SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ जीवनमौक्तिकम् (१) परमगहनरूपं परमात्मतत्त्वम् मुनिरम्याङ्गरत्नविजयः शङ्कितमानसः पूर्वमहं यत्कोऽस्ति परमात्मा ? किन्त्वधुनाऽपूर्वस्फुरणया समाधानमस्य सञ्जातम् - "यो ददाति शुद्धं धर्मं स परमात्मा जगति"। परमात्मतत्त्वस्य परिज्ञानं परिशुद्धधर्मस्य माध्यमेन करणीयम् । केनचिन्नाम्ना परमात्मतत्त्वं श्रद्धेयं न भवति, प्रसार-प्रसिद्ध्यन्यतरादपि हेतोः परमात्मतत्त्वस्य मनोनीतकरणे वयं विप्रलब्धा एव भविष्यामः । बाढमेतदन्यत् - अस्माकं पार्वे यदि धर्मस्य यथार्थतां परीक्षितुं प्रज्ञा भवेत् । किन्तु धर्मस्य हट्टो विस्तीर्णोऽस्ति, शुद्धधर्मेण साकं तस्यामेव विपण्यां लोकानुकूला - अज्ञानविमोहिता भ्रान्तधर्मा अपि मिलन्ति । यथा कार्तस्वरस्याऽऽपणे सुविशुद्ध-मिश्रणशून्यकाञ्चनं भवति, तत्र स्वर्णोन्मिश्रितारकूटोऽपि वर्तते, तथैव कृत्रिमकनकमपि सुलभम् । इत्थं - छादिकधर्मा अपि संसारे विस्तृतप्रचाराः प्राप्यन्ते । अस्माभिस्तत्र कष-च्छेद-तापरूपशास्त्रोक्तत्रिविधपरीक्षया धर्मतत्त्वं समीक्षणीयम् । श्रीजैनशासनस्य इदमेव माहात्म्यं यत्तत्त्वत्रयीरूपान् देव-गुरू-धर्मानपि परीक्षापूर्वकमेव स्वीकर्तुं निर्दिशति । एवं तस्यां परीक्षायामुत्तीर्णोऽस्माकमज्ञानान्धकारापहरणे दीपकतुल्यो धर्म एव विशुद्धधर्मरूपेण सम्माननीयः । उक्तमेव - त्रैलोक्ये दीपको धर्मः, इति । तथा च तद्धर्मदेशका एव परमात्मतया स्वीकरणीयाः संस्तवनीयाश्च । अनया रीत्या सर्वलोकमाश्रित्याऽभीष्टदोऽपि भवति । यतो योग्याय ददाति यः स महात्मा, सर्वान् ददाति यः स परमात्मा । व्यक्तित्वेन स लोकाग्रे स्थितः, किन्तु शक्तिमत्त्वेन तु सर्वत्र सर्वदा विजयतेतराम् । प्रपञ्चितमिदं परमात्मपञ्चविंशतिकायामुपाध्यायप्रवरैः - व्यक्त्या शिवपदस्थोऽसौ । शक्त्या जयति सर्वदा ॥ इति ॥ २२
SR No.521041
Book TitleNandanvan Kalpataru 2018 11 SrNo 41
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2018
Total Pages90
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy