं महाराज ! नाम अमरमभवत् । को ज्ञास्यति सहस्रशो मृतानां सैनिकानां नामानि ? कः स्मरिष्यति तेषां समर्पणम् ? जनानां स्मृतिरत्यल्पकालीना भवति । मित्र ! यशस्तु विजेतारः सम्राजो लभन्ते । साधुवादो भवति विजेतुः सेनापतेः । एकः प्रश्नो मां पर्युत्सुकीकरोति । किमेतद् युद्धमावश्यकमासीत् खलु ? कोऽस्य युद्धस्योत्तरदायी ? उत्तरदायी कलिङ्गनरेशः । तस्य हठिलं वर्तनं तथा तस्याऽतिमानिताऽस्य कृते उत्तरदायिनी। प्रतिहारिन् ! स्वातन्त्र्यप्रीतिर्गर्वो न गण्यते । स्वतन्त्रतायै कृतं युद्धं नाऽवमाननीयम् । अहो ! किमदं मम चरणाधो दृब्धम् । एतत्तु कस्यचित् योद्धर्मस्तकम् । तस्मिन् जीविते सति किमित्थं कश्चित् स्पर्श कुर्यात् ? महाराज ! भवत्समक्ष खड्ग-उत्तानकस्य मस्तकमित्थमेव धूलिधूसरितं भवेत् । सैनिकाः ! अद्याऽहं वैक्लव्यमनुभवामि । न जाने किमर्थमेषा प्रशंसा मे न रोचते । युष्माकं सम्राट् अकथ्यमसह्यं दुःखमनुभवति । सर्वदोत्साहप्रेरयित्रीयं रणभूमि रद्य मां हतोत्साहं करोति । महाराज ! स्मरति खलु ? कुत्र प्राप्तवान् भवान् ? ज्ञातः खलु रणभूमेरेष भागः ? एषाऽधित्यका ? आम् । तदैवैतत् स्थलं यत्र कलिङ्गाधिपति रक्षितुं शतं मृत्युप्रतिज्ञका योद्धारो मयि भीषणमाक्रमणमकुर्वन् । ततः सृष्टं तुमुलं युद्धं, किन्तु महारथिनः अशोकस्य पुण्यप्रकोपे ते शतं योद्धारो हुताः । भवतस्तद् रौद्रस्वरूपं मम नयनयोः समक्षं नृत्यति । कालजिह्वासमस्य भवतः कृपाणस्य विद्युन्निमेषा इव ते प्रहाराः ॥... महाराज ! सा शौर्यगाथा युगान्तरेष्वप्यमृता स्थास्यति ।
३२
प्रतिहारी
महाराज ।
अशोकः
प्रतिहारी
अशोकः
प्रतिहारी
Page #42
--------------------------------------------------------------------------
________________
अशोकः
प्रतिहारी
अशोकः
शुद्धरागः
प्रतिहारी ( दूरतः रवः श्रूयते)
सैनिक:
चारण- बन्दिनः कवयो भवतो युद्धप्रावीण्यं युगानि यावत् गास्यन्ति । मागधी प्रजा अपि ... अलं प्रतिहारिन् ! विरम । नैषा प्रशस्तिः । न युज्यते शौर्यगाथाः । न शुश्रूषामि मदोन्मत्तकारिणी: प्रशस्तीः । (शब्दं श्रवणाभिनयं निरूप्य) कुत एते वेदनाचीत्काराः । समरभूमौ आलुठ्यमाना व्रणिताः कलिङ्गस्य सैनिका वेदनयाऽऽर्त्तनादं कुर्वन्ति । कलिङ्गेषु नेदानीं युवानोऽवशिष्टाः, ये महाराज - अशोकस्य रोषमूढ्वा तान् साहाय्यं कर्तुं साहसं दर्शयेयुः ।
अशोकः
सैनिकाः ! युद्धाहतानां साहाय्यं कुर्वाणानस्माकं सेवकान् कथयन्तु यत् विना भेदभावं कलिङ्गसैनिकानामपि साहाय्यं कुर्वन्तु, व्रणितानां शुश्रूषाया व्यवस्थां च कुर्वन्तु । इदानीं न कोऽपि नः शत्रुः । यः प्रतिकारं करोति तं जीवितमेव बन्धने गृह्णन्तु । निष्कारणो रक्तपातो मा भवतु । अस्यां समरभूमौ मे मनोऽधिकाधिकं खिद्यते । पराजितां राजनगरीं द्रष्टुमिच्छामि । इत इतो महाराज: । वयं पराजित - महानगरं प्रविशामः ।
शुद्धरागः
अशोकः
शुद्धरागः रे नृशंस सम्राट् ! कलिङ्गस्य नागरिकोऽहं शुद्धरागः मम नाम ।
प्रतिहारी अरे शुद्धराग ! तव सङ्गीतोपासनायां काचित् त्रुटिरवशिष्टा वा ? कथमद्य विस्वरं वदसि ? शुद्धरागः रे नृपमपथे नियन्त्रक... निर्माल्यदास ! त्वं कलां कुतोऽवगच्छेः ? (अशोकं प्रति) अयि क्रूर सम्राट् ! तवेमे सैनिका मां बद्ध्वा तवाऽऽगमनस्याऽऽनन्दाय सङ्गीतस्य मधुराः सुरावलीरुन्मोक्तमादिशन्ति ।
कलाकारमित्र ! विजयिनं सम्राजं सत्कर्तुं उत्सवा आयोजयितव्याः, सङ्गीत-नृत्यादीनां भव्य-कार्यक्रमाः कर्तव्याः । किमेतत् सामान्यज्ञानमपि कलिङ्गवासिषु नास्ति ?
महाराज ! किमेकं प्रश्नं कर्तुं शक्नोमि ?
इमां वीणां तदैव पुनराप्स्यसि यदा महाराज- अशोकस्य विजय - वर्धापन-गीतानि गास्यसि । स्मर्यतां, यदि गीतानि न गास्यसि तर्हि तव परिवारजनास्तव मृत्युशोकगीतानि गास्यन्ति । नहि नहि नाऽहं प्रभवेयम् । मम वाद्यं न खल्वद्याऽऽनन्दस्य स्वरं निनदिष्यति । मम खेदात् कल्याण-मङ्गलसूचकानि मधुरगीतानि न प्रकटिष्यन्ति । मृत्युभयं दर्शयित्वा न भवान् मम कलां विवशां कर्तुमर्हति । धनेन क्रेतुं न शक्ष्यति, अनुमतिं ददातु। मम वीणां प्रतियच्छतु । सैनिका निर्दोषान् नगरजनान् पीडयन्ति । सैनिकाः ! मुञ्चन्तु ! भ्रातः ! अत्राऽऽगच्छ । किं नाम ते ?
I
३३
Page #43
--------------------------------------------------------------------------
________________
अशोकः अवश्यम् । यथामति प्रत्युत्तरं दास्यामि । शुद्धरागः सम्राट् ! यस्मिन् गृहे यूनो मृत्युः स्यात् तस्मिन् गेहे वीणाया मधुरः स्वरः श्रूयते उत
हृदयद्रावकं दारुणं कल्पान्तम् ? अशोकः कीदृशोऽविचारितः प्रश्न: ? तत्र तु मर्मभेदकं रोदनमेव व्याप्तं भवेत् । प्रतिहारी किं तेन तव ? त्वं किमर्थं सङ्गीतं न श्रावयसि ? शुद्धरागः कलिङ्गस्याऽनेकेषां युवकानां नृशंसतया हत्यां कृत्वा तवाऽयं मूर्खः सम्राड् उत्सवस्य
भव्यस्वागतस्याऽपेक्षां करोति । सङ्गीतकारस्यैकमेव पुत्रं कृपाणेन क्षतविक्षतं कृत्वा तस्मात्
स्वागतस्य मनोरम्याणि गीतानि काङ्क्षति ? अशोकः शुद्धराग ! सङ्गीतकारस्य स्वरे न शोभते एतावती कटुता । तव पुत्रः स्वदेशं रक्षितुं
राष्ट्रधर्मस्य यज्ञस्य भव्या आहुतिः जातः । गौरवमनुभवेदेतादृशस्य पुत्रस्य जनकः ।
आनन्दोत्सव उद्यापनीयः ।। शुद्धरागः सत्तालोलुप सम्राट् ! पुत्रस्तु जीवनं सार्थकं कृतवान् । हन्त ! मम अपरोऽपि पुत्रोऽभविष्यत्
मम यौवनं वा पुनरागमिष्यत्... । दुःखमस्ति मे पुत्रस्याऽकारणबलिदानस्य । प्रतिहारी बलिदानं कदाऽप्यकारणं भवति ? शुद्धरागः यदि मे पुत्रो हिंस्रपशोः कमपि रक्षन्नमरिष्यत् तर्हि तत् सकारणं मरणं मन्येय, किन्तु तस्य
मृत्योः कारणमस्ति एको मानवः । मनुजो मनुजम् एतावत्क्रूरतया कथं कृन्त्यात् तन्नाऽहमवगच्छामि । पशुरुदरपूत्यै कस्याऽपि घातं करोति । किन्तु मम पुत्रस्य मरणे
उत्तरदायिन्यस्ति तव सत्तालालसा, परपीडनान्दानुभाविनी विकृता राक्षसी-मनोवृत्तिः । अशोकः सङ्गीतकारमित्र ! शान्तो भव । स्वस्थो भव । शुद्धरागः मम स्वस्थतां तु त्वं सर्वथा हृतवान् । क्रूर नृप ! किं प्राप्तमनेन भयङ्कर-नरसंहारेण ? त्वं
मम पुत्रस्य घातकः, मत्तः स्वरावलीमपेक्षसे ? भावनाः कथं व्यक्तीकुर्याम् ? प्रतिहारी सैनिकाः । महाराजस्य अवमानन-कर्तारं मूढकलिङ्गवासिनं किञ्चित् सभ्यतायाः पाठं
पाठयन्तु, येन स सम्राजः शिष्टाचारमधीयेत । अशोकः मा मैवम् । सैनिका एनं ससम्मानं मुञ्चन्तु । शुद्धरागः क्रूर सम्राट् ! सैनिकानादिश यत् ते मे वधं कुर्वन्तु, यतोऽहं मम पुत्रं मिलेयम् । तव पापं
मुखं न पुनरीक्षणीयं भवेत् ।। प्रतिहारी मूर्ख ! महाराजस्य क्षमावृत्तिं तस्य कातरतां मा गणय ।
३४
Page #44
--------------------------------------------------------------------------
________________
सुचेता (प्रविश्य) सत्यं, अयि गर्वोन्मत्त विजेतः ! तं वृद्धं, दरिद्रमहिंसकं कलाकारं शीघ्रं मारय,
येन ते विजयस्याऽपूर्णत्वं पूर्णतां गच्छेत् । प्रतिहारी अये गविते ! का त्वम् ? मगधनरेशेन कलिङ्गजेत्रा अशोकेन सहेदृशस्य व्यवहारस्य फलं
जानासि ? सुचेता मूर्खराजस्य मूर्खचाटुकार ! कं त्वं कलिङ्गजेतारं कथयसि ? राजा सन् अपि यो न जानाति
यत् खड्गेन प्रदेशा जिता भवन्ति, न खलु हृदयानि । सर्वेषां धिक्कारपात्रमेनं नरराक्षसं त्वं
विजेतारं कथयसि ? अशोकः काऽसि त्वं भगिनि!? मय्यकारणक्रोधस्य किमपि कारणम् ? रात्रिसमये इत्थं निरङ्कुशतया
विचरणं तव कुलस्य कृते शोभास्पदं किम् ? तव पिता वा पतिः कोऽपि त्वां नाऽवरुद्धवान् ? सुचेता कलिङ्गविजेतः सम्राट् ! पिता पतिश्च तव विजयकपाले आहुतिं गतौ । विजयोन्मत्तानां
निरङ्कुशानां तव सैनिकपशून् समाश्रितानां नगरवासिनां कुलगौरवाणि कुतः ? अशोकः भगिनि ! त्वं तव मर्यादामुल्लङ्घसे । सुचेता अयि मर्यादापालक सम्राट् ! ज्ञातुमिच्छामि तावत् - किं मगधे दुर्भिक्ष आपतितः ? प्रतिहारी
सम्राजं प्रतीदृशोऽविचारितः प्रश्नः ? मगधभूमिस्तु सस्यश्यामला विद्यते । धान्यानां तु
कोशाः सम्भृता अस्मत्समीपे । सुचेता तर्हि तु धनकोशा रिक्ताः स्युः । अशोकः भगिनि ! मगधस्य वित्तकोशास्तु यक्षराजकुबेरस्य धनागारवदक्षयाः सन्ति । सुचेता अहो ! तर्हि तु धनवान् भिक्षुकस्त्वम् । प्रतिहारी अज्ञे नगरवासिनि ! यथा यथाऽहं तव मानं रक्षामि तथा तथा तव प्रलापो वर्धते । किं नाम
तव ? सुचेता इमं नश्वरदेहं जनाः सुचेता इति नाम्ना जानन्ति । अशोकः सुचेते ! तव चेतना लुप्ता खलु ? त्वं मगधसम्राजं भिक्षुकं कथयसि ? प्रतिहारी सम्भवतः कलिङ्गे सर्वे भिक्षुका एव निवसन्ति ! सुचेता नृपस्य चाटुकार ! भिक्षुकः किमर्थं भिक्षां याचते ? प्रतिहारी स्वनिहिं कर्तुम् । उदरपूर्त्यर्थम् । सुचेता याचकः स्व-आवश्यकताः सन्तोष्टुं भिक्षां याचते । अशक्तवात् स लुण्ठनं कर्तुं न शक्नोति ।
Page #45
--------------------------------------------------------------------------
________________
प्रतिहारी अशोकः सुचेता
अशोकः
प्रतिहारी
अशोकः
तव सम्राट् बलवान् सन् सत्ताया बलेन प्रदेशान् जयति । तस्य पार्वे सर्वमप्यस्ति तथाऽपि स शक्तिमान् भिक्षुकोऽस्ति । धनवान् भिक्षुकः अस्ति । सैनिकाः गृह्यतामेषाऽविचारिणी नारी । निगृह्णन्त्वेनाम् । नहि । तिष्ठन्तु । अशोकः सत्यवादिनां सम्मानं करोति । राजन् किमर्थमवरोधयसि ? कलिङ्गं युवरहितं भावयित्वा किमर्थं युवतिषु दया ? भवादृशानां सत्तालोलुपानां शासने जीवनात् मरणं वरम् । करालमुख सम्राट् ! अत्र तव शासने जीवनात् मरणमेवाऽधिकमुपकारकं शान्तिदायकं च । कथय मां किमर्थमिदं युद्धं त्वया कृतम् ? भगिनि ! न खल्वस्य प्रश्नस्योत्तरं मम समीपे । शक्यं चेत् क्षमस्व माम् । एष रणवीरः अशोकस्तव प्रश्न-प्रहारसमक्षं निरुपायः, अशक्तः । नाऽहमात्मरक्षणं कर्तुं शक्नोमि । न दृश्यन्ते दिशः । इदानीं तु मम दशामपि ज्ञातुं न पारयामि । महाराज ! किमिदं ब्रवीति भवान् ! भवन्तं कालमुखं कथयित्रीमिमामसंस्कारिणी क्षमां याचते ? आज्ञापयत्वस्मान्, भवत्पुरस्तादुद्दण्डतया स्थितानिमान् कलिङ्गवासिनः क्षणद्वयेनैव भवच्चरणयोरवनतान् भावयामः । प्रतिहारिन् ! अद्यतनः अशोकः, युद्धप्रियः अशोकश्च, तौ द्वावपि भिन्नाविव मे प्रतिभातः । सौभाग्यखण्डकं, पितृहन्तारं मामेषा सन्नारी कालमुखं न कथयति चेदेवाऽऽश्चर्यम् । गच्छ भगिनि ! त्वं वज्रकठोरस्याऽशोकस्य हृदयं द्रावितवती । युद्धभूमौ यस्य तापं क्षणमपि कश्चित् न सहेत तादृशः अशोकऽद्य तव नयनयोः समक्षं सायुज्यं कर्तुं न शक्नोति । कलिङ्गवासिनां वेदनामद्याऽहमनुभवामि । किन्तु मम विजेतुर्व्यथां कोऽवगमिष्यति ? इच्छामि पथदर्शकम् । कञ्चित् शान्तिदूतम् । कञ्चित् सत्पुरुषं यो मम जीवनपथं दीपयेत् । महाराज ! परमज्ञानी, आचार्य उपगुप्तः सम्प्राप्तः । अहो आचार्य उपगुप्तः । नमस्काराः । स्वागतम् । अद्यत्वे भवदागमनं कियदुचितमनिवार्य चाऽस्तीति कथं व्यक्तीकरोमि ? तृषार्तो जलार्थं व्याकुलः स्यात्, तृषा प्राणा गमनोत्सुका भवन्ति, तदा मधुरं जलं नीत्वा कश्चिद् देवदूतः सस्नेह-स्मितं पुरत उपस्थितो भवेत् तादृशं भवदागमनम् । मार्ग दर्शयतु गुरुदेव । राजन् ! स्वस्थो भव । अन्यस्तु केवलं मार्ग दर्शयितुं शक्नोति, मार्गे गमनं तु स्वयमेव कर्तव्यम् । तुमुलयुद्धस्य समाचारं ज्ञात्वा दुःखितानां सहभागीभवितुम् अत्राऽऽगतः । दैवाद् भवता सह समागमोऽभवत् । उचितसमये एवाऽऽगमनं भवतः । गुरुदेव ! जगतो जागरणकाले सूर्योदयो भवति एव ।
३६
सैनिकः अशोकः
उपगुप्तः
अशोकः
Page #46
--------------------------------------------------------------------------
________________
अत्र तु कालरात्रिश्चलति । भवान् प्रकाशांशुर्भूत्वा समायातः । उपगुप्तः राजन् ! सूर्यस्तु स्वसमये उदेत्येव । किन्तु शयितारः स्वपन्ति । भवते विजयोऽपेक्षित
आसीत् स प्राप्तः । एषा व्यथा किंनिमित्ता ? अशोकः किमेष विजयः कथ्यते गुरुदेवः ? एष तु मम घोरपराजयः । महाभयङ्करे रक्तपाते,
नरसंहारस्य सागरे आकण्ठं निमग्नोऽहम् । आधारैषिणो मम निराधारस्य सहायको भवतु । उपगुप्तः
राजन् ! भवत्परम्परानुगुणं विजयोत्सवमकृत्वा किमर्थं व्यथितः ? एतादृशानि युद्धानि तु
सामान्यानि भवत्कृते । कश्चिदपमानं कृतवान् वा भवतः ? अशोकः नहि महात्मन् ! अद्य कश्चित् मां स्वमानभानं कारितवान् । दिनमिदं विजयोत्सवस्य नाऽपि
त्वात्ममन्थनस्य । हिंसाया भयात् जना भयभीताः कर्तुं शक्यन्ते, तेषां शरीराणि नामयितुं शक्यन्ते किन्तु हृदयानि तून्नतान्येव भवन्ति । महायुद्धस्य विजयेनाऽभिनन्दनानि तु प्राप्यन्ते किन्तु स भयप्रभावादुद्गतः कृत्रिम आलोकमात्रो भवति । तस्या अभिनन्दनवर्षायाः पृष्ठेऽश्रूणां महासागरो भवति । वर्षाणि यावत् छिन्न-भिन्न प्रजाजीवनम्, अनेकेषां धिक्काराः, आहतानां वेदनाः, मृतानामभिशापाः, जीवितानां निःश्वासाः । विजेता प्राप्नोति खल्वितिहासे सर्वथा कलङ्कितं स्थानम्, हे महाज्ञानिन् भिक्षुवर ! अहं तु यथार्थरूपेण राजा भवितुमिच्छामि।
वाञ्छामि च भवत्कृपां मार्गदर्शनं च । उपगुप्तः वत्स ! बहुवारं मानवः क्षणिकावेगेनेत्थं चिन्तयति । नैष सत्ताधीशानां स्थायी भावः ।
खड्गधारकः शान्तिदायकं चामरं धृत्वान्येभ्यः शीतलतां दातुं नाऽधिकं प्रभविष्यति राजन् ! अशोकः गुरुदेव ! नैषः क्षणिक आवेगः । एष तु अशोकस्य हृदयस्य यथार्थो वर्णः । आदिशतु
मां गुरुदेव !। उपगुप्तः राजन् ! विश्वं सुखितं कर्तुं राजभवनत्यागिनं भगवन्तं तथागतमनुसर । हिंसां त्यज । भवने
निवस किन्तु सुखाय न, प्रजाकल्याणाय । साम्राज्यानां सीमविस्तारणापेक्षया लोकानां हृदयेषु विस्तर । क्षुधार्ता भोजनं प्राप्नुयुः, तृषार्ता जलं प्राप्नुवन्तु, कोऽपि दुःखितो निःसंकोचं भवन्तं मेलितुं शक्नुयात्, न कुत्रचिदन्यायः स्यात्, कश्चिद् भीतो न स्यात् तादृशमादर्शराज्यं स्थापय । कृपाणस्य स्थाने न्यायदण्डं धारय । जनसमृद्धः स्वामी नैव, रक्षको भव । प्रजाया विनाशं न, विकासं कुरु । राजन् ! प्रजां जेतुं हिंसा वा भयं न, अपि तु स्नेहः समर्थः । महाभयङ्करो रौद्रस्वरूपो नाऽपि तु प्रियदर्शी अशोको भव । महाननुग्रहो जातो गुरुदेव !, अद्याऽऽरभ्य एष सम्राट अशोको धर्मशासनं स्वीकरोति । एनं रक्तपिपासितं खड्गं भवच्चरणयोः समर्पयामि । इदानीं त्वहिंसाचरणमेवैकमात्रलक्ष्यम् ।
अशोत
३७
Page #47
--------------------------------------------------------------------------
________________
प्रजाकल्याणमेव कर्तव्यम् । स एव राजधर्मः । इदानीं सत्ताया उपयोगः केवलं प्रजाकल्याणायैव भविष्यति । प्रणामाः, बोधिसत्त्वचरणयोः प्रणामाः । हृदयान्महान् भारोऽपसृतोऽद्य । अधुना एक एव नादः । एक एव स्वरः, जीवमात्रस्य रक्षणं कल्याणं च ।
(पार्श्वसंगीतेन सह समूहगानम्) धम्म सरणं गच्छामि । संघ सरणं गच्छामि । बुद्धं सरणं गच्छामि ।
Page #48
--------------------------------------------------------------------------
________________
सत्यप्रसङ्गः
एकस्या रात्रेनिंदा
- धीरुबहेन-पटेल (गूर्जरमूलम्) __ (सं.) - कल्याणकीर्तिविजयः
तस्मिन् काले मुम्बई-महानगरस्य विद्युद्-रेलयात्रिणां मासिकं त्रैमासिकं चाऽनुज्ञापत्रं (Pass) प्राप्यते स्म । यस्मिन् दिनाङ्के तदवधिः पूर्णो भवेत् ततो दिनद्वयाभ्यन्तरे एव यदि तन्नवीक्रियेत (renew) तदा न्यासधनं (deposit) पुनर्न भर्तव्यमिति हि नियम आसीत् ।
___अहं सान्ताक्रुझ-विस्तारे निवसामि स्म, एल्फिन्स्टन-महाविद्यालये च पठामि स्माऽतो मत्पाबें चर्चगेटस्थानकात् सान्ताक्रुझस्थानकपर्यन्तमनुज्ञापत्रमासीत् । अहं किल सर्वदा पठन-लेखनादिषु व्यापृता भवामि स्माऽतो यथाकालं विद्यालयशुल्क(Fees) भरणेऽनुज्ञापत्रनवीकरणे च मम सखीनामुत्तरदायित्वमासीत्।
बहुशोऽस्मासु एवंविधाः संवादाः प्रचलन्ति स्म - 'अयि धीरो ! भवत्या अनुज्ञापत्रं नवीकृतं वा ?' 'नैव भोः !' 'किमर्थम् ?' 'भवत्या नैव स्मारितं ननु !' 'अतो ममैव दोषोऽत्र खलु !' 'निश्चप्रचम् ॥'
'अहो ! दक्षा खलु भवती !' - इत्युक्त्वा सा मम बालसखी मालिनी प्रथमं तु क्रुद्धा भवति स्म ततश्च हसति स्म ।
एकदैवं जातं यत् सर्वान्तिमदिने मया चर्चगेटस्थानकात् सान्ताक्रुझस्थानकं यावद् रेलयानयात्रां कृत्वा स्थानकाद् बहिः स्थानकनियन्तुः सकाशेऽनुज्ञापत्रं नवीकारितं, ततः ससन्तोषं गृहं प्राप्ता ।
पिता मम यथानियमं हिन्दोले उपविष्ट आसीत् । अहमपि सानन्दं तस्याऽन्तिकमेवोपविष्टा । आवयोर्द्वयोरपि पिता-पुत्रीसम्बन्धादप्यधिको मैत्रीपूर्णः सम्बन्ध आसीत् । अहं मम सर्वमपि वृत्तं निःसङ्खोचमेव
Page #49
--------------------------------------------------------------------------
________________
तत्पुरतो वदामि स्म । सोऽपि सर्वमेव साकाङ्क्ष शृणोति स्म कदाचिच्च स्तोकैः शब्दैर्मां श्लाघते स्माऽपि ।
जायमाने च संवादे स सहसा मामपृच्छत् - 'अनुज्ञापत्रं नवीकृतं वा ?'
'आम्, इदानीमेव कारितम्' – इत्युक्त्वाऽहं शिष्टानि रूप्यकाणि वारद्वयं गणितवती । ममाऽसामञ्जस्यं दृष्ट्वा स स्मित्वाऽवदत् - 'किं भोः ! गणनायां काऽपि क्षतिरस्ति वा ?'
'आम्... एवमेव प्रतिभाति' ।
'किं जातम् ? रूप्यकाणि न्यूनानि वा ? "
'नैव... मन्ये यदधिकानि सन्तीति' ।
ततो द्वि-त्रवारं पुनर्गणयित्वा कथितं मया यद् - 'मम तु प्रतिभाति यद् अवशिष्टं धनं प्रत्यर्पयता तेन स्थानकनियन्तुलिपिकारेण प्रमादाद् दश रूप्यकाणि मेऽधिकं दत्तानि' ।
'इदानीं भवती किं करिष्यति ?"
‘श्वः प्रातर्विद्यालयगमनकाले प्रतिदास्ये' ।
पिता क्षणद्वयं तूष्णीं स्थितः । ततो गभीरस्वरेणोक्तवान् - 'उत्तिष्ठतु, पादत्रे धारयतु' ।
सन्ध्या जाताऽऽसीत् । अन्धकारः प्रसरन्नासीत् । अस्मद्गृहे च सर्वकालीनो नियम आसीद् यत् सन्ध्यासमयात् पूर्वमेव गृहमागन्तव्यम् । एकाकिन्या गन्तव्यम् ? तदप्यस्मिन् समये ? तत्राऽपि पितुः प्रिया पुत्र्यहम्... । किञ्चिदिव मूढेवाऽहं तत्रैव स्थिता । पिता मां सदैव त्वं-कारेणैवाऽऽह्वयति स्म । अद्य स किमर्थं भवत्कारेण कथयति ?
किन्तु, अधिककालव्ययात् पूर्वमेव तेन कदाऽप्यनुपयुक्तया कठोरभाषया पुनरादिष्टं – 'भगिनि ! गच्छतु तावत्' ।
भवतु तर्हि । एवमादेशकरणं यद्यपि मे नैव रुचितं तथाऽपि तदङ्गीकर्तव्यं त्वासीदेव.... । मया पादत्रे धृते गन्तुं च प्रवृत्ता । मनसि सङ्घर्षः प्रवर्तमान आसीत्, किन्तु कस्याऽग्रे कथनीयम् ? स्थानकं प्राप्य तस्यैव लिपिकारस्याऽग्रे गत्वा कथितं - ' भवता प्रमादान्मेऽधिकं धनं प्रतिदत्तमिति मन्ये' ।
स परमसन्तोषेण मां निरीक्षमाणोऽवदत् - 'मम गणनायां दश रूप्यकाणि न्यूनान्यासन् । अहं द्वि-त्रवारं गणितवान्, किन्तु...' ।
'एतानि खलु तानि' - इत्युक्त्वाऽहं तस्य दशरूप्यकाणि प्रत्यर्पितवती ।
‘अहो भगवतः कृपा जाता, भवत्या भृशमाभारं मन्ये' – इत्युक्त्वा स सस्मितमभिवादनमकरोत् । अहं तु गृहं प्रतिगन्तुमारब्धा ।
४०
Page #50
--------------------------------------------------------------------------
________________
गृहप्रापणे भृशं विलम्बो जात आसीत् । मस्तिष्कं तु कोपादुष्णं जायमानमासीत् । मया ममाऽरुचिर्न शब्दैरपि तु मौनेन व्यक्तीकृता । तूष्णीमेव मया सर्वोऽपि नित्यक्रमः पूर्णीकृतः ।
शयनकाले गुरुजनानां चरणयोर्वन्दनं कृत्वैव शयितव्यमिति हि मे नियम आसीत् । नियमस्तु पालितो मया, परं मौनेनैव ।
पिताऽपृच्छत् – “किं रे ! अमर्षिता वा ?' 'नैव पितः !'। 'तर्युपविशाऽत्र भोः!' । उपविष्टाऽहं, किन्तु विरोधभावेन । ततः पित्रा पृष्टं – 'दत्तानि किल रूप्यकाणि ?' 'आम् पितः !' । 'सुष्ठ कृतं भोः !' । ततः स तूष्णीमभवत् । कञ्चित् कालं शान्तिः प्रसृता । प्रान्ते मयाऽमर्षेणोक्तं - 'भवानेव मां रात्रौ बहिर्गमने निषेधति, तद्वंद्य किमर्थं तूर्णमेव प्रेषिता?' 'तस्य लिपिकारस्य गणनायामद्यैव सर्वं सुस्थं स्यादित्यर्थम्' । "किमहं श्वः प्रातरेव तस्मै तद् धनं नाऽदास्यं ननु ?' मम पिता क्षणं यावन्मां निरीक्षितवान्, ततो मे मस्तके हस्तं परामृशन् कथितवान् -
'प्रियपुत्रि ! धनं तु त्वमदास्य एव... किन्तु निद्राम् ? कस्यचन निर्धनस्य लिपिकारस्य कार्यालयस्थगनसमये धनगणना यदि सम्यग् न जायते तदाऽऽरात्रि निद्रा नाऽऽयाति... । तस्यैकरात्रेनिंद्रां तु तस्मै त्वं कथमदास्यः ? कथय ननु !'
अहं किमपि वक्तुं सर्वथाऽसमर्था जाता... आजीवनं च प्रसङ्गमेनं विस्मर्तुमपि... ।
(सौजन्यम् : विश्वविहारः
अगस्त-२०१६)
Page #51
--------------------------------------------------------------------------
________________
कथा
राप्रपा
मुनिः अक्षयरत्नविजयः
(१) हृदयस्पर्शिनी कथा __ वयं जीवनं जीवामः, परिश्रमं कठिनमपि कुर्मः, नित्यं च कार्यरता भवामः । परमेतत्सर्वं किमर्थं कुर्मो वयम् ? स्वस्य सुखार्थं – स्वस्य प्रसन्नतायाः कृत एव खलु । वयं निजानन्दस्य चिन्तनमेव कुर्मः प्रधानतः । परं कदाचिज्जीवने परेषां प्रसन्नताया विचारोऽपि कर्तव्यः खलु । जीवनं नाम स्वसुखस्य चिन्तनमेव न, अपि तु परेषु निनिमित्तमुपकारवृष्टिकरणमपि जीवनम् । अत्र प्रस्तुता हृदयस्पर्शिनी सत्यकथा बोधयत्यस्मानिदं सत्यं बहुमूल्यम् -
कथेयं विदेशीया । अमेरिकाऽभिधे देशे घटितेयं कथा ।
तत्र विद्युच्छकटिका('ट्रक' इति लोके)चालकैरेकं साधनमुपयुज्यते स्म । तन्नाम 'C.B. Radio' इति । दूरध्वनेः प्रकाररूपं तत् साधनम् । कदाचिद् मार्गस्योपरि विघ्नो भवेत्, कदाचिद् हिमवृष्टिर्भवेत्, कदाचिद् यानसचट्टाद् यातायातेऽवरोधो भवेत्तदा यानचालका इमे परस्परं सन्देशं प्रयच्छन्ति स्म C.B. Radio इति साधनमाध्यमतः । यतोऽन्ये चालकास्तन्मार्गे प्रवासं न कुर्युः । एकदाऽस्मिन् C.B. Radio इति साधने कस्यचिल्लघुबालस्य ध्वनिः प्रसृतः ।
"Hello, मम ध्वनि कोऽपि शृणोति न वा ?" बालस्य स्वरं श्रुत्वैको यानचालकः प्रत्युक्तवान् - "वद, अहं शृणोमि त्वत्कथाम् ।"
वस्तुतो नैके विधुच्छकटिकाचालकास्तदा C.B. Radio इति साधनेन बालस्य कथां शृण्वन्ति स्म । बाल उक्तवान् - "पितृव्य ! मम नाम 'टेडी बेरः' इति । मम पिताऽपि विधुच्छकटिकाचालक आसीत् । तस्य पार्वे १८चक्रिणी विधुच्छकटिका आसीत् । स नैकशो मां स्वयाने पर्यटनं कारयति स्म । किन्तु..." टेडीबेरस्य स्वरः स्वदुःखस्मरणादीषदवरुद्धोऽभवत् ।
___"वत्स ! त्वं निश्चिन्तमनसा तव कथां कथय । अहं प्रयत्नं करिष्यामि तव सुखार्थम्" - यानचालक आश्वासनं प्रदत्तवान् बालाय ।
४२
Page #52
--------------------------------------------------------------------------
________________
बालकष्टेडीबेर आर्द्रस्वरेण पुनः स्वकथामारब्धवान् - "पितृव्य ! मम जीवनमासीत् सुखमयम् । मत्पिता नित्यं पर्यटनाय मां नयति स्म । परं, केभ्यश्चिद् दिवसेभ्यः प्राग् सोऽकस्माद् मार्गस्योपरि यानधर्षणाद् मृत्युमाप्तवान् । अधुना मम माताऽपि नित्यमाप्रभातं सायङ्कालपर्यन्तमाजीविकार्थं गृहाद् बहिः कार्यार्थं याति । विकलाङ्गोऽस्म्यहम् । निःशेषदिनमतो निकेतनेऽहमेकल एव निवसामि । अहं स्वात्मानमेकाकिनमनुभवामि, उद्विग्नतां च प्राप्नोमि नित्यम् । कृपया भवान् भवतां याने किं नेष्यसि मां पर्यटनाय ?" टेडीबेरः स्वस्य वार्तां समाप्तवान् । अनन्तरमेव क्षणे यानचालकः प्रत्युक्तवान् - "वत्स ! तव निकेतसङ्केतं देहि ।”
बालकस्य निकेतसङ्केत प्राप्य यानचालकः सङ्केतस्थानं प्रति प्रस्थितः । स्तोकसमयेन स सङ्केतस्थानं प्राप्तवान् । विस्मयप्रदमासीत् तत्रत्यं दृश्यम् । १८ चक्रिविद्युच्छकटिकानां तत्र श्रेणिरासीत् । आनुपूर्व्येण यानचालकाः सर्वे स्वयानेन पङ्गं टेडीबेरं पर्याटयन्ति स्म । सर्वे च तस्मै निःस्वार्थस्नेहं यच्छन्ति स्म । बालष्टेडीबेरस्त्वतिप्रीतवान् । सर्वयानचालकेषु स निजपितरं दृष्टवान् । तस्य नेत्रे अस्मिन् स्वार्थमययुगेऽपि निःस्वार्थहृदयानां सर्वेषां यानचालकानामुपकारं मन्येते स्म । सर्वे यानचालका अपि तस्याऽऽनन्दं दृष्ट्वाऽतिप्रमुदितवन्तः, जीवनसाफल्यञ्चाऽनुभूतवन्तः ।
अमेरिकाराष्ट्रं सामान्यतो मन्यते नाऽतिगुणाढ्यम्, तत्राऽपि प्रवृत्तं वृत्तमिदमद्भुतं प्रेरयत्यस्मान् यद् जीवनव्ययः कदाचिदन्येषां सहायार्थं परेषाञ्च प्रमोदार्थमपि कर्तव्य इति ।
(२) अप्रतिमस्त्यागः
11
मानवो जानाति वाऽनुभवति वा सुविधं यद् निजानन्दे प्राप्यते सुखम् । परं परेषामानन्ददाने तु प्राप्यते परमं सुखं तन्न जानाति सः । अत एव ज्ञापयन्ति महर्षयः "परोपकाराय सतां विभूतयः' इति । जीवितं न केवलं स्वसुखप्राप्त्यर्थमेव, अपि त्वन्यार्थमपि जीवनीयं कदाचित् । चिन्तनं न केवलं स्वसुखाप्तेः कार्यं, किन्तु परसुखाय स्वसुखस्य बलिदानमपि देयं कदाचित् । प्रवृत्त्याऽनयैव जीवनं भवेद् महार्घ्यं सुन्दरं प्रशस्यतमञ्च ।”
-
अस्मिन्ननुसन्धाने स्मृतिपथे समवतरति विरलं वृत्तमेकम् -
लाला लजपतरायस्य जीवनप्रसङ्गोऽयमद्भुतः । तस्य जन्मभूमिर्नाम पञ्जाबराज्यम् । तदा छात्रावस्थायामवस्थितो वर्तते स्म सः । लालालजपतरायः श्रेष्ठछात्र आसीत् । परं, 'बहुरत्ना वसुन्धरा' इति सूक्त्यनुसारेण तस्य पाठशालायां तस्मादप्यधिकस्तेजस्वी विद्यार्थी विद्यते स्म । तन्नाम 'गौरीप्रसादः ' इति । प्रतिवर्षं परीक्षायां प्रथमक्रमाङ्कं स एव प्राप्नोति स्म । लालालजपतरायः कामं प्रथमक्रमाङ्कमाप्तुं तीव्रपरिश्रमं कुर्यात्, तथाऽपि परिणामे स द्वितीयक्रमाङ्कमेवाऽऽप्नुयात् परीक्षायाम् ।
एकदा लालालजपतरायस्य प्रतिस्पर्धिनो गौरीप्रसादस्य जननी रुग्णावस्थां प्राप्तवती । अतो
४३
Page #53
--------------------------------------------------------------------------
________________
जनन्याः सेवाकार्ये गौरीप्रसादस्य सर्वसमयो व्यतीतः । ततः सोऽध्ययनं कर्तुं नाऽशक्नोत् । अत्राऽन्तरे परीक्षा समागतवती ।
चिन्तातुरो गौरीप्रसादः स्वमित्रमुक्तवन्तः
" मित्र ! अस्यां परीक्षायामहं महत्कष्टमनुभवामि । यतो रुग्णमातुः शुश्रूषायां प्रवृत्तोऽहं परीक्षार्थमीषदपि सज्जो नाऽस्मि । अस्मिन् वर्षे प्रथमक्रमाङ्कमाप्तुमक्षमोऽस्म्यहम् । यतो लालालजपतरायः प्रतिवर्षं त्रीन् यावदल्पगुणाङ्कुरेव ममाऽनुवर्ती भवति । यदि प्रथमक्रमाङ्को नाऽऽप्स्यते तर्हि प्रथमक्रमाङ्ककारणेन प्राप्तव्या शिक्षावृत्तिरपि (= प्रोत्साहनधनमपि) न लप्स्यते मया। अधुना यावत् प्रोत्साहनधनेनैवाऽध्ययनं करोम्यहं प्रतिवर्षम् । यदि तन्न लप्स्यते, तर्ह्यहमध्ययनं कर्तुं न शक्ष्यामि । मयाऽध्ययनमपूर्णमेव त्यक्तव्यं भविष्यति । यतो वयमतिनिर्धनाः स्मः ।"
“मैवं चिन्तय मित्र ! यदि त्वया प्रथमक्रमाङ्को न प्राप्येत तथाऽपि न कोऽपि बाधः । यतो वयं तव सहचरा विद्यमानाः स्मः । तव शालाकीयं शुल्कं वयं दास्यामः” गौरीप्रसादस्य मित्रेणाऽऽश्वासनं दत्तवत् ।
"न मित्र न", अनन्तरमेव क्षणे गौरीप्रसाद उक्तवान् - " तव स्नेहेन मम हृदयं पुलकितं भवति । त्वं सहृदयोऽसि, परमहमित्थं केषाञ्चित् सहायं स्वीकार्य विद्याभ्यासार्थं समुत्सुको नाऽस्मि । यदि शिक्षावृत्तिर्न प्राप्स्यते, तर्ह्यहं विद्याध्ययनं त्यक्ष्यामि नूनम् ।" गौरीप्रसादस्य मनोवृत्तिमिमां कर्णाकर्णि रीत्या लजपतरायो ज्ञातवान् ।
एक: कर्णेजपः सहचरस्तु लजपतरायं सानन्दमुक्तवानपि - " लजपतराय ! त्वं भाग्यवानसि । यतोऽस्मिन् वर्षे तव प्रतिस्पर्धी गौरीप्रसादो मातृसेवायां प्रवृत्तो दृश्यते । अतोऽस्यां परीक्षायां त्वयैव प्रथमो क्रमाङ्कः प्राप्स्यते । त्वं यत्नं कुरु ।"
परं, लाला लजपतरायस्य चित्तेऽन्यच्चिन्तनं प्रारब्धवत् । गौरीप्रसादस्य कष्टं श्रुत्वा सोऽपि व्यथितोऽभूत् ।
परीक्षाऽतिनिकटस्थाऽऽसीत् तदा गौरीप्रसादस्य रुग्णा माता मृत्युमाप्तवती । गौरीप्रसादो मातुः सर्वमुत्तरकार्यं कृतवान् । इतो लघुबान्धवानामाधारोऽप्यथ स एवाऽऽसीत् । अतः स तेषां संवर्द्धने परिपालने चाऽपि व्यस्तः सञ्जातः । फलतः परीक्षालक्षिविद्याभ्यासं कर्तुं नाऽशक्नोत् सः । दुःखिहृदयेन गौरीप्रसादः परीक्षां दत्तवान् ।
लालालजपतरायस्य सर्वाणि मित्राणि गौरीप्रसादः शालायाश्च सर्वे शिक्षका अपि जानन्ति स्म यदस्मिन् वर्षे परीक्षायां लालालजपतरायस्यैव क्रमाङ्कः प्रथम आगमिष्यति । परं परिणामदिने चमत्कृतिः सञ्जाता । यथापूर्वं लालालजपतरायो द्वितीयक्रमाङ्कमेवाऽऽप्तवान्, गौरीप्रसादश्चाऽऽदिमक्रमं प्राप्तवान् । सर्वे विस्मिता अभवन् ।
शालाया आचार्योऽपि विस्मयमनुभूतवान् । स लालालजपतरायमाहूतवान् पृष्टवांश्च – “लजपतराय ! अस्यां परीक्षायां तु त्वमेव प्रथमक्रमाङ्कं प्राप्तुमर्हसि । तथाऽपि त्वया गुणाङ्का अत्यल्पाः कथं प्राप्ताः ?”
४४
Page #54
--------------------------------------------------------------------------
________________
लालालजपतरायो रहस्यस्फोटं कृतवान् - "आचार्यवर्य ! भवतः कथनं नूनं सत्यम् । परं, गौरीप्रसादस्य माता रुग्णाऽऽसीत् । अतोऽस्मिन् परीक्षावसरे सोऽभ्यासं कर्तुं नाऽशक्नोत् । इतः प्रथमक्रमाङ्कप्राप्त्या शिक्षावृत्तिराप्यते । इमां शिक्षावृत्तिं विना सोऽग्रेऽभ्यासं कर्तुं सक्षमो न भविष्यतीति मया ज्ञातम् । अतो मया स्वतो निर्णीतं यत् प्रथमः क्रमाङ्को न काङ्क्षितव्यो मया, स तु गौरीप्रसादेनैव प्राप्तव्यः । यतः सोऽग्रेऽध्ययनाय क्षमो भवेत् । तत एव मया कठिनान्युत्तराणि तु लिखितानि, परं सरलान्युत्तराणि सर्वथा त्यक्तानि । विश्वसिमि यदनेनाऽहं सहायको भविष्यामि गौरीप्रसादस्य ।"
आचार्यः सहसा करौ संयुक्तवान् तत्कथां श्रुत्वा । तन्नेत्राभ्यां हर्षाश्रुबिन्दवोऽपि प्रसृताः । लालालजपतरायस्याऽप्रतिमं त्यागं वन्दितवान् स सान्तःकरणम् । तदा स्वकृतपरोपकार्येण लालालजपतरायोऽतितुष्यति स्म । वर्षेभ्योऽभीप्सितः प्रथमः क्रमाङ्कः कामं गतः, परं तेन परोपकारस्य महत् कार्यं कृतम् । अतस्तस्याऽऽनने हर्षलहरीस्तरङ्गायते स्माऽनन्या ।।
(३) जीवनं कीदृशं रचयितव्यम् ? __ जीवनस्य विरामवेलायां सत्यां केनचिद् गुरुणा स्वविनेया समाहूताः स्वस्य समीपम् । सर्वे शिष्याः शीघ्रं समागता उपगुरुम् । पश्चाद् वात्सल्यमयलोचनेन गुरुणा पृष्टम् - "हे विनेयाः ! दृश्यतां मम मुखस्याऽन्तः, कथ्यताञ्च कतिपया दन्ता विद्यन्ते तत्र ?"
गुर्वाज्ञया सर्वशिष्यैर्दष्टं गुरुमुखमुक्तञ्च सर्वैर्युगपत् - "गुरुदेव ! एकोऽपि दन्तो न दृश्यते मुखान्तः । सर्वेऽपि दन्ताः पतिता सन्ति ।"
"अहो ! किं कथयथ ? ननु जिवा तु विद्यते खलु ?' गुरुणा पुनः पृष्टम् । "ओम् ।" - शिष्याः प्रत्युक्तवन्तः ।
मर्मज्ञो गुरुरथ पृष्टवान् - "कथ्यताम्, एवं कथमभूत् ? यतो जिह्वा तु जीवनप्रारम्भदिनादस्माकं सहचर्यस्ति । दन्तास्तु पृष्ठत आगताः । जिह्वा समागतवत्यादौ, किन्तु सा विद्यतेऽद्य यावद् । इतो दन्तास्तु समागताः पृष्ठतस्तथाऽपि पतिता रसज्ञायाः पूर्वमेव कथम् ?"
विनेया उक्तवन्तः - "गुरुदेव ! वयं न जानीमः कारणं विस्मयस्याऽस्य । कृपया भवतैव कथ्यताम्।"
अथ गुरुणा जीवनपाथेयं प्रदत्तं सलीलम् - "प्रियविनेया ! श्रूयताम्, जिह्वाऽस्ति कोमला । स्वस्या मृदुस्वभावादेव सा विद्यतेऽद्याऽपि । इतो रदाः सन्ति पुरुषाः । पारुष्यमेव दन्तानां समाप्तेः कारणम् । बोधदमस्तीदं सत्यमस्माकं कृते यत् सुन्दरं दीर्घ जीवनं यदीष्टं भवेदस्माकं तदा जीवनं रचयितव्यं कोमलं नूनम् ।"
Page #55
--------------------------------------------------------------------------
________________
कथा
सत्प्रेरणम्
मुनिश्रुताङ्गचन्द्रविजयः
विद्युतः शोधकस्य 'एडिसन' इति नाम्ना ख्यातस्य वैज्ञानिकस्य जीवने घटितेयं घटनाऽतीव प्रेरणादायिन्यस्ति । स बाल्यकालेऽध्ययनेऽतीव मन्द आसीत् । तथापि प्रायश एवं भवत्येव यद् योऽध्ययने मन्दो भवेत् सोऽन्यकार्येषु निपुणो भवेत् । अयं नियमस्तस्य जीवनेऽप्यन्वेति स्म ।
तस्याऽध्ययने मन्दत्वात् कदाचित् शिक्षक एकं पत्रं लिखित्वा तस्मै दत्तवान् कथितवान् च - 'गृहं गत्वेदं पत्रं मात्रे दातव्यं किन्तु त्वया न पठितव्यम्' इति । गृहमागम्य एडिसनेन तत्पत्रं मात्रे दत्तम् । जननी पत्रं पठितवती । पत्रे पठिते सति एडिसनो जननी पृष्टवान् यत् - शिक्षकेण पत्रे किं लिखितमस्ति, तद् भवती ज्ञापयतु कृपया ।
जनन्योक्तं यत् – 'तव पुत्रोऽध्ययनेऽतीव निपुणोऽस्ति, अतस्तं प्रतिदिनं शालां प्रेषयतु' इति शिक्षकेण पत्रे लिखितमस्ति ।
अपरस्मिन् दिने माता एडिसनेन सह शालां गता । शिक्षकेण मिलित्वा तस्य कर्णे च मन्दं मन्दं किञ्चित् कथयित्वा सा प्रतिनिर्गता ।
शिक्षकेण स्वस्य प्रशंसा कृता इति विज्ञाय एडिसनस्याऽध्ययने उत्साहो वृद्धि गतः । ततः प्रभृति स सावधानतया पठनमारब्धवान् । स तावत् पठितवान् यद् आगामिनि काले स विद्युतः शोधनं कृत्वा जगत्प्रसिद्धोऽभूत् ।
काले व्यतीते सति तस्य माता वार्धक्येन गलितदेहा जाता । अल्पकालेनैव दिवङ्गता च । ___एकदा एडिसनो गृहे मञ्जूषास्थितानि पुराणानि पत्रादीनि वस्तूनि पश्यन् आसीत् । सहसा तस्य करतले बाल्यकाले शिक्षकेण लिखितं पत्रमागतम् । तत्पत्रं तेनाऽद्यपर्यन्तं न पठितमासीत् । पत्रे शिक्षकेण लिखितमासीत् 'त्वदीयपुत्रोऽध्ययने मन्दोऽस्ति, अतः स शालाया निष्कास्यते' इति ।
एतत् पठित्वा एडिसनस्य मस्तिष्कं विचारैः कम्पितम् । शिक्षकेण तु किं लिखितं पत्रे ? माता च मां किमुक्तवती ? यदि नाम माता सत्यमवदिष्यत् तर्हि अद्याऽहं विद्युत्शोधने शक्तो नैवाऽभविष्यम् । इति चिन्तयन् स मातरं प्रति कृतज्ञताभावेनाऽऽर्दीभूय रुदन् एव स्थितः ।
Page #56
--------------------------------------------------------------------------
________________
कथाद्वयम्
(१) औत्पातिकी बुद्धिः
मुनिनेमिहंसविजयः
एकदा भोजराजो नगरचर्यां द्रष्टुं निर्गच्छति स्म । एको नापितो गृहपाश्र्वात् निर्यातः । नापित एकां गाथां मुहुमुहुर्वदति स्म ।
भरिया तां सहूइ भरइ ठालां भरइ न कोइ ।
भोजराज माहरइ सालो, मुहरइ कांइ न देइ । मुहुर्मुहुर्गाथामनां श्रुत्वा नृपः कुपितः । प्रातः राजसभायामाहूयाऽपशब्दं वदन्तं नापितं मरणदण्डनमादिशत् । नापितोऽकथयत् - "भो नृपः ! मम कोऽप्यपराधो नास्ति ।" नृपः कथितवान् - "आम् ? त्वं मां श्यालक - इति कथयसि स तवाऽपराधोऽस्ति ।" नापितेन कथितं – भो नृपः ! सत्यं वदामि यद् भवान् परस्त्रीसहोदरोस्ति, ततो मम भार्या भवतो भगिनी भवति, तेन कारणेन भवान् मे श्यालको भवति ।" इदं श्रुत्वा नृपस्तुष्टोऽभवत् । स नापिताय पुरस्कारं दत्तवान् ।
(२) निशायामुच्चस्वरेण न वदेत्
एकस्मिन्नगरे कश्चन तिलपेषको न्यवसत् ।
एकदा स तिलभृतं पात्रं पेषणार्थं मुक्त्वा सुप्तवान् । मध्यरात्रे कोऽपि धार्मिको जागरित्वोच्चस्वरेण मन्त्रपाठमकरोत् । तच्छ्रुत्वा तिलपेषकः प्रबुद्धः । प्रातःकालः सञ्जात इति मत्वा च तिलपात्रे स्थितास्तिलान् पेषण्यां क्षिप्त्वा पेष्टुं लग्नः । प्रातःकाले तैलं दृष्टम् । सुष्टु न प्रतिभातम् । ततः समीपे मार्जारौं रुदतीं दृष्ट्वा तेन तिलचूर्णं दृष्टं, तस्मिन् मार्जारपोतानामस्थीन्यपश्यत् । तेन चिन्तितम् - अस्मिन् तिलपात्रे मार्जार्या स्वशिशवो मुक्ता भवेयुस्तेऽपि मया पिष्टाः । हृदये बहुसन्तापो जातः । तत्पश्चात् श्रीमहावीरप्रभोः समीपे गत्वा स स्वस्य पापानि प्राकाशयत् । प्रभुरकथयत् - निशायामुच्चनादेन ब्रुवतो धार्मिकस्य बहु पापं बद्धम् । त्वमज्ञ आसीस्तस्मात् तेऽल्पं पापं बद्धम् । तिलपेषको मुनिर्भूत्वा पापमालोच्य व्रतं च पालयित्वा स्वर्गं गतवान् ।
Page #57
--------------------------------------------------------------------------
________________
कथा
कस्य दोष: ?
सा. हंसलेखाश्रीः
सीतां हृत्वा रावणस्तामशोकवनिकायां स्थापितवानासीत् तत्र तस्य दास्यो राक्षस्यस्सीतां भृशमत्रासयन् । इदं ज्ञात्वा हनुमानक्रुध्यत् । उपसीतं गत्वा सोऽपृच्छत् - किं ता राक्षसीरहं हन्याम् ? सीतया स्पष्टं निषिध्यैका कथा कथिता ।
एको जनो वनाद् गच्छन्नासीत् । तस्य पृष्ठे व्याघ्रो लग्नः । स जनो धावं धावमेकं वृक्षमारोहत् । तत्रैकः ऋक्षस्सुप्त आसीत् । व्याघ्रस्तत्रैवाऽधोऽतिष्ठत् ।
कम्पन्तं जनमृक्षस्सान्त्वयाञ्चकार । रात्रावुभाभ्यां क्रमेणा 'ऽर्धरात्रपर्यन्तं जागरिष्यावः' एवं निश्चितम्। प्रथममृक्षस्य क्रम आसीत् । तस्याऽङ्के जनो गाढं निद्राधीनोऽभूत् । व्याघ्र ऋक्षं प्रत्यवदत् इयं मानवजातिर्न विश्वसनीया, तस्य वारके स त्वां मेऽर्पयिष्यति । अतोऽधुनैव त्वं तं प्रक्षिप, येनाऽऽवयोर्द्वयोरपि कार्यं भविष्यति ।
निष्ठावानृक्षस्तथाकर्तुं सर्वथा निषिद्धवान् । अर्धरात्रस्याऽनन्तरं जनस्य क्रम आगतः । जनो जागर्ति स्म । तस्याऽङ्के ऋक्षो गाढतया निद्राधीनोऽभूत् । व्याघ्रस्तं जनं प्रलोभयन्नभाषत - 'इममृक्षं त्वं मह्यं यच्छ, अन्यथा प्रभाते स त्वामेव मारयिष्यति । जनस्सहसा ऋक्षं प्रक्षिप्तवान् । किन्तु ऋक्षः सावधान आसीत् । अतः स न पतितः । स मनुष्यमुक्तवान् - त्वमसि कृतघ्नशिरोमणिः, तथाऽपि नाऽहं त्वां मारयिष्ये । इत्युक्त्वा स गतः । मनुष्योऽपि विलक्षीभूय प्रस्थितः ।
कथां समापयन्ती सीताऽवदत् - " मनुष्यमात्रे किञ्चन स्वभावदौर्बल्यं वर्तत एव । रावणस्य दास्यो राक्षस्यो मां यदत्रासयंस्तस्मिन् तासां को दोष: ? ता नृपस्य रावणस्य प्रसादायाऽपि तथा कुर्युः । तस्मादस्माभिस्ताः प्रति दुष्टता नाऽऽचरणीया, अपि तु करुणैव धारणीया ।"
पीडादायकान्प्रत्यपि सीताया ईदृशीं करुणां दृष्ट्वा हनुमान् सीतां सद्भावेन प्रणतवान् ।
व्यक्तेर्दोषदर्शन-परा वयमपि सीता इव व्यक्तेर्दोषं न दृष्ट्वा तेषां परिस्थितिं प्रति दृष्टिपातं कुर्याम तर्हि कदाचिदस्मिन् विश्वेऽस्माकं कदाऽपि कोऽपि दोषितो न भासेत । क्वचित्तस्य संयोगप्राबल्यं भवेत्, क्वचित्तस्य स्वभाव-दौर्बल्यम्, उत क्वचिदज्ञाततयाऽनायासेनैवाऽस्माकं विरुद्धा प्रवृत्तिर्भवेत् । 'यत्किञ्चिद् भवति तदस्मद्भाव्यनुसारेणैव भवति' इति ज्ञात्वा मनोमालिन्यं न कुर्याम, किन्तु मनः स्वस्थं शान्तञ्च कुर्याम |
४८
Page #58
--------------------------------------------------------------------------
________________
कथा
अवसरस्य मूल्यम्
सा. तत्त्वनन्दिताश्रीः
एकस्मिन् नगरे एको नृपो राज्यमकरोत् । नृपो न्यायवानासीत्, प्रजाजनेषु च बहुः प्रिय आसीत् । सर्वे जनास्तस्याऽऽज्ञां पालयन्तः स्म । तस्य राज्ये सर्वे जनाः सुखिन आसन् । एकदा नृपोऽचिन्तयत् - "एतानि सर्वाणि वस्तूनि नश्वराणि सन्ति" । ततो नृपस्य भववैराग्यमभवत् सोऽचिन्तयच्च यत् - "प्रव्रजिष्यामि" । किन्तु स निःसंतान आसीत् ।।
ततश्च नृपोऽचिन्तयत् यत् – प्रव्रज्यापूर्वं वार्षिकदानं करणीयं राज्यस्य च संपद् नगरजनेभ्योऽर्पणीया"। अतो नृपो नगरे उद्घोषयति स्म यत् – श्वो राजप्रासादस्य द्वारं नागरिकानां कृते उद्घाटयिष्यते, राज्यस्य च सर्वाः संपदो नगरजनेभ्योऽर्पयिष्यन्ते । किन्तु एको नियमोऽस्ति यत् प्रासादे प्रविश्य ये यस्मिन् वस्तुनि स्वस्य हस्तं निक्षेप्स्यन्ति तदेव वस्तु तेभ्यः पुरस्काररूपेणाऽर्पयिष्यते ।।
ईदृशीं घोषणां श्रुत्वा सर्वे नगरजनाः सूर्योदयात् पूर्वमेव प्रासादस्य द्वारं गत्वोपाविशन् । सर्वे जनाः निजरुचितं वस्तु अभ्यलषन् । यदि निजरुचितवस्तुनि कश्चिदन्यो जनः प्राक् हस्तं मुञ्चेत् तर्हि तद् वस्तु मया न लभ्येत । - इति सर्वे चिन्तयन्त आसन् ।
द्वितीयस्मिन् दिने प्रातःकाले राजप्रासादद्वारमुदघटितम् । सर्वे जना निजरुचितं वस्तु लब्धं धावमाना आसन् । परिजनान् राजसभ्यान्, मित्राणि चाऽपसार्याऽभिलषितवस्तूनां ग्रहणमकुर्वन् । नृपः सिंहासनोपरि आसीनो वैराग्यभावेन तत्सर्वं पश्यति स्म, हसति स्म च । तदैको बालश्चलन् नृपस्य समीपमागच्छत् । तं दृष्ट्वा नृपोऽपृच्छत् - "किं त्वं वस्तु न इच्छसि ?" ।
बालो नृपस्य हस्तोपरि निजहस्तं निक्षिप्य अकथयत् - "अहं तानि वस्तूनि नेच्छामि किन्तु भवन्तमिच्छामि ।"
नृपः प्रसन्नीभूय बालं निजाङ्के उपावेशयत् - "हे बाल ! नियमानुसारेणाऽहं तवाऽभवम् । ततः संपूर्ण राज्यमपि तवैव भवति । अहं तव राज्याभिषेकं कारिष्यामि सर्वाणि च वस्तूनि तुभ्यमर्पयिष्यामि।"
___ यथा नृपो नगरजनानामेकमवसरमार्पयत्, तादृक् अवसरः प्रभुरस्मभ्यमपि अर्पयति । नगरजनाः राजानं मुक्त्वा तस्य वस्तुषु रुचिमकुर्वन् । वयमपि परमात्मानं मुक्त्वा जागतिकवस्तुषु रुचिमन्तो भवामः । किन्तु न चिन्तयामो यद् भगवन्तं विना नाऽन्यत् किमपि ग्राह्यमिति । यदि भगवन्तमेवाऽभिलषामस्तदा जगत् सर्वमप्यस्माकमेवाऽस्ति ।
Page #59
--------------------------------------------------------------------------
________________
कथा
ध्यानम्
सा. तत्त्वनन्दिताश्री:
तिब्बतदेशे एकस्मिन् दुर्गमप्रदेशे सिद्धगुरुलामरेम्पुचस्य मठ आसीत् । सिद्धलामो ध्यानस्याऽन्तिमचरणस्य साधनां जानाति स्म । स आकाशमार्गेण गच्छति स्म, बुद्धैः सह च संलापं कृत्वा पश्चात् प्रत्यूषे स्वस्य मठं प्रत्यागच्छति स्म । ततो दूरदेशाद् अन्ये लामास्तत्समीपं ध्यातुमागच्छन्ति स्म, तत्र चैव वसन्ति स्म। किन्तु मठस्य निर्वाहः कया रीत्या चलति इति कोऽपि न जानाति ।
एकस्य दिनस्य वार्ता अस्ति । सूर्यः प्रकाशते स्म, आकाशे चाऽभ्राणि न दृश्यन्ते स्म, प्रातःकालो रमणीय आसीत् । तस्मिन् काले एको लामो गिरे: दुर्गममार्गानारोहन् मठमागतः । तं दूराद् दृष्ट्वा रेम्पुच एकं लाममकथयत् – “पश्यतु, एक आगन्तुको लामो दूरान्मठमागच्छन्नस्ति । स मम सहाध्यायिलामगुरुणा साधनार्थमत्र प्रेषितोऽस्ति । स कतिपयानि दिनानि सह वत्स्यति, ततस्तस्य वस्तुं व्यवस्थां ममाऽन्तिके करोतु" ।
यदा आगन्तुको लामो मठमागतस्तदा तत्र स्थिता लामास्तस्य स्वागतमकुर्वन्, विश्रामाय च तमकथयन् । ततोऽल्पसमयेनैव रेम्पुचस्तत्राऽऽगच्छत् । आगन्तुकलामस्तस्य चरणरजसमगृह्णात्, अकथयच्च, यत् – “मम गुरुर्ध्यानस्याऽन्तिमचरणस्य शिक्षणार्थं भवतां समीपे मां प्रेषितवानस्ति । ध्यानस्य विषये भवन्तः सिद्धिं प्राप्ता इतिः श्रुतं मया । ततो भवन्तो मामन्तिमलक्षपर्यन्तं नयेयुः । अहं भवतां चरणयोः समर्पितो भवामि" ।
सिद्धगुरुलाम आगन्तुकलामस्य शिरस्युपरि हस्तमस्थापयदकथयच्च "पूर्वं तव गुरुरहं च सहाध्यायिनावास्ताम्, अहं यद् जानामि, सोऽपि तद् जानात्येव । किन्तु यदा स त्वामत्र प्रेषितवान् तदा तस्मिन्कोऽपि संकेतो भवेत् । त्वमत्रोषित्वा अस्माकं दिनचर्यां पश्यतु, मार्गश्च त्वया स्वयमेव लप्स्यते । तथापि यद्यावश्यकता भवेत् तर्हि मां पृच्छतु'" ।
५०
―
Page #60
--------------------------------------------------------------------------
________________
तत्पश्चात्, आगन्तुकलामो मठे उषित्वा, तत्र स्थितानां लामानां दिनचर्यां पश्यति स्म । किन्तु तस्य ध्यानं रेम्पुचं प्रत्यासीत् । तत्र स्थिता लामा ध्यानं कर्तुमुपाविशन्, किन्तु रेम्पुचः कदाऽपि न उपाविशत् । मठे भगवतो बुद्धस्यैका प्रतिमाऽऽसीत् । सर्वे लामास्तस्या वन्दनं, पूजनं चाऽकुर्वन् । मठे सर्वे मिलित्वा यद्यपि ध्यानस्य, धर्मस्य च प्रवृत्तिं न कुर्वन्ति स्म, किन्तु सर्वां क्रियां प्रसन्नतया कुर्वन्ति स्म । तेषां चाऽसामान्यां प्रवृत्तिमागन्तुकलामः पूर्वं कदाऽपि न दृष्टवानाऽऽसीत् ।
क्वचित् कतिपये लामा रेम्पुचं मिलित्वा प्रश्नान् कुर्वन्ति स्म, पश्चात् च क्रियायां युज्यन्ते स्म। परं रेम्पुच आगन्तुकलाममाहूय ध्यानस्य विषये मार्गदर्शनं न कदाऽपि करोति स्म । तत आगन्तुकलामोऽमुह्यत् - यद् – “अब मम गुरुर्मां प्रेषयित्वा क्षतिं कृतवान्" इति ।
एकस्मिन् दिने स रेम्पुचस्य समीपमगच्छत्, विनयं कृत्वाऽकथयत् च - "यदि मह्यमनुमतिमर्पयेत् तर्खहं भवन्तं पृच्छेयम्" । रेम्पुचोऽनुमतिमार्पयत् ।
आगन्तुकलामास्तं पृष्टवान् - "भवन्तो मां ध्यानस्याऽन्तिमचरणस्य विषये कदा कथयिष्यन्ति ? अहमत्र यत्प्रभृत्यागच्छं तत्प्रभृति ध्यानस्य विषये किमपि न ज्ञातं श्रुतं वा मया । ध्यानस्य विषये किमहं नाऽोऽस्मि ?" ।
रेम्पुचो हसित्वाऽकथयत् - "तर्हि भवानत्रोषित्वा किं पश्यति स्म ? । अत्र सर्वे जना ध्याने एव वर्तन्ते । ध्याने उपाविष्टं मां किं भवान् कदाऽपि पश्यति ?"
आगन्तुकलामोऽकथयत् - "न" ।
"किन्त्वहं सर्वकालं ध्याने एव वर्ते । अत्र च स्थिता लामा अपि ध्याने वर्तन्ते । ध्यातुं क्वचित् तानहं बोधयामि, पश्चात् स्वस्य कार्ये सर्वे युज्यन्ते" ।
रेम्पुचस्योत्तरं श्रुत्वाऽऽगन्तुकलाम आश्चर्यमन्वभवत्, अकथयच्च - "मया भवतो वचनं नाऽवबुद्धं, ततोऽल्पस्पष्टतां कर्तुं भवते विज्ञपयामि" ।
रेम्पुचो भावेन तं प्रति दृष्टवानकथयच्च - "भवतो गुरुरिमां प्रक्रियामवबोद्धं भवन्तमत्र प्रेषितवानस्ति । ध्यानं जीवनाद् भिन्न नाऽस्ति, किन्तु जीवनमेवाऽस्ति । ततो यामपि प्रवृत्तिं वयं कुर्याम तस्यां प्रवृत्यामेवैकाग्रीभूय कार्यं कर्तव्यं, तदेव च ध्यानं कथ्यते । सर्वामपि प्रवृत्तिं कुर्वाणा सर्वेऽत्र केवलं साक्षिभावेनैव वर्तन्ते । ततो वयं सर्वे मिलित्वा कदाऽपि ध्यातुं न उपाविशाम । ये लामाः साक्षिभावेन न वर्तन्ते ते ध्यातुमुपाविशेयुः । साक्षिभावादन्यद् ध्यानं किमपि नाऽस्ति । मठे यत् किमपि भवेत् सर्वे वयं तद् - राग, द्वेषं च विना केवलं पश्येम । तदाऽस्मान् किमपि न स्पृशेत् । ईदृशे ध्याने वर्तमानानां नो मठस्य व्यवहारोऽपि प्रवर्तते । सर्वेषां मध्ये वसन्तो वयं सर्वतोऽलिप्ता भवामः ।"
Page #61
--------------------------------------------------------------------------
________________
आगन्तुकलामो रेम्पुचस्य सङ्केतं स्वीकृत्य, तस्य च चरणरजो मस्तके निक्षिप्य प्रसन्नतया स्वस्थानं गतः ।
___ एषा कथा साक्षिभावस्याऽस्ति । साक्षिभावो ध्यानस्योत्तुङ्गशिखरमस्ति । तदारूढः साधको जीवने या प्रवृत्तिरावश्यकी भवेत् तां प्रवृत्तिमेव कुर्यात् । तस्यां प्रवृत्यामपि कर्तृत्वभावं, भोक्तृत्वभावं च न कुर्यात् । तदेव ध्यानमस्ति ।
कथा
को निर्भयः ?
सा. जयनन्दिताश्रीः
एको नाविकपुत्र आसीत् । पोतं गृहीत्वा स एकस्मात् तटादपरं तटं गच्छति स्म । तत्र च प्राप्तः स कृतनिजकर्तव्यः स्वं देशं प्रत्यागन्तुं पोतपताकाया दिशं परावर्तयति स्म । एतदर्थं च स कूपक(नौस्तम्भ)मध्यारोहति स्म। .
एकदा कूपकमध्यारूढः स केनचित् प्रातिवेशिकेन दृष्टः कथितश्च - "भोः ! भवतः पितामहोऽनया रीत्यैव कूपकमध्यारूढोऽपतदम्रियत च । भवत्पिताऽपि तथैवाऽऽरूढो जलधौ पतित्वा मृतः । एवं स्थितेऽपि भवान् किमिति कूपकमध्यारोहसि ? किं भवतो भयं न भवति ?"
तेनोक्तं - "अयि भोः ! महाशय ! भवतः पितामहः खट्वायां शयितः सन्नेव मरणं प्राप्तः । ततश्च भवतः पिताऽपि तथैव खट्वारूढो मृतः । एवंस्थितेऽपि भवान् किमर्थं खट्वामारुह्मैव स्वपिषि ? किं भवतस्तत्र भयं न भवति ?"
प्रातिवेशिको निरुत्तरो जातः ।
Page #62
--------------------------------------------------------------------------
________________
कथा
आत्मदीपको भव
सा. संवेगरसाश्री
प्रत्येक वर्षे कार्तिकामावस्याया दिनेऽस्माकं सम्पूर्णे देशे दीपावल्याः पर्व उत्साहेन आनन्देन च सहाऽऽचर्यते । तस्मिन् दिने गगनेऽन्धकारो भवति । किन्तु पृथ्व्याः सूक्ष्मातिसूक्ष्मः प्रदेशोऽपि दीपश्रेण्या प्रज्ज्वलितो भवति । ततो गाढेऽन्धकारे सत्यपि पृथ्वी राजते । एवमध्यात्मक्षेत्रेऽपि, अस्माकमात्मप्रदेशेषु अज्ञानरूपो गाढोऽन्धकारो ज्ञानस्यैकेनांऽशेनाऽपि दूरीभवति । शनैः शनैरात्मा शुद्धस्वरूपं धारयति । स्वस्वरूपस्य चाऽऽनन्दं चिरकालपर्यन्तमनुभवति ।
किल भगवान् बुद्धो मृत्युशय्यायां शयित आसीत् । तदा तस्य प्रियः शिष्य आनन्दो बहुव्यथित आसीत् । तस्य विरहस्य कल्पनयैव स विचलितोऽभवत् । दुःखेन व्याकुलीभूय स रोदिति स्म । तं दृष्ट्वा बुद्धोऽपृच्छत् - "वत्स ! किं त्वं रोदिषि?" तदाऽऽनन्दोऽकथयत् - "भवन्तं विना अहं किं करिष्यामि ? सम्प्रति मम शिक्षाऽप्यपूर्णाऽस्ति । मया तु ज्ञानमपि न प्राप्तम् । मह्यं को वा मार्ग, ज्ञानं च दास्यति ? कश्च दिनिर्देशमपि करिष्यति ? इति विचारेणाऽहं खिन्नोऽस्मि" । तच्छ्रुत्वा बुद्धो मनागहसत्, स्नेहेन चाऽकथयत् - "वत्स ! त्वं मा रुदिहि । यावती शिक्षा तेऽर्पणीयाऽऽसीत्, तावतीमहमार्पयम् । अथ चाऽहं तुभ्यं ज्ञानं दातुमसमर्थोऽस्मि । त्वया स्वयं स्वस्य प्रकाशन भवितव्यम् । तवाऽन्तस्तले उदिताया जिज्ञासायाः समाधानमपि स्वयमेव करणीयम् । तद्देव त्वं वास्तविकं ज्ञानं प्राप्स्यसि । 'आत्मदीपको भव' । एवं कुर्वन् यदि चेतनाया एकमंशमप्यमृतरूपं प्राप्स्यसि तदा ते तरी भवसागरस्य पारं प्राप्नुयात्"।
निजान्तरशक्तिं सञ्चिनुत । अमावस्यायाश्चाऽन्धकारे ध्रुवतारका इव चकासत । स्वस्य परिचयं
कुरुत।
Page #63
--------------------------------------------------------------------------
________________
पत्रम्
पूज्याचार्यवर्यश्रीविजयलावण्यसूरिभिर्निजगुरुवर्येभ्यः शासनसमाट्-आचार्यमहाराजश्रीविजयनेमिसूरीश्वरेभ्यो
लिखितं सुन्दरं पत्रमेकम् (वैक्रमे १९९४तमे वर्षे) स्वस्ति श्रीपार्श्वनाथं पार्श्वनाथं प्रणम्य भावनगरभावनगरावनि पवमानानां निशाशेषस्मरणीयनामधेयानां पूज्यपादपङ्केरुहाणां विशदाचारमूर्तीनां तीर्थरक्षकदक्षाणां चेतनचिन्तामणीनां मानवकामगवीनां जङ्गमकल्पतरूणां जगद्गुरूणां गुरुगुणानां चरणारविन्दद्वन्द्वं वन्दं वन्दं विज्ञपयति विनयविरचिताञ्जलिपुटो लावण्याणुः सूरतबन्दिरात् ।।
निजावदाताधरीकृतामरतरूणां तत्रभवतां शुभवतां भवतामकम्पानुकम्पासम्पाततो वयं कुशलिनः ।
एकं किल वृत्तायतं दलं दलितान्तरारीणामन्तिके पुरा प्रेषि । एतत्प्रतिवचनाभावेन कल्पनाकेलि कलयामि, यदुत सुकोमलतादिगुणगणाधरीभावभावितेनाऽनेन ध्वंसीयप्रतियोगिताऽऽश्रितेति ।
__ भवत्सु रता सूरतालया जनता निजावनिपावनमानसा मान्यागमनोपायं मह्यं मुहुर्मुहुः पर्यनुयुनक्ति व्याहरति च - 'नोऽभ्यर्थना निवेदनीयाऽवेदनीयानामन्तिके' इति ।
____ पर्युषणापर्वणि निखिलैः संमील्य निजनिजनामावलि-ललितदललेखनं चतुर्मासीपर्यवसाने च नरमणीनामाचार्यमणीनामन्तिके गमनमवश्यं कार्यमिति विचारणावासितान्तःकरणा सूरतजनता आगामिनी चतुर्मासी भाविनी सूरीशानां सूरते - इति प्रमोदमेदुरा भवति ।
पूज्यकृपया -
देशनादानकालः पर्युषणाकालतुलनां कलयति । देशनादानकालेऽनल्पबाहल्यमालिनीमपि पौषधालयेलामतीव सङ्कलामालोकमाना लोका जल्पन्ति यदुत – अद्यावधीदृशं विशदं देशनावचनं नाऽऽकणितमस्माभिराबालजरानुगतनानावरवरसनाथैः कदाचन ।
पूज्यप्रभावोपवर्णनायेदमलेखि ।
निश्शेषशेमुषीशालिनां विनम्रमूर्तीनामविकलाराधितगुरुचरणानां श्रीमद्विजयोदयसूरीश्वराणां नयनवेदनां निशम्य मम मनो व्याकुलीभवति ।
शुभप्रवर्तकस्य शुभप्रवर्तकस्य गीर्वाणविजयस्य क्षयान्तिमदशा कर्णकोटरमाटिता नाटयति मनोनटम् ।
Page #64
--------------------------------------------------------------------------
________________
श्रीमतां पूज्यानां विमलाशयानां विबुधशिरोमणीनां श्रीमद्विजयनन्दनसूरिकुञ्जराणां च तनुलताकुशलोदन्तमभिलषामि ।
अध्ययनविषये मुनिदक्षविजयस्य द्वितीयतरङ्गपरिच्छिन्ना दिनकरी, सुशीलविजयस्य शब्दखण्डपरिच्छिन्ना मुक्तावली चलति ।
शरीरविषये – उपायशतेनाऽपि मम देहगेहं रुधिरविकृतिकृतकण्डूतिव्यन्तरी नोज्झति मनागपि । सुशीलविजयस्य कदाचिद् वामवक्षसि व्यथा स्वरूपं प्रदर्श्याऽन्तर्दधाति, उपचारश्चलति ।
किङ्करार्हं कार्यं धार्यं कृपया कृपारसकूपारैः ।
बाललीलाकल्पलेखलीलयाऽनयाऽविनयलेशमपि क्षमन्तां क्षमाधराः । शिरोनामकलितं कृपादलं
वितरणीयं कृपया ।
वत्सरै वै वैक्रमे वेदनन्दनन्देन्दु (१९९४) मिते आषाढबहुलदले नवम्यां बुधदिनेऽलेखि ॥ (आ. विजयलावण्यसूरिः)
स्याद्वाददर्शनपयोनिधिवृद्धिचन्द्रं, सन्नेमिसूरिगणवन्दितपादपद्मम् ।
सन्नेमिदेहिसुहितोदयपूर्वशैलं
विद्याधनं विबुधनन्दननन्दनाभम् ॥१॥
. नौमि (मुनिदक्षविजय:)
•*.
५५
Page #65
--------------------------------------------------------------------------
________________
मर्म नर्म
कीर्तित्रयी पिता यस्मिन् कस्मिंश्चिदपि व्यवसाये सफलता प्राप्तुं द्वौ गुणावत्यावश्यकौ स्तः - प्रामाणिकता चातुर्य
च । पुत्रः प्रामाणिकता नाम किम् ? पिता यदप्यस्माभिः प्रतिपन्नं तत् सर्वथा पालनीयं महत्यामपि च हानावपि न ततो पराङ्मुखीभवितव्यम् । पुत्रः अस्तु, चातुर्यं नाम किम् ? पिता चातुर्यं नाम कदाचिदपि किञ्चिदपि करणीयतया न प्रतिपत्तव्यम् !!
सुहृद्
(मानसचिकित्सकं) भोः !, स्वयं कोटिसङ्ख्यकजनेष्वद्वितीय - इति मन्वानः स
मनोरोगी किञ्चिदिव सज्जो जातो वा ? मानसचिकित्सकः आम्, स शनैः शनैः सज्जो जायमानोऽस्ति । इदानीं स स्वं लक्षसङ्ख्यकजनेष्वद्वितीयं
मन्यते !!
(मानसचिकित्सालये) मनोरोगी चिकित्सकमहोदय ! भवान् अस्मभ्यं बहु रोचते । चिकित्सकः (हृष्यन्) एवं वा ? परमहं त्विदानीमेवाऽत्राऽऽगतोऽस्मि ननु । मनोरोगी तथाऽपि, भवानस्माकमेवैकतम इति प्रतिभाति !!
Page #66
--------------------------------------------------------------------------
________________
(कार्यालये) नियामकः (कर्मचारिणं) भोः ! किमेवं निष्क्रिय उपविष्टोऽस्ति भवान् ? कर्मचारी अहं भवतो निर्देशं समाचरन्नस्मि । नियामकः मया तु भवते न किमपि निर्दिष्टम् । कर्मचारी अत एव निष्क्रियस्तिष्ठामि !!
कश्चन भारतीयो जनो जपानदेशं प्राप्तः । तत्रैकस्मिन् समारोहे स बहूनां जापानीयानां मध्ये भारतीयभाषया दीर्घामेकां हास्यकणिकां कथितवान् । तस्यैकेन भाषाद्वयज्ञेन मित्रेण हास्यकणिकाया अनुवादः स्तोकैरेव शब्दैर्जापानीयभाषया जनेभ्यः कथितः । ततो जना बहु हसितवन्तः । एतद् विलोक्य स भारतीयः स्वं मित्रं पृष्टवान् – भवान् मम हास्यकणिकाया अनुवादमियच्छीघ्रमेतावद्भिश्च स्तोकैः शब्दैः कथं कृतवान् ?
तेनोक्तं - अहो ! मया तेभ्यः कथितं यन्मे मित्रेण हास्यकणिका प्रस्तुताऽतो भवन्तः सर्वेऽपि हसन्तु – इति !'
lo
Page #67
--------------------------------------------------------------------------
________________
प्राकृतविभागः
कलिकालसर्वज्ञश्रीहेमचळ्दाचार्यविरचितं प्राकृतव्याश्रयमहाकाव्यम्
पञ्चमः सर्गः। कम्हा जम्हा तम्हा वि वण-निउञ्जाउ तत्थ महमहिओ । काओ जाओ ताओ वि पक्खओ नीव-गन्धो तो ॥१॥ गायन्ति किणो मोरा कीस पिगी गाइ जम्बु-फल-मत्ता । कम्हा वयं जिआमो तत्थ पउत्थेहिँ इअ लविअं ॥२॥ इमिणा इमेण एएण एदिणा किण वि जेण तेण किर । सव्व-दिसाण मुहेणं महमहिओ मालई-गन्धो ॥३॥ वायं वाएण तिणा केणावि जिणा खु णेहि पहिएहि । परिमुक्को नीसासो भरिऊणं दइअ-रइ-केलि ॥४॥ मालइ-लयाइ णाए णेण य पुव्वाणिलेण पहिआण । कत्तो वि को वि कत्थ वि अहूव-पुव्वो हुओ मोहो ॥५॥ अह विन्नत्तं आरामिएण पेच्छसु इमं वणोद्देसं । वल्लीहि इमाहि इमो बहल-दलाहिं मणो हरइ ॥६॥ इमिआ पाउस-लच्छी कहइ अयं सिरिफलो वणे अस्सि । समए इमस्सिमलि-किङ्किणी-रवं काम-छत्तं व ॥७॥ उअ अस्स जम्बु-तरुणो इमस्स दाडिमि-दुमस्स य फलाई । एसु रमिज्जइ आहिं सुगीहि एहिं सुगेहिं च ॥८॥ इह उज्जाणे समए इमम्मि णं पिच्छ विहसियं नीवं । कुडयं च इमं णे अज्जुणे अ ताविच्छए अ इमे ॥९॥ लङ्गलि-वणेण णेणं फुल्लं जूही-वणेण य इमेण । कोहलि-वणेहिं णेहिं इमेहिं बिम्बी-वणेहिं च ॥१०॥
५८
Page #68
--------------------------------------------------------------------------
________________
प्राकृतविभागः |
प्राकृतद्व्याश्रयमहाकाव्यस्य संस्कृतानुसर्जनम् (संस्कृतपद्यानुवाद:)
पं. नरेन्द्रचन्द्र-झा
पञ्चमः सर्गः । सर्वस्मादपि कानन-कुञ्जकदम्बात् तु तत्र महमहितम् । विश्वस्मादपि पक्षात् धारानीपस्य सौरभ्यम् ॥१॥ गान्ति कुतो मयूराः कुतो पिकी रौति जम्बुफलमत्ता । वयं कुतो जीवाम: ?, पान्थैरित्थं समालपितम् ॥२॥ प्राच्यादिना समस्ते-नाऽनेन येन केन तेनाऽपि । निखिलदिशोऽपि मुखेन, महमहितो मालतीगन्धः ॥३॥ वातेन तेन वातं, कृत्वा किल येन निश्चितं पथिकैः । परिमुक्तो निःश्वासः, स्मृत्वा दयिताकलाकेलिम् ॥४॥ कामं मालतिलतया, तेन च पूर्वानिलेन पथिकानाम् । क्वाऽपि कुतोऽपि च कोऽपि, मोहः समजायताऽपूर्वः ॥५॥ विज्ञप्तमथो आरामिकेण पश्येम कं वनोद्देशम् । वल्लीभिरिमाभिरयं, बहुलदलाभिर्मनो हरति ॥६॥ कथयति वर्षालक्ष्मीरियमिदकं श्रीफलं वने ह्यस्मिन् । समयेऽस्मिन्नलिकिङ्किणि-नादं मदनातपत्राभम् ॥७॥ जम्बुतरोरिमकस्य, पश्य च दाडिमनगस्य सुफलानि । आभिः शुकीभिरेषु, कीरैश्च रम्यते हर्षात् ॥८॥ उद्यानेऽस्मिन् समये, प्रेक्षस्व स्फुटविकासिनं नीपम् । कुटजार्जुन-तापिच्छान्, फुल्लानेतांश्च निर्व्याजम् ॥९॥ शारदलता-वनेन, यूथी विपिनेन चाऽपि संफुल्लम् । कूष्माण्डीनां विपिनै-गहनैरेभिश्च बिम्बीनाम् ॥१०॥
५९
Page #69
--------------------------------------------------------------------------
________________
भू-भागमिणं तह नह-भागमिमं परिमलेण रुन्धन्तं । इदमिणमिणमो अ वणं कोआसइ केअईण उअ ॥११॥ उअ किं पि हु सुन्दरं पाउस-समयस्स से पयट्टस्स । सिं कुडयज्जुण-सज्जाण परिमलो इत्थ परिमिलिओ ॥१२॥ से चन्दणस्स तह मयनाभीए सिं च अगरु-कलिआण । कप्पूर-पारियाण य अहिअयरो मालई-गन्धो ॥१३॥ चिञ्चणिअ-तरूणेमाणेआण य कुसुम-दसणे हरिसो । कह वि न माइ इमस्सेअस्स य आराम-लोअस्स ॥१४॥ ताण ललिआण ठाणं तस्साणङ्गस्स लङ्गली-कुसुमं । एआओ एत्ताहे एत्तो अ न एत्थ को लेइ ॥१५॥ एअम्मि वणोद्देसे ईअम्मि तहा अयम्मि ऊसलइ । इणमिणमो एस फुडं सालो जूही सिलन्धं च ॥१६॥ कुडयं दलइ तमेअं एसा सा जूहिआ महमहेइ । एसो सो कन्दलिओ वेणु-कुडङ्गो वि पडिसाहं ॥१७॥ अह लीला-पोक्खरिणी अह नीरं वड्डवास-मुक्कं च । अह पवण-वेवमाणो नवो अ कलमङ्कुरुक्केरो ॥१८॥ ताविच्छो बहल-दलो अमू अमू कमलिणी अ गय-कमला । मत्तममुं भेग-कुलं अमूसु लीला-तलाईसु ॥१९॥ निचुलाण अयम्मि वणे इअम्मि तह सल्लई-निउञ्जम्मि । साल-वणम्मि अमुम्मि अ परिमल-बहलो वहइ पवणो ॥२०॥ तं तुं तुवं तुह तुमं आणेह नवाइँ नीव-कुसुमाइँ । भे तुब्भे तुम्होरहे तुम्हे तुज्झासणं देह ॥२१॥ तुम्हे तुज्झे ण्हायह अहिणव-कल्हार-पत्तिआणयणे । तं तुं तुमं तुवं तुह तुमे तुए संपयं भणिमो ॥२२॥ वो तुब्भे तुज्झोय्हे तुम्हे तुज्झे अ भे अ तुम्हे अ । भणिमो न किमिह बहाएह पल्लले दद्दुर-भएण ॥२३।। भे ते दि दे तइ तए तुमाइ तुमए तुमे तुमं तुमइ । किं नाणिज्जइ दुव्वा पउमावइ-देवि-पूयत्थं ॥२४॥ भे तुब्भेहि अ तुज्झेहि अ तह तुम्हेहिं तुलसिआ गिज्झा । उज्झेहिँ अ उम्हेहिँ अ तुम्हेहिं तह य उव्हेहिं ॥२५॥
.६०
Page #70
--------------------------------------------------------------------------
________________
भू-नभसोरपि भागान्, रुन्धत् स्वीयेन सौम्यगन्धेन । इदमिदमिदं च विपिनं, केतक्याः पश्य संफुल्लम् ॥११॥ पश्य किमपि सौन्दर्य, प्रावृट्समयस्य संप्रवृत्तस्य । कुटजार्जुन-सर्जानां, परिमिलितः परिमलो भवति ॥१२॥ चन्दनतो मृगनाभेः, किञ्चैतस्याः अगरुविमिश्रायाः । कल्पतरोः कर्पूरा-दधिकतमो मालतीगन्धः ॥१३॥ चिञ्चिणिकावृक्षाणामेतेषां कुसुमदर्शने हर्षः । कथमपि न माति नूनमेतस्योद्यानलोकस्य ॥१४॥ स्थानं तल्ललितानां, तस्याऽनङ्गस्य लाङ्गलीकुसुमम् । एतस्मादेतस्मादत्रोद्याने न को लाति ? ॥१५॥ अस्मिश्च वनोद्देशेऽस्मिन्नपि सालः समुल्लसति कामम् । एषा यूथीलतिका, भूमिस्फोटो यथाऽत्यन्तम् ॥१६॥ कुटजं दलति तदेत-देषा सा यूथिका वहति गन्धम् । एष पुनः कन्दलितो, वेणुकुडङ्गोऽपि प्रतिशाखम् ॥१७॥ अथ लीलापुष्करिणी-सलिलमिदं बलाहकोत्सिक्तम् । अथ पवनवेपमानो, नवश्च कलमाङ्करवातः ॥१८॥ तापिच्छो बहलदलोऽसौ च कमलिनी विनष्टसत्पद्मा । मण्डूककुलं मत्तं, भाति च लीलातटाकेषु ॥१९॥ निचुलानां विपिनेऽस्मिन्नस्मिश्च पुनः सल्लकीकुर्छ । सहकारवनेऽप्यस्मिन्, परिमलबहलो वहति पवनः ॥२०॥ सखि ! सर्वा अपि यूयं, समानयत नवीननीपकुसुमानि । विष्टरमपि पूजायामुपवेष्टुं दत्त रमणीयम् ॥२१॥ कुरुत स्नानं यूयं, नूतनकह्लारपत्रिकानयने । निगदामस्त्वां सम्प्रति, सुस्थितमनसा शृणुष्वेदम् ॥२२॥ आल्यो ! वो निगदामो, न स्नात किमिह पल्वले यूयम्? । दर्दुरभीति त्यक्त्वा , स्नानं शीघ्रं समाचरत ॥२३॥ सध्रीच्यो! युष्माभिः, पद्मावत्यर्चनाविधानार्थम् । त्यक्त्वाऽन्यव्यापारं, तूर्णं चाऽऽनीयतां दूर्वा ॥२४॥ प्रियसख्यो ! युष्माभि-हर्षोद्रेकेण तुलसिका ग्राह्या । कथमपि नैव विलम्बः, श्रयणीयः शर्मदे काले ॥२५॥
Page #71
--------------------------------------------------------------------------
________________
तुब्भत्तो तुम्हत्तो तुज्झत्तो केअई तुहत्तो वि । आणाएमि तुमत्तो तहा तुवत्तो तइत्तो अ ॥२६।। तुम्ह तहिन्तो तुब्भ य तुम्ह य तुज्झ य सवेण्ट-पिक्काई । देवीइ ढोवणत्थं तोडामो दाडिमि-फलाई ॥२७॥ तुब्भत्तो तुम्हत्तो उयहत्तो तह य तह य उम्हत्तो । तुम्हत्तो तुज्झत्तो मुत्था-धूवं करावेमि ॥२८॥ तइ ते तुहं तुह तुमे तु तुम्ह तुव तुम तुमो तुमाइ इ ए । दे दि तहा विम्हरिअं किमिमं पल्लल-जले पहाणं ॥२९॥ उब्भ य तुम्हं तुब्भ य उम्ह य उयह तह उज्झ तह तुज्झ । पुप्फञ्जलि-दाण-कए नीवावचए किमालस्सं ॥३०॥ भे तुब्भ तु वो तुब्भं तुब्भाण तुवाण तुम्ह तुम्हं च । तुम्हाण य पल्ललओ विम्हरिअं किं जलाणयणं ॥३१॥ तुझं तुज्झ तुमाणं तुमाण उम्हाण अवि अ उम्हाणं । मत्त-जलवायसुड्डावणेण जल-कलुसणं किमिमं ॥३२॥ तुब्भाणं तुज्झाणं तुहाण तुम्हाणमह तुवाणं च । तुज्झाण तुहाणमिमं मत्त-बलायासु किं रमणं ॥३३॥ तुमए तए तइ तुमे तुमाइ तुज्झम्मि तुम्मि तुब्भम्मि । तुम्हम्मि तुहम्मि तुवम्मि तुमम्मि भणाम जूहि-कए ॥३४॥ तुसु तुज्झेसु तुहेसु अ तुवेसु तुम्हेसु तुवसु तुब्भेसु । तुमसु तुमेसु अ तुहसु अ भिसिणि-दलाहरणमादिसिमो ॥३५॥ तुब्भासु तुब्भसु तहा तुम्हसु तुम्हासु तह य तुज्झासु । तुज्झसु अ आइसामो नव-जम्बु-फलोवहारम्मि ॥३६॥ अम्मि म्मि अम्हि अहयं हमहं मालूर-पल्लवे लेमि । अम्हम्हे अम्हो मो भे वयमवि लोद्ध-कुसुमाइं ॥३७॥ णे णं मि अम्मि अम्ह य मम्ह अहं मं ममं मिमं मणइ । अम्हे अम्हो णे अम्हामलय-फलेहि जइ कज्जं ॥३८॥ मे मि ममं ममए मइ ममाइ णे तह मए मयाइ तुहा । अम्हाहि अम्ह अम्हे णे अम्हेहि अ जवा गेज्झा ॥३९॥ मज्झत्तो वि महत्तो तहा मइत्तो तहा ममत्तो वि । अम्हत्तो तह गिण्हेह कुडय-तरुणो पसूणाई ॥४०॥
Page #72
--------------------------------------------------------------------------
________________
सुन्दरवदनि ! वयस्ये !, त्वत्पाशर्वादानयामि शुभगन्धम् । सुमनः श्रेष्ठंकेतक - मतिगन्धं विश्वविश्वेऽपि ॥२६॥ शीघ्रं वयं वयस्यास्त्वत्तो रमणीयवृन्तपक्वानि । देव्या बलिकरणार्थं, त्रोटामो दाडिमफलानि ॥२७॥ प्रियवादिन्यः सख्यो ! भवतीनां सकाशतो रमणीयम् । मुस्तानां ननु धूपं, सप्रणयं कारयाम्यहम् ॥२८॥ सध्रीच्यस्तव किमिदं, विस्मृतिविषयं गतं जलस्नानम् । पल्वलजलेऽतिविमले, येन स्नातं त्वया नद्याम् ॥२९॥ सख्यस्तव कुसुमाञ्जलि - दाननिमित्तं कदम्बकुसुमानाम् । अवचयने ह्यालस्यं, किमिति ? कथञ्चिन्न तद्युक्तम् ॥३०॥ सख्यः ! किं युष्माकं, पल्वलसलिलस्य शैत्यकलितस्य । किं विस्मृतमयि ! शीघ्रं कृत्यं स्वीयं समाचरत ॥३१॥ चन्द्रानने ! वयस्ये ! मत्तसलिलवायसोड्डयनैः । किमिदं जलकालुष्यं ?, नेदं युक्तं भवत्कार्यम् ॥३२॥ आल्यो ! मत्तबलाका-पङ्क्तिषु रमणं न युक्तमत्यन्तम् । किमिदं पूजासमयेऽनौचित्यं श्रीयते कामम् ? ॥३३॥ सध्रीच्यो ! वो वयकं, निगदामो यूथिकाकृते किमपि । चिनुताऽऽनयत यथेच्छं पद्मावत्याः प्रसादार्थम् ||३४|| सख्यो ! भवत्सु कार्यं समादिशामो वयं खलु प्रीत्या । आनयत पद्मिनीनां, पत्राणि कियन्ति चारूणि ॥३५॥ युष्मासु हलाः सख्यो !, बलिकरणार्थं वयं तु कथयामः । नवजम्बूनां प्रेयांस्यानेतुं फलानि मधुराणि ॥३६॥ बिल्वानां किसलयकान्, सख्यो गृहणामि कोमलानद्य । लोध्राणां च सुमनसो, देव्या वै घ्राणतर्पणिकाः ||३७|| मामस्मानादिशत, यद्यामलकैर्भवेत् किमपि कार्यम् । भवतीनामपि कार्यं, सख्यो ! वयमेव विदधामः ||३८|| सख्यो ! यवोपहारं, निष्पादयितुं यदीच्छथः सम्प्रति । अस्माभिर्मयका च, ग्राह्यास्तेऽपि च यथाशीघ्रम् ॥३९॥ सख्योऽद्य मत्सकाशादस्मच्च कुटजतरुप्रसूनानि । यूयं ह्यङ्गीकुरुत, प्रेम्णाऽऽनीतानि हारीणि ॥४०॥
६३
Page #73
--------------------------------------------------------------------------
________________
मे मइ मम मह मज्झं महं तहा मज्झ अम्ह अम्हं च । णे णो अम्हे अम्हो चम्पय-कलिआउ गिज्झाओ ॥४१॥ अम्हाणं मज्झाण ममाण ममाणं महाण य महाणं । अम्हाण य मज्झाणं हत्थे धव-पसव-दामाई ॥४२॥ मि मइ मामइ मएवि अम्हम्मि ममम्मि मे तह महम्मि । मज्झम्मि अ थल-नलिणी-कुसुमाहरणे निउत्तव्वं ॥४३॥ अम्हेसु ममेसु तहा महेसु मज्झेसु तह य अम्हासु । आदिसह सल्लई-तरु-नव-कुसुमाहरण-कम्मम्मि ॥४४॥ इअ पउमावइ-देवीइ पूअणे मालिणीउ जम्पन्ति । तीहिं दोहिं दुगुणिअ-बेहिं च सहीहि अन्नोन्नं ॥४५॥ सरय-समयम्मि एत्थ य मिहुण-सरूवेण पिच्छ विलसन्ति । देव दुवे सारसया दुण्णि सुगा बेण्णि हंसा य ॥४६॥ दो दो कुरुरा वे वे अ खञ्जणा नह-यले उअ भमन्ते । पण्णा तिवण्णस्स य उअ तिण्णि वि जुण्ण-नीलाई ॥४७॥ उअ चउरो चत्तारो चत्तारि इमे नहम्मि उड्डन्ते । दंसेइ सारसे इअ मुद्धा दुण्हं वयंसीणं ॥४८॥ दुण्ह नयणाण सुहदा उअ माला पङ्कयाण तासुं च । कमल-सही हंस-वहू अली-वहू पिच्छ रममाणा ॥४९॥ अखलिअ-परिमल-रिद्धि पहिआ दट्ठण छत्त-वण्ण-तरुं । वच्चन्ति मोह-निदं मरण-सहिं भरिअ अप्प-बहुं ॥५०॥ हाहाण समा हे? तरूण सालीण गोविआ गन्ती । खे जन्तीणं मिलिआण सुर-वहूणं गईं खलइ ॥५१॥ अलि-मालाहि सणाहेहिँ बाण-कुसुमेहि परिमल-गुरूहि । दिटेहि वि मुच्छिज्जइ दुहिणीहिं पन्थिअ-वहूहि ॥५२॥ सारस-मालाहिन्तो सुग-मालाओ अ चडय-मालाउ । अखलिअ-गईउ घेणूउ रक्खिमो सालि-वणमेअं ॥५३॥ कुङ्कम-कलिआसुन्तो सुरहिस्स मिउस्स एन्त-पवणस्स । पसरो गिरिम्मि इह तह तरुम्मि सव्वं पि सुरहेइ ॥५४॥ फुल्ला मुणी इह तरू न मुणीउ तरूउ दूरगा भमरा । वाइ मुणीण तरूणं नव-परिमल-मासलो वाऊ ॥५५॥
Page #74
--------------------------------------------------------------------------
________________
सख्यो ! मम चाऽस्माकं, चम्पककलिका मनोहराः सद्यः । उपचित्य समानीता, उपहारार्थं त्वया ग्राह्याः ॥४१॥ रे रे प्रिया वयस्याः !, अस्माकं त्विह सन्त्यथो सर्वासाम् । हस्तयोर्ननु धवशाखि-प्रसूनमाला प्रभासन्त्यः ॥४२॥ सख्यः ! स्थलपद्मिन्या, आनयनार्थं तदीयपूजायाम् । आदेष्टव्यं मयि चेदस्त्यभ्यधिकं भवत्प्रेम ॥४३॥ सख्योऽस्मासु विनैव, सङ्कोचं ननु सल्लकीतरूणाम् । नवकुसुमान्यानेतुं, कुरुत प्रसादं समादेशात् ॥४४॥ इति पद्मावतिदेव्याः, पूजनकर्मणि वदन्ति मालिन्यः । तिसृभिश्चतसृभिश्चाऽन्योन्यं सार्धं वयस्याभिः ॥४५॥ अत्र च शारदसमये, मैथुनभावेन पश्य विलसन्ति । द्वौ द्वौ शुकौ च हंसौ, द्वौ द्वौ च सारसौ भातः ॥४६॥ द्वौ द्वौ च पुनः कुररौ, पश्य द्वौ खञ्जनौ पुनर्दीप्रौ । त्रीणि पलाशदलानि, पश्य जीर्णानि नीलानि ॥४७॥ काऽपि च मुग्धा सख्यो-रिति दर्शयते नभस्तले ससुखा । चत्वार इमे हंसा, उड्डयन्ते परस्परा मोदम् ॥४८॥ द्वयोर्नयनयोः सुखदाः, पङ्कजमाला विलोकयाऽऽनन्दम् । तासु च वरटा भ्रमरी, रममाणाः पश्य पद्मालीः ॥४९॥ अस्खलितगन्धऋद्धि, पथिका दृष्ट्वा च सप्तदलवृक्षात् । गच्छन्ति मोहनिद्रां, मरणाली स्वप्रियां स्मृत्वा ॥५०॥ हा हा समाऽत्र नित्यं, गायन्ती गोपिकातरोरधोमार्गे । खे यान्तीनां पङ्क्त्या , सुराङ्गनानां गतिः स्खलति ॥५१॥ अलिमालाभिर्युक्तैः, परिमलगुरुभिर्गहनविपिनकुसुमैः । दृष्ट्वैव विमूर्च्छन्ति, पथिकवधूभिः सबाधाभिः ॥५२॥ सारसमालाया अथ, शुकमालायाश्च चटकमालायाः । अप्रतिहतगतिधेनो, रक्षामः शालिवनमेतत् ॥५३॥ कुङ्कमकलिकाया अथ, सुरभितकोमलनभस्वतोऽप्यस्य । प्रसरो गिरौ तरावपि, सर्वं सुरभीकरोतीह ॥५४॥ शरदि प्रफुल्ला मुनयस्ततस्तरोन खलु दूरगा भ्रमराः । वाति च मुनिवृक्षाणां, नवपरिमलमांसलो वायुः ॥५५॥
६५
Page #75
--------------------------------------------------------------------------
________________
उद्दीविय-दढ-मयरद्धयग्गिणो वाउणो फुरन्ति रया । मुणि-मालत्तो पङ्कय-मालाहिन्तो पराय-कणा ॥५६॥ चारुम्मि एत्थ पल्लल-वारिम्मि विसट्ट-पोम्म-मालाओ । दोहिं चिअ नयणेहिं होइ न तित्ती नियन्ताणं ॥५॥ मच्च-गणस्स सुराण य अलं खु कामो हवेइ इह सरए । कामाय पवट्टन्ते बाणं कामस्स य घडन्ते ॥५८॥ मयणम्मि विरहिणीणं वहाइ रुट्ठम्मि को व न वहाय । जं ताण वहस्स हुअं फुल्लं सेहालिअ-वणं पि ॥५९॥ वन्दे भण्डीरस्स वि चिरस्स फुल्लम्मि जम्मि अलि-ओली । नील-मणीण न इअरा वण-सिरि-पिट्ठीइ कबरि व्व ॥६०॥ एइ न पहिओ पासे इमस्स असणेसु भूसिअ-वणस्स । गन्ध-विसेहि व तेहिं बीहन्तो नस्सए दूरे ॥६१॥ इह कणय-पङ्कएहिं रत्ति विज्जुज्जलेहि चउ-वीसं । अच्चिज्जन्ति जिणा तेण तेण कालेण सयराहं ॥६२॥ उज्जाण-मण्डवेसुं गरुआअइ लोहिआइ बिम्ब-फलं । गुरुआइ लोहिआअइ एव्वारु-फलं च कच्छेसु ॥६३॥ वेवइ हसइ अ कुमुअं पवेवइ विहसए अ कासं च । देव जलम्मि थलम्मि अ इह पेक्खसि पेक्खसे इत्थ ॥६४॥ न हससि न वोवहससे जइ ता भासेमि किं पि वन्नेमि । अमुणा सरेण हंसाण माणसं तं पि विम्हरिअं ॥६५॥ बहु वन्निउं न सक्कं जाई दीसन्ति सरय-चिन्धाइं । चरिआई विप्फुरन्ते इदो अ हेमन्त-सिसिराण ॥६६॥ विच्छुहिरे कलयण्ठा सूसइरे ताण तारिसो कण्ठो । दीसन्ते कुन्द-लयाउ विप्फुरन्तीह रोलम्बा ॥६७॥ इह पेक्खह पेक्खित्था इहेह पासह इहावि पासित्था । लवली-लयाउ फलिणी-लयाउ फद्धा इवाफुल्ला ॥६८॥ नोवदिसामो नो संदिसामु न य आदिसाम किं तु इमा । गायन्ति इह सयं चिअ मिलिआ कसणेच्छु-गोवीओ ॥६९॥ तुवरामो चणएसुं नव-सरिसव-कन्दलीसु तुवराम । तुवरासु मूलएसुं इअ कच्छ-त्थीण संरम्भो ॥७०॥
६६
Page #76
--------------------------------------------------------------------------
________________
उद्दीपितदृढमकर-ध्वजदहना वायवः स्फुरन्ति रयात् । मुनिमालातः पङ्कजमालाभ्यो वा परागकणाः ॥५६॥ चारुणि पल्वलवारिणि शरदि सुविकसितसरोरुहश्रेणी । नयनद्वयेन तृप्तिर्न भवत्यवलोकमानानाम् ॥५७॥ मर्त्यगणस्य सुरेभ्योऽलं खलु कामोऽत्र सम्भवति शरदि । बाणं घटमानायां, मदनस्य प्रवर्तमानायाम् ॥५८॥ मदने विरहिजनानां, रुष्टे नाशाय को न खलु तादृक् । तासां वधाय भूतं, फुल्लं शेफालिकाविपिनम् ॥५९॥ भण्डीरमहं वन्दे, यस्मिन् फुल्ले चिरेण मधुपाली । नीलमणिभ्यो भिन्ना, वनलक्ष्मीपृष्ठ इव कबरी ॥६०॥ एति न पथिकः पार्वे, बीजकभूषितवनस्य चैतस्य । गन्धविशेषात् तस्मादपि दूरं पलायते बिभ्यत् ॥६१॥ काञ्चनकमलविद्युद्दीप्तः परमेष्ठिनो जिनाः सर्वे । अय॑न्त एव तस्मिंस्तस्मिन् काले द्रुतं लोकैः ॥६२॥ उद्यानमण्डपेषु, गुर्वतिलोहितमिवाऽऽचरति बिम्बम् । एर्वारुफलं कच्छे, गुर्विव लोहितमिवाऽऽचरति ॥६३॥ कुमुदं हसति प्रवेपते, कासं चन्द्रिकया विकासमायाति । देवस्थले जलेऽपि, प्रेक्षस्वेतस्ततः कामम् ॥६४|| राजन् ! यदि नो हससि, नो विप्लवयसि ततः किमपि भाषे । अमुना सरसा मानसमपि विस्मृतिमानयन् हंसाः ॥६५॥ बहु वर्णितुं न शक्यान्येतानि च लक्षणानि शरदोऽस्याः । चरितानि विस्फुरन्ते, हेमन्त-शिशिरर्तुजातानि ॥६६॥ क्षुभ्यन्ति हि कलकण्ठाः, शुष्यति तेषामनुत्तमः कण्ठः । कुन्दलता दृश्यन्ते, रोलम्बा विस्फुरन्तीह ॥६७॥ इह प्रेक्षध्वमिहत्यं, दृश्यं पश्यत पुनः पुनः कामम् । अन्योन्यस्पर्धादिव, मन्ये फलिनीलताः फुल्लाः ॥६८॥ उपदेशमथाऽऽदेशं, सन्देशं वा विनैव कुत एताः । । गायन्तीह समुदिताः कृष्णेक्षुगोपिकाः मिलिताः ? ॥६९॥ चणकेषु त्वरयामो, नवसर्षपकन्दलीषु पर्याप्तम् । त्वरयामो मूलार्थं, कच्छस्त्रीणामयं समुद्योगः ॥७०॥
Page #77
--------------------------------------------------------------------------
________________
हसए अ तुवरए तह लेइ अ पुंनामयाइँ एस जणो । कीस न हससि न तुवरसि न लेसि विलया इअ लवन्ति ॥७॥ तं सि तहा एस म्हि अ अम्हत्थि जुअम्ह सम-गुण म्हो अ । गायामो इअ नव-लट्ट-गोविआणं इदो वत्ता ॥७२॥ अत्थि अहं तुममेसा दरिसेइ न का वि कुसुम-विन्नाणं । इअ भणिअ का वि कारइ मुचुकुन्दाओ कुसुम-हरणं ॥७३॥ अलि-गुञ्जिअं करावइ मालिणि-हल्लप्फलं करावेइ । जाणावइ रइ-लीलं मयणं भावेइ पारत्ती ॥७४॥ तोसविअ-तरुण-गोवं तोसिअ-हरिणं इदो अ जव-गोवी । खे भामइ गीअ-झुणिं पउत्थ-सत्थं भमाडेइ ॥७५॥ कारिअ-अलि-कुल-रोला मरुवय-माला कराविअच्छि-छणा । उअ कारीअइ जीए जयं करावीअइ अणङ्गो ॥७६।। कुन्देहि कराविज्जइ तह कारिज्जइ नवेहि लवलेहि । जं ताण परिमल-वहो गन्धवहो मारइ पउत्थे ॥७७॥ कारेइ कं न हरिसं कारावेइ अ न कं रउच्छाहं । हासाविअ-जुव-गोवा जुव-गोवी कारिआणङ्गा ॥७८॥ जाणामि न हि न जाणमि नारङ्ग-फलाई वन्निउं देव । वण-सिरि-वहूएँ घट्टसुआई सोहन्ति एआइं ॥७९॥ पउमसिरि तं भणामो भणिमो तं लच्छि भणिमु तं गउरि । भणसु तमिले भ णाम य तं गङ्गे तं भणामु कमलच्छि ॥८०॥ तं सिरि भणमो भणिम तमुमे जए तं च भणम कुन्द-वणं । उच्चिणह गहिअ-नाम लवन्ति विलया इअन्नोन्नं ॥८१॥ फलिणि-कुसुमं विहसिउं विहसेउं लोद्धयं पयट्टेइ । हसिऊणं विहसेऊण निअ इमं अणहसेअव्वं ॥८२।। गन्धेण अहसिअव्वं विहसेहिइ इममिमं च विहसिहिइ । विहसेइ इमं विहसइ इमं च वारुणि-वणे पुष्पं ॥८३॥ इह हसउ पहिअ-लोओ हसेउ उज्जाण-बालिआ-लोओ । विहसन्त-हिओ विहसेन्त-लोअणो फलिअ-बोरीहि ॥८४॥ जयइ अणङ्गो कह पहु सुणाउ विहसेज्ज जइ न पुंनागो । न य विहसेज्जा लवली होईअइ न वि अ कुन्देहि ॥८५।।
६८
Page #78
--------------------------------------------------------------------------
________________
हसति त्वरते महोत्सवः, पुंनागानि समानयति लोकः । किं नो त्वरसे विहससि, लासि च वनिता लपन्तीत्थम् ॥७१॥ त्वमसि तथैषाऽप्यहकं, वयमप्येकत्र हन्त मिलिता स्मः । तुल्यगुणा गायाम, इति काञ्चनरक्षिकावार्ताः ॥७२॥ त्वमहं सख्येषा वा, दर्शयते नो प्रसूनविज्ञानम् । इति कथयित्वा काऽपि च, हारयति मुचकुन्दकुसुमानि ॥७३।। मालिन्युत्सुकभावं, कारयति च मधुपगुञ्जितं क्वाऽपि । बोधयति स्मरलीलां, पारत्ती कामिनः कामम् ॥७४॥ आवर्जितयुवगोपं, सन्तोषितमृगमितश्च यवगोपी । प्रोषितसार्थं भ्रमयति, गगने विमलध्वनि विततम् ॥७५।। कारितमधुपनिनादां, मरुबकमालां तु जनितदृगानन्दाम् । पश्य यया किल मदनो, जगति जयं कार्यते कामम् ॥७६।। कुन्दैविधाप्यते यल्लवलीपुष्पं विधाप्यते तत्तत् । यत्तत्परिमलधारकगन्धवहो हन्ति पन्थानम् ॥७७॥ कारयति कं न हर्ष, कारयते कं च नो रतोत्साहम् । हासितबल्लवतरुणा, युवगोपी कारितानङ्गा ॥७८॥ जाने नैव न जाने, नारङ्गफलानि प्रशंसितुं देव ! । वनलक्ष्म्याः कौसुम्भवसनानि यथा भान्ति चैतानि ॥७९॥ पद्मश्रीस्त्वां ब्रूमो, लक्ष्मि ! भणामो वयं पुनर्गौरि ! । इले ! भणामस्त्वामपि, गङ्गे ! कमलाक्षि ! भवतीं च ॥८०॥ श्रीस्त्वां शुभां भणामो, ब्रूम उमे ! त्वां जये ! पुनर्ब्रमः । उच्चिनुत कुन्दविपिनं, नामग्राहं मिथो जगुर्ललनाः ॥८१॥ फलिनीकुसुमं हसितुं, लोभ्रं च तथा प्रवर्तते सख्यः ! । गण्डविकासं स्मित्वा, हसनीयं चैतदीक्षध्वम् ॥८२॥ गन्धेनाऽतिश्लाघ्यं, विहसिष्यति सकलनेत्रमदनीयम् । इदमपि विहसति कामं, नवपुष्पं वारुणीविपिने ॥८३।। इह हसतु पथिकलोको, विहसत्वारामबालिकालोकः । विहसद्धदयो विहसन्नयनः, फलवद्बदरिकाभिः ॥८४।। कामः कथं विजयते, प्रभवः !, शृण्वन्तु यदि न पुन्नागः । विहसति नाऽपि च लवली, कुन्दैरथ भूयतेऽफुल्लैः ॥८५॥
Page #79
--------------------------------------------------------------------------
________________
होइज्जइ फलिणी - कुसुमेहि लहिज्जेज्ज केहि नच्छि - सुहं । केहि न लहिज्ज हरिसो जह दीसइ वुच्चइ तहे ॥८६॥ इअ राया उज्जाणं तं कासी नयण - गोअरं सब्बं । काही सउहे गमणं संझा-कम्मं च काहीअ ॥८७॥ अह पढिअं सूएहिं हुवीअ संझा अहेसि अत्थमणं । अम्ह खणो आसि तमो हुज्जइ ससि - उग्गमो हुज्ज ॥८८॥ होस्सामि दुही होहिमि दीणो होहामि असरणो इहि । इअ चिन्तन्तो विरहं सहइ रहङ्गो रहङ्गीए ॥८९॥ वायव्व-ण्हाण-ण्हाया होस्सामो होहिमो अणज्झयणा । होहामो कय- - गेड्डी - खेड्डा होस्साम विगय-भया ॥९०॥ होहाम मुक्क-मेरा होहिम गोवाल - गुज्जरी - गाया | होस्सामु मित्त-मिलिआ होहामु तहेअ कय- नट्टा ॥९१॥ होहि रमिरा भमिरा होहिस्सा निव्वुआ य होहित्था । इअ मुणि-वडुआ जम्पन्ति गाविसमुहं वणे जन्ता ॥९२॥ होस्सं कय-नेवच्छा काहिमि कुरले णडालिअं काहं । दाहिमि वासं केसेसु दाहमलिअम्मि तिलयं च ॥९३॥ पिअ - संमुहं च गच्छं सोच्छं गीअं च हरिसओ रोच्छं । तारुन्न- फलं वेच्छं दच्छं मोच्छं च संतावं ॥९४॥ छेच्छं भेच्छं नक्खेहि पिअं वोच्छं च तेण भोच्छं च । सोच्छिस्सं पिअयम-चाडुआइँ मोहं च गच्छिस्सं ॥९५॥ हसउ अ रमउ अ तुह सहि- अणो हसामु अ रमामु अ अहं पि । हससु अ रमसु अ तं पि हु इअ भणिही मह पिओ इहि ॥ ९६॥ सहिमेवं च भणिस्सं तम्बोलं देहि देसु पुप्फं च । इअ चिन्तन्ती वासय-सज्जा सज्जेइ पिअ - सेज्जं ॥९७॥ तं रमसु तं रमेज्जसु तुमं रमेज्जे रमिज्जहि तुमं पि । रमतंपि वयं रमिमो रमन्तु एआ रमह तुभे ॥९८॥ एआ हसन्तु तुम्हे हसह हसामो वयं पि नीसङ्कं । दइएण रमिज्ज इमा रमेज्जा इमा रमइ ॥९९॥ एसा रमिहिइ एसा रमिज्ज एसा वि संपइ रमेज्जा । एसा रमिज्ज एसा रमउ रमेज्जा य एसा वि ॥ १०० ॥
७०
Page #80
--------------------------------------------------------------------------
________________
हर्षो नेत्रसुखं वा, फलिनीकुसुमैर्न लभ्यते केन । कथयाम्यहं भवन्तं, यथानुभूतं न च प्रीत्या ॥८६॥ इति राजा सोद्यानं, तदकार्षीन्नयनगोचरं सर्वम् । सौधं जगाम सन्ध्या-कर्म चकार यथानियमम् ॥८७॥ अथ सूतौ राजाग्रे, पठितं सन्ध्याऽभवद् दिनं पूर्णम् । अस्माकमयं कालस्तमो विनष्टं शशी प्राप्तः ॥८८॥ साम्प्रतमहं सकष्टो, भविता दीनो पुनश्च निर्नाथः । इति चिन्तयन् वियोगं, सहते चक्रो विपत्प्राप्तः ॥८९॥ सुरभिखुरैरुत्थापित-पांशुस्नाता वयं भविष्यामः । विगतभयाः कृतयष्टिक्रीडा मुक्ताः श्रुताध्ययनात् ॥९०॥ विरहितनिजमर्यादा, गास्यामो गोपगुर्जरीं रागात् । सम्मिलिताः प्रियमित्रैर्ननु कृतनृत्या भविष्यामः ॥९१॥ किञ्च क्रीडनशीला, भवितार इतस्ततो भ्रमणशीलाः । इति मुनिबटुका विपिने, निगदन्ति स्वगवीसविधे ॥९२।। कृतनेपथ्या कुरलान्, कर्ताऽरम्यलिके च भूषणं मधुरम् । केशेषु सुरभिवासनलिके तिलकं विधास्यामि ॥९३॥ प्रियसविधे यास्यामि, गीतं श्रोष्यामि हर्षभरगीतम् । सन्तापं त्यक्ष्यामि, सार्थकयिष्यामि तारुण्यम् ॥९४॥ नखैः प्रियं छेत्स्यामि, रहसि वदिष्यामि मानयिष्यामि । श्रुत्वा प्रियतमचाटुक-मात्मिकसौख्यं गमिष्यामि ॥९५।। क्रीडतु हसतु यथेच्छं, त्वं तव सख्या त्वयाऽपि सा स्वैरम् । रमावहे चाऽऽवामपि, निगदिष्यति साम्प्रतं दयितः ॥९६॥ सखि ! मह्यं ताम्बूलं, देहि च पुष्पं सखीं भणिष्यामि । इति मन्वाना वासकसज्जा सज्जति निजां शय्याम् ॥९७॥ त्वं त्वं त्वमपि रमस्व, रमतामेषाऽविशङ्कमात्मीयैः । यूयं सपदि रमध्व-मेष प्राप्तो रमणसमयः ॥९८॥ एता हसन्तु युष्मान्, यूयं विहसत वयं च निःशङ्कम् । रमामहे दयितेन, स्वैरं मत्प्राणनाथेन ॥९९।। सम्प्रत्येषा स्वैरं, वञ्जुलकुञ्ज रमिष्यते रागात् । एषैषाऽपि तथैषा, रमिष्यते क्रीडतामेषा ॥१००॥
७१
Page #81
--------------------------------------------------------------------------
________________
होज्जम्हणं समज्जो होज्जा स-च्छन्द-गो जणो एस । ण हु होज्ज जइ पओसो ता एस जणो कहं होज्जा ॥१०१॥ होज्जइ अङ्ग-त्थम्भो सेओ होज्जाइ होज्ज रोमञ्चो । होज्जा कम्पो होइ अ वेवण्णं एण्हिमभिसरणे ॥१०२॥ होज्जहिइ इट्ठ-गोट्ठी होज्जा पिअ-मेलओ दिही होज्ज । होहिइ परमाणन्दो होज्जाहिइ चित्त-वीसामो ॥१०३॥ होज्ज किलकिंचिअं विव्वोओ होज्जाउ विब्भमो होउ । मोट्टाइअं च होज्जउ होज्जा ललिअं च अम्हाणं ॥१०४॥ होज्ज न संझा होज्जा न निसा तिमिरं पि जइ न होमाणं । ता होन्ता कह अम्हे इअ संपइ पंसुलालावो ॥१०५॥ विहसंत-पहा-हसंतओ, अह उइओ चंदो कुणंतओ । उवहसमाणिं सरोरुहं, विहसंति हसई व कुमुइणि ॥१०६॥
॥ इति पञ्चमः सर्गः ॥
Page #82
--------------------------------------------------------------------------
________________
आल्यस्माकं समयः, स्वेच्छाविचरणविधायको भावी । सन्ध्या यदि न भविष्यति, विरहानलतो मरिष्यामि ॥१०१॥ अभिसरणेऽङ्गस्तम्भः, स्वेदः कम्पस्तथा च रोमाञ्चः । वैवयं सखि ! कामं, दृश्यन्ते कामचिह्नानि ॥१०२॥ सखि ! प्रियगोष्ठी भविताऽन्योन्यश्लेषस्तथा च सन्तोषः । परमानन्दश्चेतोविश्रामोऽविरोधतो भावी ॥१०३॥ ह) ! नो बिब्बोको, मोट्टायितमस्तु विभ्रमो ललितम् । किलकिञ्चितमपि भावात् सन्त्वस्माकं सरोष-भयम् ॥१०४॥ रजनीमुखं निशा वा, यदि वा तिमिरं भवेन्न लोकेऽस्मिन् । तत्कथमस्मज्जीवित-मिति सम्प्रति पांसुलालापाः ॥१०५॥ विहसत्प्रभया हसन्नसावथ चन्द्र उदितो नयन्निव । विप्लवयन्ती सरोरुहं विहसन्तीं विशदां हि कुमुदिनीम् ॥१०६॥
॥ इति पञ्चमः सर्गः ॥
Page #83
--------------------------------------------------------------------------
________________
प्राकृतविभाग:
पाइयविन्नाणकहा
आ. विजयकस्तूरसूरीश्वराः
(१) बुद्धिपहावम्मि मइसेहरमंतिस्स कहा बुद्धिपहावओ देवा, पयारिज्जंति धीमया ।
मइसेहरदिटुंतो, जाणियव्वो वरो इह ॥ दत्तपुरम्मि नरसिंहस्स रण्णो मंती मइसेहरो नाम आसी । एगया 'तुमए कियंतीओ कलाओ अब्भसिआओ संति' इअ रण्णा पुट्ठो मंतो कलाणं तिहत्तरं अब्भसिओ म्हि त्ति वयासी । 'का एसा कला अहिगा' इअ भूवेण भणिए 'समये दंसिस्सं' ति भणिऊण मंती गेहं गओ ।
अन्नया मंतिणा मज्जणं कुणंतीए पट्टमहिसीए हारं घेत्तूणं नियदासीए समप्पिओ । अह राया सम्म उवलक्खिऊणं 'मम एसो हारो भवया चोरिओ' त्ति मंतिं तज्जित्था । इमो हारो मम पुव्वयाणं - न उ देवपायाणं - इअ तेण वुत्ते राया अवोच - जइ इत्थं तइया कुबेरजक्खगेहपवेसरूवं दिव्वं कुणाहि ।
सो य जक्खो नियमंदिरपविढे असच्चवाई हणेइ, सच्चवाइं च पूएइ त्ति पसिद्धी ।
सइवो वि साहसं धरित्ता संझाए पउरजणसमक्खं जक्खगेहं पविठ्ठो । 'अयं असच्चवाई पावो मम गेहं पविट्ठो अत्थि' इअ कुद्धो जलणजालं वमंतो भूमि कंपावितो लोहमुग्गं च करम्मि वहंतो सक्खं जमो विव सो जक्खो पयडीहूओ। रे पाव ! असच्चवाइं तुमं अज्ज मोग्गरेण खंडसो कुणेमि त्ति वयणपरं तं मंती वयासी - हे जक्खराय ! पढमं आजम्मभवं मम एवं संसयं छिंदाहिं । तओ तयणु जहरुइं कुणेसु इअ तेण वुत्ते, 'वयाहि तं संसयं' ति जक्खेण भणिए सो कहित्था -
तहा हि - फलवड्डिपुरम्मि धरण-करणनामाणं कुडुंबीणं पिउपुत्ताणं भज्जाओ मयाओ। अन्नाओ भज्जाओ विहेउकामा ते दुण्णि मणोरमं पुरं पत्थिआ । ते मग्गम्मि गच्छंता पुरओ गच्छंतीणं इत्थीणं पयाई पासित्था । ताओ इत्थीओ मायरपुत्तीओ होत्था । तहिं माया वामणा, तेण तीए पयाई लहूई, पुत्ती य पलंबिणी, तेण तीए पुत्तीए पयाइं महंताई । ताणं पयववत्थं विलोइऊण धरणो भणित्था - हे पुत्त ! जइ दइव्ववसाओ इमाओ इत्थीओ अम्हे अंगीकरिस्संति तइया महंतपया मम गेहिणी लहुपया य तुव त्ति ते
७४
Page #84
--------------------------------------------------------------------------
________________
दुण्णि मिहं पइजाणित्था ।
अह मिलियाहिं ताहि इत्थीहि ताणं वयणेसुं अंगीकुणंतेसुं ताओ उभाओ वि भज्जाओ संजाया। 'अह ताणं चउण्हं पि उप्पन्नाणं अवच्चाणं मिहं को संबंधो' इअ मम हिययम्मि संसओ अत्थि । तम्मि संसयावट्टम्मि पडियस्स 'किं वएमि' त्ति चिंतमाणस्स कुबेरजक्खस्स पभायं संजायं । __तइया पभायम्मि संजाए तं मंतिं तहेव मोत्तूणं तिरोहिए जक्खे 'मंती सच्चो'त्ति पूअगेण विनविए विम्हिओ राया मंतिं सक्कारित्ता विसज्जित्था । अह कियंतेसु दिणेसुं गएसुं मंती तं हारं रण्णो दाऊणं हारचोरणजक्खवंचणा-इवुत्तंतं कहिऊण नियपडिवण्णम्मि समहियकलाभणणम्मि अभिहिए तुट्ठो राया तं विसेसेण बहुं मन्नित्था। उवएसो -
मइसेहरमंतिस्स, नच्चा कज्जम्मि कोसलं । तह तुम्हे वि पवट्टेह, जेण होइ सिवं सया ॥
बुद्धीए पहावम्मि मइसेहरमंतिणो कहा समत्ता ॥ - कहारयणायराओ
(२) सुहकम्मविहाणओ सूलीए भोत्तळ कम्मं सूईए
अवगच्छेइ, इह रायपुत्तस्स कहा सूलीभोत्तव्वकम्मं जं, धम्मकज्जविहाणओ ।
सूईए तं तु नस्सेज्जा, रायपुत्तो जहा इह ॥ एगनरवइणो दुण्णि महिसीओ संति । ताणं दुण्हं एगदिवसम्मि पुत्तरयणं समुप्पणं । एगो एगाए घडीए पुव्वं संजाओ, तेण सो महंतो भाया अवरो य लहू बंधू कहिज्जइ । रण्णा महामहेण ताणं जम्मूसवो विहिओ।
राया नेमित्तिअं आहविऊणं एएसि जम्मवग्गं कड्ढाहि फलाएसं च वयाहि त्ति पुच्छेइ । सो दीहकालं जम्मकुंडलिं निरिक्खऊणं फलादेसं कहेइ - पुव्वं जिट्ठभाउओ फलं एवं - गुरुभाउणो एगवीसवरिसम्मि संजाए जम्मट्ठमीए बीयदिवसम्मि तडयघडिगासमए चक्कवट्टी महाराओ होहिइ ।
एयं सोच्चा सव्वे अईव संतुट्ठा । रायमहिसी कंठाओ रयणहारं निक्कासित्ता नेमित्तिअस्स देइ।
तओ लहुबंधुणो फलादेसं कहेइ - लहुकुमारस्स एगवीसइमवरिसम्मि समागए जम्मट्ठमीए बीयदिणम्मि तइयपहरम्मि सूलीए समारोहणं होही ।
७५
Page #85
--------------------------------------------------------------------------
________________
एवं सुताणं सव्वेसिं महादुक्खं संजायं । लहुमहिसीए मुहं नियपुत्तस्स अणिट्ठसवणेण नित्तेअं मिलाणं च जायं । रण्णा पुणो पुणो पुच्छिए वि 'नऽन्नहा भविस्सइ' त्ति रायजोइसिएण वृत्तं । दुहं कुमाराणं जम्मपत्तिगाओ सुरक्खियट्ठाणे रक्खिया ।
'अणिट्ठागमणसवणे जत्तो न मोत्तव्वो' एवं वियारित्ता रण्णा लहुरायपुत्तो पढणट्टं सत्थाइकलागह च विउसवरस्स समप्पिओ । सो विणएण विज्जाओ गिण्हंतो धम्मसत्थाइं च भणंतो विउसवरसंसग्गेण धम्मपिओ सइ धम्माराहणपरो सयायारवंतो य संजाओ । जिट्ठभाया उ महाराओ हं भविस्सं ति गव्वेण तह दुज्जणमित्तसमागमेण 'गुणा दोसा य संसग्गेण हवंति इअ वक्कं सच्चवितो विव' सो मज्जपाणघरम्मि वारंगणागेहम्मिय विलसंतो दिणाई जावेइ । एवं एगवीसइमवरिसम्मि समागयाए जम्मट्ठमीए सव्वं नयरं महामहूसवपसंगे आणंदमग्गं संजायं ।
एयम्मि महूसम्म पवट्टमाणम्मि नरवई सहसा रुग्गो संजाओ । तेण संझाए पहुणो आरत्तियविहाणम्मि अपक्कलो जाओ । जिट्ठकुमारस्स गवेसणम्मि कए सो न लद्धो । सो य तइया विदेसाओ समागयनच्चणीए नट्टदंसणम्मि पसत्तो आसी । तओ लहुरायकुमारो आरत्तियकरणे आहविओ । सो अईव सिणेहभत्तिपुव्वयं पहुणो आरत्तियं विहेइ । एयम्मि जम्ममहम्मि पहुणो गुणगाणेण सव्वं रति नेसी । एगंतकामभोग-विलासाइपसत्तेण खीणपुण्णो पहायम्मि रायगेहम्मि समागच्छंतो पायखणेण पडिओ जिट्ठकुमारो पहुजम्ममहम्मि उच्छालियसुवण्णमुद्दाणं दुण्णि लहीअ ।
तम्मि चिय कालम्मि लहुरायकुमारो पहुजम्ममहूसवं संपुण्णं किच्चा रायपासायम्मि आगमणाय वच्वंतो खलंतपाओ सो तत्थ पडिओ । तइआ तहिं मालागारेण पुप्फकरंडगो पुव्वं ठविओ होत्था । तत्थ पुप्फाणं गुच्छमज्झम्मि एगा सूई तस्स कुमारस्स पायम्मि पविट्ठा, तओ सो पायपीलाबाहिओ कट्टेणं सूइं निक्कासिऊण सत्थो जाओ ।
पच्चूससमयम्मि सत्थत्तणं पत्तो नरवई दोण्णि कुमारे विग्घरहिए पासित्ता तं जोइसिअं आहविऊण जम्मकुंडलीए फलं विसमत्तणकारणं पुच्छित्था । रायनेमित्तिओ कहेइ - जम्मकुंडलीए निद्देसो फुडो अत्थि । परंतु एसो मणुअजम्मो कम्मभूमी अत्थी । पुव्वभवकयसुहासुहेण कम्मेण इह भवम्मि फलं भुंजिज्जइ, किंतु इह सत्तवसणाइपावपउत्तीइ सुहं कम्मं झिज्जइ, सद्धम्मकम्मुणा उदयं समागच्छंतं असुहकम्मं पि खयं पावेइ । जेण
पुव्वभवासुहं कम्मं, झिज्जइ सुहकम्मुणा । एवं हि सुकयं कम्मं, झिज्जइ पावकम्मुणा ॥
अओ लहुकुमारस्स सूलीबद्धं असुहं कम्मं सद्धम्मकज्जेण अप्पाए सूइदुक्खवेयणाए ववगयं । जिट्ठबंधुणो चक्कवट्टिपयलाहरूवं सुहं कम्मं दुरायारपउत्तीए खीणं संजायं । जओ तेण अवसेससुकम्मेण
७६
Page #86
--------------------------------------------------------------------------
________________
दुण्णि सुवण्णदीणारा लद्धा । एवं दुण्हं रायकुमाराणं सुहासुहकम्मफलाणं निप्फलभावम्मि दिट्ठतं सोच्चा सया असुहकम्मनिवारणसमत्थम्मि धम्मम्मि तह य पवित्तायारम्मि पर्यट्टियव्वं । व
दुहं रायकुमाराणं, कम्मं नच्चा सुहासुरं । कल्लाणकारणे धम्मे, जत्तं कुणेह सव्वया ॥ सुहासुहकम्मम्मि दुहं रायपुत्ताणं कहा समत्ता ॥
*
—
सच्चवेरग्गसंजुत्ता, रज्जंति ते न कत्थइ । गुरुसीसाणं दितो, णायव्वो इह बोहगो ॥
(३) सच्चवेरग्गग्मि गुरुसीसाणं कहा
विसुद्धवेरग्गरंजियसीससहिओ एगो गुरू विहरमाणो अडवीमज्झम्मि समागओ । तया अग्गओ गच्छंतो गुरू भूमीए उवरिं पडियं रयणमणिमंडियं सुवण्णभूसणं दट्ठूणं वियारेइ - सीसो पच्छा आगच्छेइ, जइ सो एयं पासेज्जा तइया गहणाभिलासो अस्स होही, तओ इमं आभूसणं धूलीए ढक्केमि एवं चितिऊण तस्सुवरिं धूलि पक्खिवेइ ।
—
तया सीसो वि तत्थ समागच्छंतो धूलि पक्खिवंतं तं पासिऊण पुच्छेइ - भंते ! धूलीपक्खेवणेण किं ढक्केसि ? । पुव्वं तु गुरू न वएइ, किंतु सीसस्स अईव निब्बंधेण तेण कहियं - मग्गम्मि कासइ भूसणं पडियं, तं पासित्ता तुम्ह मोहो न जायए तेण मए धूलिए एयं ढक्कियं । सीसो कहेइ - धूलीइ उवरिं धूलीपक्खेवणेण किं ? । एवं सोच्चा संजायच्छेरो गुरू वियारेइ । ममत्तो मम सीसो अहिवेरग्गवासियचित्तो अत्थि, जेण मम भूसणदिट्ठी अत्थि, अस्स उ भूसणाम्मि धूलीसरिसदिट्ठी होइ । महप्पाणो मणिम्मि लेडुम्मि य समचित्ता हुविरे । एवं वियारिऊण सो वि समचित्तो सव्वत्थ संजाओ । एवं अप्पकल्लाणकंखिरेहिं सव्वेहिं पोग्गलियवत्थूसुं समचित्तेहिं होयव्वं ॥
एसो
नायगं गुरूसीसाणं, समभावेण भूसियं ।
नच्चा तुम्हे वि सव्वत्थ, समचित्ता हवेह भो ! ॥
सच्चवेरग्गम्मि गुरूसीसाणं कहा समत्ता ॥
*
गुज्जरभासाकहाए
७७
-
-
गुज्जरभासाकहाए
Page #87
--------------------------------------------------------------------------
________________
(४) 'सया गया रेहा संठिआ' इअ नाण पुष्पन्ननरसरिसा वट्टमाणकलिकालम्मि मणूसा
न होज्जा - इह नरवइ-माहणविउत्साणं कहा जारिसा पुव्वकालम्मि, मणूसा सत्तसालिणो ।
तारिसा अज्ज नो संति, सत्तविहीणभावओ ॥ एगो नरिंदो एवं चिंतेइ-जो नरो जलपुण्णं घडं पिवेइ तस्स दाणं दायव्वं । तत्थ बहवो माहणा विउसा य आगच्छंति, राया ते जलभरियघडजलपाणाय कहइ । तेसिं को वि पुण्णघडजलं पिविउं पक्कलो न जाओ । राया कास वि दाणं न देइ । एवं बहुणो विउसा समागच्छंति । के वि पुण्णं घडजलं पाउं न चएइ, महीवई दाणं च न देइ ।
एगया को वि विउसो दाणस्स अदाणकारणं नच्चा हत्थम्मि एगं महंतं पाहाणं घेत्तूणं निवस्स पुरओ समागओ । भूवई घडजलपाणटुं कहेइ । सो नेच्छइ । तइया नरवई कहेइ - तुम्हाणं पुव्वपुरिसो अगत्थमहारिसो जो संजाओ सो समुद्दजलं पिवित्था, तं तु अप्पं पि घडजलं पिविउं किं न समत्थो ? । सो कहेइ - एवं पाहाणं जलम्मि तारेसु, तइया अहं घडजलं पिवेमि । राया वएइ जलोवरिं पाहाणो कहं तरेज्जा ? । सो विउसो साहेइ – तुम्हाणं पुव्वओ रामचंदो लंकागमणसमए समुद्दम्मि पाहाणेहिं सेउं निबंधित्था, तं तु तस्स वंसम्मि संजाओ समाणो एयं लहुं पाहाणं जलम्मि तारिउं किं न सक्को ? । सो निवो कहेइ - कत्थ राया रामचंदो ? कहिं च अहं ? । तइया विउसो साहेइ - कत्थ सो अगत्थो महारिसी, कत्थ हं? ।
एवं जारिसा वट्टमाणकालम्मि नरवइणो तारिसा माहणा विउसा संति । एवं पुव्वकालसरिसनरा वट्टमाणकालम्मि न हुविरे । उवएसो -
नरिंद-माहणाईणं, वट्टालावं मणोहरं ।
सोच्चा तुम्हे जहसत्तिं, होह कज्जपरा सया ॥ एवं वट्टमाणकालीणनरिंद-माहणविउसाण कहा समत्ता ॥ - गुज्जरभासाकहाए
७८
Page #88
--------------------------------------------------------------------------
________________
(५) 'दाणिणो किंपि अदेयं न सिया'
इह विक्कमाइच्चभूवइणो कहा कडेण लद्धकन्नं पि, विक्कमो चित्तजीविणो ।
दासी अवाइणिं तुट्ठो, 'किं अदिज्जं हि दाणिणो' ॥ उज्जइणीए नयरीए परदुहभंजणो परित्थीसहोयरो विक्कमाइच्चो नरवई होत्था । सो एगया रायवाडिगाए वच्चंतो एगं दूरदेसाओ आगयं दूअं पेक्खिऊण 'कत्तो तुं समागओ ? 'त्ति पुच्छित्था । 'कणगसारपुराओ हं समागओ' त्ति तेण वुत्ते 'तत्थ किं पि अच्छरियं तुमए दिटुं'ति निवेण भणिए सो कहेइ - देव ! सुणिज्जउ तहिं जं अब्भुयं । तत्थ कणगसुन्दरस्स रण्णो रमणीवृंदसिरोमणी तिलगसिरी सुआ अत्थि । अण्णया मायपियरेहिं विवाहटुं भणिया सा कहेइ - रत्तीए चउरो वारे जो मं बोल्लाविस्सइ सो मम सामी, अण्णह मम किंकरो भविस्सइ त्ति । तन्निण्णयवर्से सव्वहिं पहियं समायण्णिऊण बहवो राय-मंति-सेट्ठी-सत्थवाह-सेणावइपमुहाणं कुमारा तयटुं समागया । तं अजिणिऊण तीए घरम्मि ते मुंडयमुहा मलिणाणणा इत्थीवेसाहरणा पइदिणं पाणीणं वहेइरे – इअ अहं तहिं अब्भुयं पासित्था ।
इअ अब्भुयनिवेअगे तम्मि सक्कारपुव्वं विसज्जिय 'ताणं रायाइपुत्ताणं दुक्खं तीए य कुमारीए अहिमाणं निराकरिस्सं' ति विक्कमराया नियकिंकरं वेयालं देवं मणंसि किच्चा कणगसारपुरम्मि समागओ। तत्थ य जोगिवेसेण भमंतो राया रायदुवारम्मि समागंतूण ढक्काए पहारं कासी । अम्हाणं सामिणि जेउं को वि समागओ त्ति तहिं आगयाहिं तीए दासीहिं सो जोगी विलोइओ । कहियं च तस्स सरूवं नियसामिणीए । तीए आगारिओ सो वि अब्भंतरम्मि गंतूणं दीवग-रम्मम्मि गेहम्मि जोगिवेसेणेव आसणम्मि संठिओ । आसणसंठिआए सयलालंकारविराइयाए तीए कहं कहिउं उज्जओ होत्था । हे दीवग ! एसा पाहाणाओ वि अईव कक्कसा हुंकारं पि न देइ, तेण जइ तुं हुंकारं देसि, तइया किं चि कहाणगं वएमि । तया य दीवब्भंतरट्ठिएण वेयालदेवेण तहत्ति पडिवण्णे राया कहं कहिउं पउत्तो ।
तहा हि - कलासरगामनिवासी नारायणो नाम माहणो कमलानामनियगेहिणि आणेउं सत्तवारं ससुरघरम्मि गओ। परं सा केण वि कारणेण न आगच्छेज्जा । अह अट्ठमं वारं तं आणेउं केसवनाममित्तजुत्तेण गच्छंतेण पहम्मि मच्चुंजयनामम्मि तित्थम्मि महेसरस्स पुरओ भणित्था । हे देव ! एयम्मि समये जइ अहं नियप्पियं घेत्तूण आगच्छिस्सं तइया तव मत्थयकमलपूअं करिस्साम्मि । इअ भणिऊण सो नियभज्जं गिण्हिऊण तहिं देवकुलस्स पुरओ समेओ मित्तं वयासी - हे मित्त ! महादेवं पणमित्ता जाव आगच्छामि ताव भवया एत्थ च्चिय ठायव्वं 'ति वोत्तूणं महादेवमंदिरम्मि गंतूण करवालच्छिन्ननियसिरकमलेण महेसरस्स पूअं विहेऊण मयम्मि तम्मि तहिं चेव पडिए, विलंबं विलोइऊण देवकुलमज्झम्मि समागओ केसवो तं तहाविहं विलोइऊण चिंतेइ - 'जइ अहं एवं बालं घेत्तूणं गिहं गच्छामि, तइया अवस्सं इमीए लुद्धण एएणं मित्तदोहिणा पावेण नियमित्तो निहओ ति मम कलंको होहिइत्ति तम्मि वि तहेव पडिए
७९
Page #89
--------------------------------------------------------------------------
________________
दुण्हं पि विलंबेण अच्चंतं भीआ मज्झम्मि गया सा ताणं इमं अवत्थं विलोइत्ता झाएइ - जइ अहं ससुरस्स पिउणो वा गिहं एगागिणी वच्चामि, तया सिच्छायारिणीए' एयाए पइ-देवरा हय त्ति कलंको होज्जा तेण मम वि एएसि पिव जुत्तं ति तेण च्चिय असिणा नियं सिरं छिदिउं उज्जयं तं पच्चक्खीहुओ महेसो इत्थीहच्चापावं हं न गिण्हेमि'ति वयंतो तक्कराओ असिं अवणेइत्था । 'कलंककलियाए पइरहियाए मम जीविएण किं ? तओ जइ एए जीविस्संति तया मे पाणा न अन्नहा', इअ निण्णयं नच्चा 'मम पक्खालणजलेण अभिसित्ता दो वि एए जीविस्संति' इअ भगवया संकरेण भणियं आयण्णिऊण तीए ऊसुगेण विवरीयत्तणेण संधियमत्थया तहेव य अभिसित्ता ते जीविया ।
अह हे दीव ! तीए अटुं मिहं कलहं कुणंताणं कास इमा गिहिणी ? - इअ जोगिणा पुढे तं रायकन्नं जंपिउं ऊसुगेण दीवब्भंतरट्ठिएण वेयालेण 'पइमुहस्स पत्ती' इअ असमंजसं भणियं समायण्णिऊण संजायकोवा विम्हरियनियनिण्णया सा 'रे पावदीव ! मा असच्चं वयाहि'त्ति बाढसरेण वएइ । रायकन्ना सइ' जंपिअ त्ति ढक्काए पहारं दावित्था । हे जोगिंद ! 'कास एसा पत्ती ? इअ दीवेण भणिए 'मित्तमुहस्स'त्ति जोगिणा कहिए 'कह' ति ? दीवो पुणो पुच्छेइ । 'विवाहावसरे खु दाहिणो करो दिज्जइ, सो उ कबंधगओ एव होज्ज'त्ति जोगिणा भणिए, 'एगसो एएण अहं जंपिया, तिण्णि वारा अवसीसंति, तेण विसेसओ मउणवई सा संठिआ ॥
एवं इह पढमा कहा कमंकेण
कहा समत्ता ॥
(अनुसन्धानमागामिन्यां
शाखायाम)
१. स्वेच्छाचारिण्या ॥ २. सकृत् ॥
Page #90
--------------------------------------------------------------------------
________________ गतिरोधकम् एकेन भौतिकविज्ञानशिक्षकेण स्वीयकक्ष्यायां विद्यार्थिनः पृष्टा - “भोः विद्यार्थिनः ! विचारयित्वोत्तरं ददतु - कस्मिंश्चिदपि याने गतिरोधकं (Brakes) किमर्थमुपयुज्यते?" विद्यार्थिनामुत्तराणि विविधान्यासन् - - वाहनावस्थानार्थम्। - वेगस्य न्यूनीकरणार्थम्। - सट्टाद् रक्षणार्थम्..... इत्यादि। किन्तु श्रेष्ठमुत्तरमिदमासीत् - - अस्मान् वाहनं वेगेन चालयितुं समर्थान् कर्तुम् !! शिक्षक इदमुत्तरं सर्वश्रेष्ठतया भावितवान्। अस्य कारणत्वेन स एवमुक्तवान् - क्षणं चिन्तयतु यद् भवतो वाहने गतिरोधकं नास्ति / ततो भवान् कियता वेगेन यानं चालयिष्यति? यद् वयं स्वीयं वाहनं सवेगं चालयितुं साहसं कुर्मः, तत्प्रवेगमितोऽपि वर्धयितुं समुत्सहामहे, गन्तव्यं स्थलं च यथासमयं यथेच्छं वा प्राप्नुमस्तत्र मुख्यं परिबलमस्ति गतिरोधकम् (Brakes) / एवं जीवनेऽपि, वयमस्माकं माता-पितरौ, गुरुजनान्, सुहृदः, धर्मगुरून्, अन्यानपि च हितचन्तकान् विविधप्रसङ्गेषु नः प्रगतिकृते, नो दिग्दर्शनकृते निर्णयग्रहणकाले वा नः पर्यनुयोजयतः अस्मत्कृते गतिरोधकानिव, सन्तापकानिव च चिन्तयामः, तेषां च पर्यनुयोगान् अस्मत्कार्येषु समारोधकानिव भावयामः। किन्तु स्मर्तव्यमत्र यत् तेषां तादृशप्रश्नकरणात् (नियतकालिक-गतिरोधकरणात्) एव वयमियती भुवं प्राप्ताः स्मोऽद्य / गतिरोधकायितेभ्यो हि तेभ्यो विना वयं कुत्रचित् पथभ्रष्टाः, दिङ्मूढाः, अपघातग्रस्ताः, स्खलनं प्राप्य पतिताः वा अभविष्यामः / अतः “जीवने विद्यमानान् समागतान् वा गतिरोधकान् सादरं सम्भावयामः, सविवेकं च तान् प्रयुज्महे" - इति॥